Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.160

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.160.1

हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु ।
न्यविशन्त महाराज कौरवेया यथाविधि ॥ ५.१६०.१ ॥

大王啊,当高尚的般度之子们在希兰瓦蒂河畔扎营之后,俱卢之子们也依礼进入了他们的营地。

5.160.2

तत्र दुर्योधनो राजा निवेस्य बलमोजसा ।
संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥ ५.१६०.२ ॥

国王难敌在那里以威力安置军队,尊重诸王,并同样部署了守卫的队伍。

5.160.3

आरक्षस्य विधिं कृत्वा योधानां तत्र भारत ।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥ ५.१६०.३ ॥

婆罗多啊,他在那里安排好战士的守卫后,又召来了迦尔纳、难降,以及苏婆罗之子沙恭尼。

5.160.4

आनाय्य नृपतिस्तत्र मन्त्रयामास भारत ।
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥ ५.१६०.४ ॥

国王在那里召集他们商议,婆罗多啊;在那里,国王难敌与迦尔纳一同商议,婆罗多啊。

5.160.5

सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ।
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥ ५.१६०.५ ॥

王中之王啊,人中之最啊,他与苏婆罗之子沙恭尼商议后,在僻静处召来乌卢迦,对他说了这番话。

5.160.6

उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् ।
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः ॥ ५.१६०.६ ॥

乌卢迦啊,你这迦伊塔瓦的后裔,去吧!与索摩迦一同去见般度之子们,在瓦苏提婆(黑天)聆听时,向他们传达我的话。

5.160.7

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ॥ ५.१६०.७ ॥

那场经年累月反复思量的战争now已经来临——般度之子与俱卢之间的战争,将令世界恐惧。

5.160.8

यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् ।
वासुदेवसहायस्य गर्जतः सानुजस्य ते ॥ ५.१६०.८ ॥

这就是桑闪耶所说的那番夸口之言——关于你,以婆苏提婆为助手,与幼弟一同咆哮。

5.160.9

मध्ये करूणां कौन्तेय तस्य कालोयमागतः ।
यथावत्संप्रतिज्ञातं तत्सर्वं क्रियतामिति ॥ ५.१६०.९ ॥

贡蒂之子啊,那个时刻已在俱卢人之中到来。愿一切都照约定而行。

5.160.10

ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम ॥ ५.१६०.१० ॥

遵照我的话,你也应当同样地去告诉贡蒂的长子。

5.160.11

भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः ।
कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः।
य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् ॥ ५.१६०.११ ॥

与兄弟、一切索摩迦和迦叶迦同在,你既为正法之人,为何将心思放在非法之上?你想要像残忍之人那样,看着整个世界毁灭吗?

5.160.12

अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः ॥ ५.१६०.१२ ॥

你是给予一切众生无畏的守护者——这是我的看法。

5.160.13

श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ ।
प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥ ५.१६०.१३ ॥

婆罗多族的雄牛啊,人们听说过往昔普拉赫拉达所唱的这首颂诗,那时诸神夺去了他的王国。愿你吉祥。

5.160.14

यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि बैडालं नाम तद्ब्रतम् ॥ ५.१६०.१४ ॥

其法幢常如诸天之幢高高竖起,却暗藏罪恶者,其所行之戒便名为猫戒。

5.160.15

अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् ।
कथितं नारदेनेह पितुर्मम नराधिप ॥ ५.१६०.१५ ॥

人主啊,我今在此为你述说这段殊胜的故事,此乃那罗陀在此对我的父亲所讲。

5.160.16

मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु ।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन ॥ ५.१६०.१६ ॥

大王啊,曾经有一只心术邪恶的猫,在恒河岸边,一切行为都静止不动,双臂高高举起而立。

5.160.17

स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् ।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥ ५.१६०.१७ ॥

他净化其心,以赢得众生的信任,说道:「我行法」,并对一切众生如此说。

5.160.18

तस्य कालेन महता विस्त्रम्यं जग्मुरण्डजाः ।
समेत्य च प्रशंसन्ति मार्जारं तं विशांपते ॥ ५.१६०.१८ ॥

经过很长时间,鸟类怀着信任来到他那里,人民之主啊,它们聚集在一起,赞美那只猫。

5.160.19

पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः ।
आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम् ॥ ५.१६०.१९ ॥

受到所有鸟儿尊敬的那只以鸟为食的猫认为,自己的目的已经达到,那位高贵妇人的目的也已结出果实。

5.160.20

अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः ।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥ ५.१६०.२० ॥

过了很久,老鼠们来到那个地方,在那里看见了那位虔守誓愿的持法者。

5.160.21

कार्येण महता युक्तं दम्भयुक्तेन भारत ।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥ ५.१६०.२१ ॥

婆罗多啊,他怀有宏大的目的,却也怀着虚伪;国王啊,这就是他们在那个决定中的想法。

5.160.22

बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् ।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥ ५.१६०.२२ ॥

我们大家都有许多朋友,而他是我们的舅舅。愿他时常以各种方式保护老人和幼儿。

5.160.23

उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् ।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥ ५.१६०.२३ ॥

于是他们都走到猫跟前说道:“蒙您的恩德,我们希望安适地自在往来。”

5.160.24

भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत् ।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥ ५.१६०.२४ ॥

您是我们坚定的依靠,也是我们最好的朋友;我们大家一同前来投奔您的庇护。

5.160.25

भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः ।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥ ५.१६०.२५ ॥

您始终奉行法,安住于法。大智者啊,请守护我们,如持金刚者守护诸天。

5.160.26

एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशांपते ।
प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् ॥ ५.१६०.२६ ॥

众王之主啊,当众鼠如此对他说后,那灭鼠者便回答了他们所有人。

5.160.27

द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च ।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥ ५.१६०.२७ ॥

我看不到苦行与护佑这二者的结合;然而,我必定要成就你们有益的请求。

5.160.28

युष्माभिरपि कर्तव्यं वचनं मम नित्यशः ।
तपसास्मि परिश्रान्तो दृढं नियमामास्थितः ॥ ५.१६०.२८ ॥

你们也应当常常遵从我的话。我因苦行而疲惫,坚定地持守着严格的誓戒。

5.160.29

न चापि गमने शक्तिं कांचित्पश्यामि चिन्तयन् ।
सोस्मि नेयः सदा ताता नदीकूलमितःपरम् ॥ ५.१६०.२९ ॥

我反复思量,也看不到自己有任何行走的力量。亲爱的人们啊,我总需要被引领;请从此处把我送到河岸去吧。

5.160.30

तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ ।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥ ५.१६०.३० ॥

婆罗多族中的雄牛啊,鼠群应允说“好”,便把一切,包括老幼之事,都告诉了猫。

5.160.31

ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन् ।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥ ५.१६०.३१ ॥

于是那个作恶、心怀邪念的家伙吃着老鼠,变得肥壮、油光发亮、身体强健。

5.160.32

मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः ।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥ ५.१६०.३२ ॥

此时,鼠群大大减少;而那只猫,凭借光彩与力量,却越长越壮。

5.160.33

ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् ।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥ ५.१६०.३३ ॥

于是所有的老鼠聚在一起,彼此说道:“我们的舅舅天天长大,而我们却越来越少了。”

5.160.34

ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः ।
अब्रवीद्वचनं राजन्मूषिकाणां महागणम् ॥ ५.१६०.३४ ॥

于是,一只名叫丁迪迦的极有智慧的老鼠,大王啊,对那一大群老鼠说了这番话。

5.160.35

गच्छतां वो नदीतीरं सहितानां विशेषतः ।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥ ५.१६०.३५ ॥

你们都去河岸吧,尤其要结伴同行;我将与舅舅一同在后面跟随。

5.160.36

साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा ।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥ ५.१६०.३६ ॥

“说得好,说得好!”众鼠当即赞叹,尊敬丁迪迦,并依照他有道理的话恰当行事。

5.160.37

अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान् ।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥ ५.१६०.३७ ॥

由于无知,他随即吞下了那个鼓手。于是众人聚集在一起,立即商议起来。

5.160.38

तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः ।
अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् ॥ ५.१६०.३८ ॥

那里有一只名叫考利迦的极老的老鼠。大王啊,它在族人之中如实地说出了这番话。

5.160.39

न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा ।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥ ५.१६०.३९ ॥

这位舅舅并非渴求法,只是假装;他所留的发髻也是如此。食根果者的粪便不会如此多毛。

5.160.40

अस्य गात्राणि वर्धन्ते गणश्च परिहीयते ।
अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते ॥ ५.१६०.४० ॥

他的身体在长大,而鼠群在减少。如今已过七八天,连那个鼓手也不见了。

5.160.41

एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः ।
बिडालोपि स दुष्टात्मा जगामैव यथागतम् ॥ ५.१६०.४१ ॥

听到这番话,所有老鼠四散逃走,那只心怀恶念的猫也从来路返回了。

5.160.42

तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः ।
चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव ॥ ५.१६०.४२ ॥

同样,你这心怀恶念的人,也持守着猫的誓言,总是在族人之间游走,就像猫在老鼠之中游走一样。

5.160.43

अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते ।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥ ५.१६०.४३ ॥

你的言语是一回事,你的行为却似乎另一回事;吠陀与你的克制,只是用来欺骗世人。

5.160.44

त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः ।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥ ५.१६०.४४ ॥

大王啊,舍弃这欺诈,依止刹帝利之法。履行一切职责,因为你是最讲正法的,人中之杰。

5.160.45

बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम ।
देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम् ॥ ५.१६०.४५ ॥

婆罗多中最优秀的人啊,你以臂力征服大地之后,应当适度地布施给再生者与祖先。

5.160.46

क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः ।
प्रमार्जाश्रु रणे जित्वा संमानं परमावह ॥ ५.१६०.४६ ॥

记起你母亲多年的苦难,坚定地为母亲的福祉而立,在战场上获胜,擦去她的眼泪,为她带来最高的荣誉。

5.160.47

पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः ।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥ ५.१६०.४७ ॥

五个村庄是我们费力选定的,我们并未放弃。我们怎能在战场上作战,又怎能激怒般度之子?

5.160.48

त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च ।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥ ५.१६०.४८ ॥

因你这恶意之人,维杜罗被舍弃,漆宫也遭到了焚烧。记住这些,做一个真正的男子吧。

5.160.49

यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि ।
अयमस्मि स्थितो राजञ्शमायसमराय च ॥ ५.१६०.४९ ॥

你在俱卢议会上对前来的黑天所说的话:"大王,我站在这里,无论和平还是战争。"

5.160.50

तस्यायमागतः कालः समरस्य नराधिप ।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥ ५.१६०.५० ॥

人主啊,那场战斗的时刻已经到来。我所做的一切正是为此,俞提诃罗啊。

5.160.51

किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते ।
किंच त्वं क्षत्रियकुले जातः संप्रथितो भुवि ॥ ५.१६०.५१ ॥

武士认为比战斗更大的利益是什么呢?而你,生于刹帝利族、名闻世间的人,又当如何?

5.160.52

द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ ।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥ ५.१६०.५२ ॥

婆罗多族的雄牛啊,你从德罗纳和克里帕那里获得了武器,又投靠了同出一族、势力相当的婆苏提婆。

5.160.53

ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः ।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय ॥ ५.१६०.५३ ॥

你应当对身边的婆苏提婆,也就是般度诸子的近臣说:为了你自己,也为了般度五子,做好准备,与我交战。

5.160.54

सभामध्ये च यद्रूपं मायया कृतवानसि ।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥ ५.१६०.५४ ॥

你在会堂中央用幻术所化的那个形象,再一次显现出来,与阿周那一同向我进攻吧。

5.160.55

इन्द्रजालं च मायां वै कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः ॥ ५.१६०.५५ ॥

因陀罗的幻术与摩耶,以及可怖的诡计,在战场上为执兵器者激起回荡的吼声。

5.160.56

वयमप्युत्सहेम द्यां खं च गच्छेम मायया ।
रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु ॥ ५.१६०.५६ ॥

我们也能借摩耶升至天空与虚空,进入地下世界,甚至进入因陀罗之城。

5.160.57

दर्शयेम च रूपाणि स्वशरीरे बहून्यपि ।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् ॥ ५.१६०.५७ ॥

我们也能在自己的身体中显现许多形相,但成就不会依次而来,人的智慧无法获得它。

5.160.58

मनसैव हि भूतानि धातैव कुरुते वशे ।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥ ५.१६०.५८ ॥

创造者仅凭心念便能使一切众生受其掌控。而你所说的,凛军之后,我将在战场上对持国之子这样做。

5.160.59

घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् ।
आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम्।
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना ॥ ५.१६०.५९ ॥

我将杀尽他们,把至高的王国赐予普利塔之子。桑闍耶已将你所有的话告诉了我。你的仇恨在于般度之子萨维耶萨钦,他以我为第二。

5.160.60

स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ।
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव ॥ ५.१६०.६० ॥

请守信践诺,为般度之子奋勇而战。今日在战场上做好准备,全力以赴;让我们看看你是否是一个真正的男子。

5.160.61

यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः ।
करोति द्विषतां शोकं स जीवति सुजीवितम् ॥ ५.१६०.६१ ॥

识别敌人、依靠纯粹的男子气概、使敌人悲伤的人,才是真正善生。

5.160.62

अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः ।
अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः ॥ ५.१६०.६२ ॥

黑天啊,我们今日忽然得知你在世间闻名的大名;世上有阉人,也有如兔角般不存在的人。

5.160.63

मद्विधो नापि नृपतिस्त्वयि युक्तः कथंचन ।
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः ॥ ५.१६०.६३ ॥

像我这样的国王,在战斗中绝不应当为你披上铠甲,尤其是对付迦摩娑的仆从。

5.160.64

तं च तूबरकं बालं बह्वाशिनमविद्यकम् ।
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम् ॥ ५.१६०.६४ ॥

乌卢迦啊,请一再将我的话告诉那矮小的孩子、大食者、无知的毗摩色那。

5.160.65

विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा ।
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् ॥ ५.१६०.६५ ॥

普利塔之子啊,你曾在毗罗吒城做厨子,以婆罗婆之名闻名;这正是我的男子气概。

5.160.66

प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ ५.१६०.६६ ॥

你从前在大会中所发的誓言并非虚假;若可能,就让他饮下度沙舍那的血。

5.160.67

यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे ।
निहनिष्यामि तरसा तस्य कालोऽयमागतः ॥ ५.१६०.६७ ॥

俱卢之子啊,你所说的——我将在战场上迅速杀死持国之子——这个时刻now已经到来。

5.160.68

त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ।
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव ॥ ५.१६०.६८ ॥

婆罗多啊,在饮食、食物与饮料中,首先应受尊敬的正是你。战斗在哪里,进食又在哪里?战斗吧,做一个真正的男人。

5.160.69

शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत ।
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर ॥ ५.१६०.६९ ॥

婆罗多啊,你将拥抱着你的权杖,死在地上。狼腹啊,你在大会中间的那些夸口,终是徒劳。

5.160.70

उलूक नकुलं ब्रूहि वचनान्मम भारत ।
युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम् ॥ ५.१६०.७० ॥

乌卢迦啊,依我的话告诉那拉库罗:婆罗多啊,今天坚定地战斗吧,我们将看到你的勇气。

5.160.71

युधिष्ठिरानुरागं च द्वेषं च मयि भारत ।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥ ५.१६०.७१ ॥

婆罗多啊,愿他如今原原本本地记起:他对坚战的忠诚、他对我的仇恨,以及黑公主(德罗波蒂)所受的苦难。

5.160.72

ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम ।
युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव ॥ ५.१६०.७२ ॥

你在王庭之中把我这句话告诉萨哈德瓦:般度之子啊,现在让他在战场上热切地战斗,并且想起那些苦难。

5.160.73

विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम ।
न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ।
तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः ॥ ५.१६०.७३ ॥

你应以我的话告诉毗罗吒与德鲁帕达:从前未曾见过的主人,也有品德高尚的仆从;如同财富之主的仆从一样,因为臣民正是由他们所造。

5.160.74

अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥ ५.१६०.७४ ॥

还有人说,这位人主不值得你们二人称赞。

5.160.75

ते यूयं संहता भूत्वा तद्वधार्थं ममापि च ।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥ ५.१६०.७५ ॥

你们团结起来,与我一同作战,为了杀死他,也为了杀死我,为了你们自己,也为了般度之子们。

5.160.76

धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम ।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः ॥ ५.१६०.७६ ॥

你也应以我的话告诉般遮罗的德里斯塔敦牟:这正是你的时机已到,你也必须把握它。

5.160.77

द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् ।
युद्ध्यस्व समुहृत्पापं कुरु कर्म सुदुष्करम् ॥ ५.१६०.७७ ॥

在战场上接近德罗纳,你将知道最高的利益。罪人啊,与你的朋友一同作战,去完成极为艰难的事业。

5.160.78

शिखण्डिनमथो ब्रूहि उलूक वचनान्मम ।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥ ५.१६०.७८ ॥

然后,乌卢迦啊,以我的话告诉尸甘蒂:大臂的俱卢人以为他是女子,就不会杀他。

5.160.79

गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः ।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥ ५.१६०.७९ ॥

愿善射者中最优秀的甘伽之子(毗湿摩)此刻毫无畏惧地作战。在战场上尽力施展你的功业;我们将见识你的男子气概。

5.160.80

एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत् ।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः ॥ ५.१६०.८० ॥

国王说完这些,笑着对乌卢迦说:“当婆苏提婆在听时,再对持财者(阿周那)说一遍。”

5.160.81

अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् ।
अथवा निर्जितोस्माभी रणे वीर शयिष्यसि ॥ ५.१६०.८१ ॥

或者你打败我们,统治这大地;或者,英雄啊,你在战斗中被我们征服,将躺倒在地。

5.160.82

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ ५.१६०.८२ ॥

般度之子啊,请记住被逐出王国的苦难、林居的艰辛,以及黑天之女(德罗波蒂)的巨大苦痛,做一个男子汉吧。

5.160.83

यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् ।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥ ५.१६०.८३ ॥

刹帝利生来所为之事,如今都已到来:力量、勇气、英勇,以及最高的武艺。

5.160.84

पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ।
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च।
हृदयं कस्य न स्फोटेदैश्वर्याद्धंशितस्य च ॥ ५.१६०.८४ ॥

在战斗中展现你的男子气概,为你的愤怒做出清算。一个备受煎熬、卑微、长期流亡、失去权势的人,谁的心不会因此而碎裂呢?

5.160.85

कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः ।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥ ५.१६०.८५ ॥

一位出身高贵、勇敢而不贪图他人财物的人,若被夺去王国,谁的怒火不会燃起?

5.160.86

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् ।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥ ५.१६०.८६ ॥

所说的那些豪言,应当以行动来证明。智者称那不做事而夸夸其谈的人为小人。

5.160.87

अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर ।
द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम् ॥ ५.१६०.८७ ॥

请夺回落入敌人掌握的地位与王国。渴望战斗者只有两个目标,所以你应当展现勇气。

5.160.88

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना ॥ ५.१६०.८८ ॥

你在赌博中败北,黑天之妹被拖入议会。对于自认为男子汉的人而言,愤怒难以遏制。

5.160.89

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥ ५.१६०.८९ ॥

十二年间你被逐出家园,流落森林;又有一年,你接受奴役,在毗罗吒身边生活。

5.160.90

राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ ५.१६०.९० ॥

般度之子啊,请记住被逐出王国的苦难、森林流亡以及黑天之妹所受的折磨,成为真正的男子吧。

5.160.91

अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः ।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥ ५.१६०.९१ ॥

对那些反复说不悦之言的人,你应当显示愤怒,因为愤怒正是男子气概。

5.160.92

क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् ।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥ ५.१६०.९२ ॥

阿周那啊,愿愤怒、力量、勇气、知识之道与用兵之敏捷在此显现于你身上;战斗吧,做一个真正的男子。

5.160.93

लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥ ५.१६०.९३ ॥

铁甲之军已集结完毕;俱卢之野无泥泞;你的马匹肥壮,战士已得供养;明日便与克沙瓦一同作战吧。

5.160.94

असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥ ५.१६०.९४ ॥

未曾在战场上与毗湿摩相遇,你为何夸口?就像愚人想攀登乾陀摩陀那山一样。

5.160.95

एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव ।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥ ५.१६०.९५ ॥

阿周那啊,你如此夸口;不夸口而做一个男子吧。御者之子那难以战胜者,以及强者中最优秀的沙利耶,你必须战胜。

5.160.96

द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ ५.१६०.९६ ॥

阿周那啊,不在战场上战胜强者中最优秀、与因陀罗相等的德罗纳,你怎能在此渴求王国?

5.160.97

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥ ५.१६०.९७ ॥

精通梵天弓与两部吠陀的导师,战场上的首领,不可动摇,行于军阵之中的不朽者(德罗纳)。

5.160.98

द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ ५.१६०.९८ ॥

阿周那啊,欲胜大光辉的德罗纳,实属徒劳;我们从未听说狂风曾撼倒须弥山。

5.160.99

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ ५.१६०.९९ ॥

纵使狂风卷走须弥山,天空坠落大地,或时代倒转——若果真如你对我所言。

5.160.100

को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् ।
पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत् ॥ ५.१६०.१०० ॥

谁愿求生,还敢与这摧敌者对阵?无论是阿周那还是他人,又有谁能平安归家?

5.160.101

कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा ।
रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन् ॥ ५.१६०.१०१ ॥

若被这两人所瞄准,或被那可怖者所触及,谁能在战斗中活着脱身——即便他双脚不着地?

5.160.102

किं दर्दुरः कूपशयो यथेमां ।
न बुध्यसे राजचमूं समेताम्।
दुराधर्षां देवचमूप्रकाशां ।
गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ ५.१६०.१०२ ॥

你莫非如住在井中的蛙,竟不识这聚集的王师?它不可攻破,光耀如天神之军,由众王守护,正如天界由诸神守护。

5.160.103

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै-
रुदीच्यकाम्भोजशकैः खशैश्च ।
साल्वैः समत्स्यैः कुरुमध्यदेश्यै-
र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ ५.१६०.१०३ ॥

来自东方与西方的民族,南方的民族,北方的剑浮人和塞人,驱赶人,萨尔瓦人,摩差人,俱卢中部地区的人,蛮夷,普林达人,以及德拉维达人、安陀罗人和劫比罗人。

5.160.104

नानाजनौघं युधि संप्रवृद्धं ।
गाङ्गं यथा वेगमपारणीयम्।
मां च स्थितं नानाबलस्य मध्ये ।
युयुत्ससे मन्द किमल्पबुद्धे ॥ ५.१६०.१०४ ॥

如同战斗中汹涌膨胀的众人洪流,如同无法渡过的恒河急流,而我身处众多军队之中,你为何想与我交战,愚人啊,无知的人?

5.160.105

अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम् ।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥ ५.१६०.१०५ ॥

普利塔之子啊,我们知道你有两个不尽的箭囊,还有火神所赐的战车;婆罗多的后裔啊,你在战斗中也有神圣的旗帜。

5.160.106

अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात् ॥ ५.१६०.१०६ ॥

不要夸口,只管作战。阿周那啊,你为何如此夸口?成功是依次而来的,并非凭夸口而成就。

5.160.107

यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥ ५.१६०.१०७ ॥

达那嘉亚啊,若在世间凭夸口就能成就事业,那么人人都会功德圆满;那么夸口之人,又有谁会陷入困厄呢?

5.160.108

जनामि ते वासुदेवं सहायं ।
जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्यहं त्वादृशो नास्ति योद्धा ।
जानानस्ते राज्यमेतद्धरामि ॥ ५.१६०.१०८ ॥

我知道你的盟友婆苏提婆(Vāsudeva)。我知道你的弓甘狄拔(Gāṇḍīva),高如棕榈。我知道世上没有像你这样的勇士。虽然知道这一切,我仍将收回这王国。

5.160.109

न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः ।
मनसैवानुकूलानि धातैव कुरुते वशे ॥ ५.१६०.१०९ ॥

然而,人并不仅仅依靠接续的因果之序而成功。人只凭心念便能驾驭有利的事物;创造主本身也驾驭它们。

5.160.110

त्रयोदशसमा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥ ५.१६०.११० ॥

十三年间你享有王国,却一直哀叹。我将再次统治,杀死你和你的亲属之后。

5.160.111

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥ ५.१६०.१११ ॥

当你以奴役为赌注而败北时,你的甘狄拔弓在哪里?啊,法尔古那(Phālguna),那时,毗摩森那(Bhīmasena)的力量又在哪里?

5.160.112

सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात् ।
न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां ॥ ५.१६०.११२ ॥

无论是持杵的毗摩森那,还是持甘狄拔弓的法尔古那,当时都无法带来解脱;若无无瑕的克里希那(Kṛṣṇā),这一切便不会发生。

5.160.113

सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥ ५.१६०.११३ ॥

Pṛṣata之女(德劳帕蒂)解救了你们,那时你们陷入奴役,处于非人的奴隶劳役之中。

5.160.114

अवोचं यत्षण्डतिलानहं वस्तथयमेव तत् ।
धृता हि वेमी पार्थेन विराटनगरे तदा ॥ ५.१६०.११४ ॥

我所说的正是如此:那时在毗罗吒城,般度之子持着织匠的梭子。

5.160.115

सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥ ५.१६०.११५ ॥

俱卢之子啊,我在毗罗吒的厨房里做厨役而疲倦时所立的功勋——那实际上是毗摩森那所为。

5.160.116

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥ ५.१६०.११६ ॥

刹帝利之间向来如此以杖相加;你扮作阉人,结了发辫,使少女跳舞。

5.160.117

न भयाद्वासुदेवस्य न चापि तव फल्गुन ।
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥ ५.१६०.११७ ॥

不是因为惧怕婆苏提婆,也不是因为惧怕你,阿周那——我将归还王国;与克舍婆一同来战吧。

5.160.118

न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥ ५.१६०.११८ ॥

在战场上持械的勇士面前,幻术、因陀罗的魔网,乃至可怖的诡计都无法立足;它们只能承载回响的咆哮。

5.160.119

वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥ ५.१६०.११९ ॥

即便千位婆苏提婆、百位阿周那来到我面前——我的箭从不落空——他们也会四散奔逃于十方。

5.160.120

संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् ।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥ ५.१६०.१२० ॥

去往战场,与毗湿摩交战,或以头撞碎大山;或以双臂渡过那深不可测的人海之渡口。

5.160.121

शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥ ५.१६०.१२१ ॥

充满大鱼沙罗陀瓦陀、大蛇毗频舍提、广大军队的巨浪,以及索摩达提这条吞鲸。

5.160.122

भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ॥ ५.१६०.१२२ ॥

以毗湿摩之势而无边,以德罗纳为鳄鱼而难以接近,有迦尔纳与沙利耶作为鱼与漩涡,以憍萨罗人为海底之火口。

5.160.123

दुःशासनौघं शलशल्यमत्स्यं ।
सुषेणचित्रायुधनागनक्रम्।
जयद्रथाद्रिं पुरुमित्रगाधं ।
दुर्मर्षणोदं शकुनिप्रपातम् ॥ ५.१६०.१२३ ॥

有難降流般的難降,魚有沙羅與沙利耶,蛇與鱷有蘇舍那與質戟,山為勝車,深淵為補魯彌特羅,水為杜爾摩夏那,懸崖為沙古尼。

5.160.124

शश्त्रौघमक्षय्यमभिप्रवृद्धं ।
यदावगाह्य श्रमनष्टचेताः।
भविष्यसि त्वं हतसर्वबान्धव-
स्तदा मनस्ते परितापमेष्यति ॥ ५.१६०.१२४ ॥

当你跃入那无尽、暴涨的兵器洪流,因疲惫而心神迷乱,亲族尽皆被杀,那时你的心将充满痛悔。

5.160.125

तदा मनस्ते त्रिदिवादिवाशुचे-
र्निवर्तिता पार्थ महीप्रशासनात्।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया ।
बुभूषितः स्वर्ग इवातपस्विना ॥ ५.१६०.१२५ ॥

那时,你的心将从统治大地上收回,如同行为不净之人被逐出天界一般,啊,普利塔之子。正如未曾修苦行者妄想升天,你也妄想安治这极难得到的王国。