Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.161

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.161.1

सेनानिवेशं संप्राप्तः कैतव्यः पाण्डवस्य ह ।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥ ५.१६१.१ ॥

迦伊塔瓦抵达般度之子的营地,与般度诸子会合,并对坚战说道。

5.161.2

अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम ।
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥ ५.१६१.२ ॥

我深知使者之言,照实转述难敌的命令,你听后不应发怒。

5.161.3

उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।
यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥ ५.१६१.३ ॥

乌卢迦,你无所畏惧;请放心说吧——持国之子,被骄狂、贪婪和短视所迷,所说的话。

5.161.4

ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।
सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः ॥ ५.१६१.४ ॥

那时,在光辉的般度之子、伟大的人们、南遮耶人、摩特耶人和名声显赫的黑天之中。

5.161.5

द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥ ५.१६१.५ ॥

在德鲁帕达及其子、毗罗吒面前,在诸王之中,他说出了这番话。

5.161.6

इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।
श्रृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर ॥ ५.१६१.६ ॥

持国之子、心胸广大的国王对你说了这番话。在库鲁的英雄们聆听之时,坚战啊,请听清楚。

5.161.7

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥ ५.१६१.७ ॥

你在掷骰游戏中败北,克利须那被带入议会。自认为有男子气概的人,对此可能会愤怒。

5.161.8

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥ ५.१६१.८ ॥

十二年间你被逐出家园流落森林,一年间你在毗罗吒处为奴。

5.161.9

अमर्षं राज्यहरणं वनवासं च पाण्डव ।
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥ ५.१६१.९ ॥

般度之子啊,想起王国被夺、林中流放以及德罗巴蒂的苦难,便当做一个男子汉。

5.161.10

अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ ५.१६१.१० ॥

般度之子啊,毗摩先那在无力之时所发的誓言——若能做到,便让他饮下难降的血。

5.161.11

लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
समः पन्था भृतास्तेश्वाः श्वो युध्यस्व सकेशवः ॥ ५.१६१.११ ॥

铁军集结已毕;俱卢之野无泥泞,道路平坦,你的马匹已备好。明日便与克舍婆一同作战吧。

5.161.12

असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा पङ्गुः पर्वतं गन्धमादनम् ॥ ५.१६१.१२ ॥

你尚未在战场上与毗湿摩相遇,为何夸口?你好比跛子想攀登乾陀摩陀那山。

5.161.13

एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव ।
सूतपुत्रं सुदुर्घर्षं शल्यं च बलिनां वरम् ॥ ५.१६१.१३ ॥

孔提之子啊,你如此夸口。不要夸口,要做个男人。去面对难以战胜的御者之子,以及勇士中最优秀的沙利耶。

5.161.14

द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥ ५.१६१.१४ ॥

在战斗中未能战胜与因陀罗相等、勇士中最优秀的德罗纳,啊,普利塔之子,你怎能在此渴求王国?

5.161.15

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥ ५.१६१.१५ ॥

婆罗门弓术的导师,通晓两部吠陀的究竟,战场上的首领,坚定不移,行走于军阵之间的不动者(德罗纳)。

5.161.16

द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥ ५.१६१.१६ ॥

啊,普利塔之子,你想战胜光辉赫赫的德罗纳,那是徒劳的。我们从未听说风曾吹倒过须弥山。

5.161.17

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥ ५.१६१.१७ ॥

即使风卷走了须弥山,天空坠落大地,或时代的轭倒转,而事情果真如你对我所说,(那我才会相信)。

5.161.18

को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् ।
गजो वाजी रथो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥ ५.१६१.१८ ॥

谁贪恋生命,遇到这位摧毁敌人者,还能带着象、马或战车安然返回家园?

5.161.19

कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥ ५.१६१.१९ ॥

若被这二人锁定,或与猛将相遇,他如何能在战中存活脱身,双足触地?

5.161.20

किं दुर्दुरः कूपशयो यथेमां ।
न बुध्यमे राजचमूं समेताम्।
दुराधरषां देवचमूप्रकाशां ।
गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥ ५.१६१.२० ॥

你岂不像井底之蛙,看不清这集结的王师?它不可抵挡,如同天神之军,由诸王守护,犹如诸神护卫天界。

5.161.21

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै-
रुदीच्यकाम्भोजशकैः खशैश्च।
साल्वैः समत्स्यैः कुरुमुख्यदेश्यै-
र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥ ५.१६१.२१ ॥

东方、西方、南方、北方之民,还有剑浮人与塞人,khaśa人,萨尔瓦与鱼国人,诸位杰出的俱卢人和当地民众,蛮夷,布林达人,以及德拉维达、安陀罗与甘奇人。

5.161.22

नानाजनौघं युधि संप्रवृद्धं ।
नाङ्गं यथा वेगमपारकणीयम्।
मां च स्थितं नागबलस्य मध्ये ।
युयुत्समे मन्द किमल्पबुद्धे ॥ ५.१६१.२२ ॥

你连那在战场上暴涨的众多民族的洪流——其势无边——都毫无察觉吗?连站在象军中央的我也看不见吗?愚蠢的人,见识短浅的人,你想和谁交战?

5.161.23

इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् ।
अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥ ५.१६१.२३ ॥

Ulūka对法之子国王Yudhiṣṭhira如此说后,又转向胜者Jiṣṇu(阿周那)回答道。

5.161.24

अकत्थमानो युध्यस्व कत्थेसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेस्य नैतत्सिध्यति कत्थनात् ॥ ५.१६१.२४ ॥

不要自夸,去战斗吧。阿周那,你为何如此夸口?此事的成就依次而来,不会因夸口而成就。

5.161.25

यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥ ५.१६१.२५ ॥

财富征服者啊,若在世上仅凭夸口便能成事,那么人人都会如愿;在夸口之中,又有谁会陷入困顿呢?

5.161.26

जानामि ते वासुदेवं सहायं ।
जानामि ते गाण्डिवं तालमात्रम्।
जानाम्येतत्त्वादृशो नास्ति योद्धा ।
जानानस्ते राज्यमेतद्धरामि ॥ ५.१६१.२६ ॥

我知道婆苏提婆是你的盟友。我知道你的神弓甘狄拔如棕榈树般巨大。我知道没有像你这样的勇士。虽知这一切,我仍执掌你的王国。

5.161.27

न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः ।
मनसैवानुकूलानि विधाता कुरुते वशे ॥ ५.१६१.२७ ॥

然而,人并非依次轮替而获得王国;创造主将合乎心意的事物置于其掌控之下。

5.161.28

त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥ ५.१६१.२८ ॥

你一边哀叹,已享有王国十三年。如今我将杀死你和你的亲族,再度统治。

5.161.29

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुना ॥ ५.१६१.२९ ॥

当你因奴隶之注而败北时,你的神弓甘狄拔在哪里?那时,怖军的力量又在何处,法尔古那啊?

5.161.30

सगदाद्भीमसेनाद्वा पार्थाद्वापि सगाण्डिवात् ।
न वै मोक्षस्तदा वोभूद्विना कृष्णामनिन्दिताम् ॥ ५.१६१.३० ॥

若无无可指责的黑公主,那时即便有持棍的怖军,或半的阿周那,或持甘狄拔弓的他,你们也不会获得释放。

5.161.31

सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥ ५.१६१.३१ ॥

普利沙塔之女(黑公主)救出了你们,你们陷入奴役,处于非人的境地,被置于奴仆的劳役之中。

5.161.32

अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् ।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥ ५.१६१.३२ ॥

我说的那个阉人(ṣaṇḍa)确是实情:当时在毗罗吒城,阿周那曾梳着发辫。

5.161.33

सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥ ५.१६१.३३ ॥

我的那份男子气概,就是怖军在毗罗吒的厨房里干厨役而疲惫的那件事,俱蒂之子啊。

5.161.34

एवमेतत्सदां दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥ ५.१६१.३४ ॥

善人以此惩罚刹帝利:你梳着发辫,扮作阉人,让少女跳舞。

5.161.35

न भयाद्वासुदेवस्य न चापि तव फाल्गुन ।
राज्यं प्रतिप्रदाकस्यामि युद्ध्यस्व सहकेशवः ॥ ५.१६१.३५ ॥

我不会因惧怕婆苏提婆,也不会因惧怕你,俱生(阿周那)啊,而归还王国。你就与羯史婆一同来战吧。

5.161.36

न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥ ५.१६१.३६ ॥

在战斗中手持武器的我面前,幻术、因陀罗的魔法,甚至可怕的诡计都无济于事;它们只会带回回应的咆哮。

5.161.37

वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः ॥ ५.१६१.३७ ॥

即便有千个婆苏提婆或数百个法尔贡,遇到我这支箭从不失手的人,他们也会向十方四散奔逃。

5.161.38

संयुगं गच्छ भूष्मेण भिन्धि वा शिरसा गिरिम् ।
तरेमं वा महागाधं सौमदत्तितिमिङ्गिलम् ॥ ५.१६१.३८ ॥

去与毗湿摩交战;或者用头撞碎大山;或者渡过这片深阔的河滩,其中的苏摩达蒂便是那鲸鱼迭明祇罗。

5.161.39

शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तिकतिमिङ्गितम् ॥ ५.१६१.३९ ॥

舍罗陀瓦多(克里巴)是大鱼,毗婆哩沙提是大蛇,诃陀跋罗是巨大的潮涌,苏摩达蒂则是随其动作而行的鲸鱼。

5.161.40

भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबासुखम् ॥ ५.१६१.४० ॥

毗湿摩是无边的洪流;德罗纳是难以接近的鳄鱼;迦尔纳与沙利耶是鱼与漩涡;憍萨罗之人是如婆多婆火般的安逸。

5.161.41

दुःशासनौघं शलशल्यमत्स्यं ।
सुषेणचित्रायुधनागनक्रम्।
जयद्रथाद्रिं पुरुमित्रगाधं ।
दुर्मर्षणोदं शकुनिप्रपातम् ॥ ५.१६१.४१ ॥

难降是洪流;沙罗与沙利耶是鱼;苏舍那与奇异武是蛇与鳄鱼;胜车是山;补卢弥多罗是深渡口;难忍是水;沙恭尼是深渊。

5.161.42

शस्त्रौघमक्षय्यमतिप्रवृद्धं ।
यदावगाह्य श्रमनष्टचेताः।
भविष्यसि त्वं हतसर्वबान्धव-
स्तदा मनस्ते परितापमेष्यति ॥ ५.१६१.४२ ॥

当你投身于这无尽、汹涌的兵器洪流之中,因疲惫而心智迷乱,所有亲族都已被杀之时,你的心将充满悲痛。

5.161.43

तदा मनस्ते त्रिदिवादिवाशुचे-
र्निवर्तिता पार्थ महीप्रशासनात्।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया ।
बुभूषितः स्वर्ग इवातपस्विना ॥ ५.१६१.४३ ॥

那时,你的心将被般度之子从治理大地的意愿上拉回,就像不洁之人被天界拒绝一样。正如未修苦行者渴望天界,你渴望平定并拥有这极难得到的王国。