Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.166

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.166.1

सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः ।
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥ ५.१६६.१ ॥

迦蒙陀王苏达叉那被视为独一无二的车战勇士,他将渴望成就你的目的,在战场上与敌人交战。

5.166.2

एतस्य रथसिंहस्य तवार्थे राजसत्तम ।
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥ ५.१६६.२ ॥

诸王之最,为你之故,这位车战雄狮将在战场上展现如因陀罗般的勇武,俱卢人将亲眼目睹。

5.166.3

एतस्य रथवंशे हि तिग्मवेगप्रहारिणः ।
काम्भोजानां महाराज शलभानामिवायतिः ॥ ५.१६६.३ ॥

伟大的君王,在这车战之族中,有许多以猛烈速度出击的迦蒙陀人,如同蝗群一般众多。

5.166.4

नीलो माहिष्यतीवासी नीलवर्मा रथस्तव ।
रथवंशेन कदनं शत्रूणां वै करिष्यति ॥ ५.१६६.४ ॥

摩希什玛提的居民尼罗,以及你的车战勇士尼罗跋曼,将以车战之族真正屠戮敌人。

5.166.5

कृतवैरः पुरा चैव सहदेवेन मारिष ।
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन ॥ ५.१६६.५ ॥

尊者啊,昔日与萨诃提婆结下仇怨的那人,将为你不停地作战,俱卢之喜,君王啊。

5.166.6

विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ ।
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥ ५.१६६.६ ॥

毗湃陀与阿奴毗湃陀,阿槃提的两位王子,被视为最优秀的车战勇士;亲爱的,他们精通战斗,拥有坚定的勇气与武力。

5.166.7

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः ।
गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः ॥ ५.१६६.७ ॥

这两位人中之虎将以棍棒、长矛、刀剑、箭矢、投枪以及手掷之器焚毁敌军。

5.166.8

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ ।
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥ ५.१६६.८ ॥

二人渴望战斗,在战场上如同群象中的两位头领般嬉戏;大王,他们在军中穿行,如同死神一般。

5.166.9

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम ।
कृतवैराश्च पार्थैस्ते विराटनगरे तदा ॥ ५.१६६.९ ॥

我认为,三国的五兄弟是出色的车将,他们当时在毗罗吒城与般度之子结下了仇怨。

5.166.10

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी ॥ ५.१६६.१० ॥

王中之王啊,如同摩伽罗兽搅动波涛汹涌的恒河,他们将在战斗中搅乱般度之子的军队。

5.166.11

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् ।
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतमक् ॥ ५.१६६.११ ॥

王中之王啊,这五位车将,以萨提耶罗陀为首,将在战斗中铭记过去所犯之错而奋战。

5.166.12

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह ।
दिशो विजयता राजञ्श्वेतवाहेन भारत ॥ ५.१६६.१२ ॥

般度之子、毗摩犀那的幼弟所造成的侮辱——白马之主将征服四方,为此复仇,大王啊,婆罗多啊。

5.166.13

ते हनिष्यन्ति पार्थानां तानासाद्य महारथान् ।
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधरान् ॥ ५.१६६.१३ ॥

他们将接近那些般度之子的大车战士并杀死他们——最优秀中的最优秀者,伟大的弓箭手,刹帝利中的主要支柱。

5.166.14

लक्ष्णणस्तव पुत्रश्च तथा दुःशासनस्य च ।
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ ॥ ५.१६६.१४ ॥

你的儿子拉克什曼那和难降也——他们二人都是人中的猛虎,在战斗中不逃跑。

5.166.15

तरुणौ सुकुमारौ च राजपुत्रौ रतस्विनौ ।
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥ ५.१६६.१५ ॥

他们二人都是年轻娇嫩的王子,热情勇猛,精通战斗的细节,在各方面都是统帅。

5.166.16

रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ ।
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥ ५.१६६.१६ ॥

库鲁之虎啊,依我看,这两人是最优秀的车战者——热衷于武士之道的英雄,将建立伟大功业。

5.166.17

दण्डधारो महाराज रथ एको नरर्षभ ।
योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः ॥ ५.१६६.१७ ॥

伟大的国王,人中之牛,一位名为檀陀陀罗的车战者将在战斗中为你而战,并由他自己的军队保护。

5.166.18

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।
रथो मम मतस्तात महावेगपराक्रमः ॥ ५.१६६.१८ ॥

Bṛhadbala,即憍萨罗王,也是最优秀的车战者;亲爱的,依我看,他是速度与勇力都极强的车战者。

5.166.19

एष योत्स्यति सङ्ग्रामे स्वान्बन्धून्संप्रहर्षयन् ।
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥ ५.१६६.१९ ॥

此人将在战斗中奋力作战,使自己的亲族欢喜;他手持猛烈的武器,是大弓箭手,一心为持国之子谋利。

5.166.20

कृपः शारद्वतो रजन्रथयूथपयूथपः ।
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥ ५.१६६.२० ॥

沙罗德瓦特之子克里帕,大王啊,是战车部队统领中的统领。他将舍弃珍爱的生命,焚烧你的敌人。

5.166.21

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः ।
कार्तिकेय इवाजयः शरस्तम्बात्सुतोऽभवत् ॥ ५.१६६.२१ ॥

他是大仙人乔达摩与师尊沙罗德瓦特的后裔,生于芦苇丛中,如室建陀一般不可战胜。

5.166.22

एष सेनाः सुबहुला विविधायुधकार्मुकाः ।
अग्निवत्समरे तात चरिष्यति विनिर्दहन् ॥ ५.१६६.२२ ॥

此人率领众多军队,手持各色兵器与弓箭,孩子啊,他将在战场上如火般往来,尽数焚毁。