摩诃婆罗多 · 章 5.169
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.169.1
एते रथास्तवाख्यातास्तथैवातिरथा नृप ।
ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु ॥ ५.१६९.१ ॥
君王啊,你的车战勇士与大车战勇士已如此述说。君王啊,现在请听般度子孙的半车战士。
5.169.2
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ॥ ५.१६९.२ ॥
君王啊,如果你今日对般度子孙的军队感到好奇,那就与这些地上之主一同听听他们的战车数目吧。
5.169.3
स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः ।
अग्निवत्समरे तात चरिष्यति न संशयः ॥ ५.१६९.३ ॥
般度之子自己,即国王、高贵的车战勇士、贡蒂之子,啊亲爱的,将在战场上如火般奔走;此事无疑。
5.169.4
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।
न तस्यास्ति समो युद्धे गदया सायकैरपि ॥ ५.१६९.४ ॥
然而,诸王之王啊,毘摩森那相当于八辆战车;在战斗中,无论用铁棍还是用箭,都无人能与他匹敌。
5.169.5
नागायुतबलो मानी तेजसा न स मानुषः ।
माद्रीपुत्रो च रथिनौ द्वावेव पुरुषर्षभौ ॥ ५.१६९.५ ॥
拥有万头象之力,骄傲,在光辉上他不是凡人;玛德丽的两个儿子,车战勇士,是人中的公牛。
5.169.6
अश्विनाविव रूपेण तेजसा च समन्वितौ ।
एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम् ॥ ५.१६९.६ ॥
这二人拥有如双马童般的容貌与光辉,走到军队的前方,回想所遭受的巨大苦难,将投入战斗。
5.169.7
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ।
सर्व एव महात्मानः सालस्तम्भा इवोद्गताः ॥ ५.१६९.७ ॥
他们在那里将如楼陀罗(Rudra)般行动,此点我毫无疑问。他们个个都是大德之人,如娑罗树干般挺拔。
5.169.8
प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः ।
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ॥ ५.१६९.८ ॥
他们比其他男子高出一拃,身材也是如此。般度诸子个个体格如狮,都是大力之人。
5.169.9
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः ।
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ॥ ५.१६९.९ ॥
孩子啊,他们个个都持守梵行,是苦行者。他们知羞耻,是人中之虎,力量如虎般猛烈。
5.169.10
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ॥ ५.१६९.१० ॥
在疾速、冲击与近身搏斗中,他们个个都超凡入圣。在征服四方之时,他们战胜了所有的君王,婆罗多族的雄牛啊。
5.169.11
न चैषां पुरुषाः केचिदायुधानि गदाः शरान् ।
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ॥ ५.१६९.११ ॥
他们之中,任何人都无法始终驾驭兵器、铁锤和箭矢,即使箭已搭上弓弦,哦,俱卢之子。
5.169.12
उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे ।
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ॥ ५.१६९.१२ ॥
在战场上举起沉重的铁锤或发射箭矢,在疾速抓住目标时,在宴飨中,以及在尘土中拖拽时,无人能与他们相比。
5.169.13
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ।
एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः ॥ ५.१६९.१३ ॥
你们即使被那些少年也会被超越;面对这支军队,他们个个都会变得力量凶猛。
5.169.14
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ।
एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः ॥ ५.१६९.१४ ॥
他们会在战斗中摧毁你们;不要与他们相遇。在厮杀中,他们会一个一个地杀死所有的国王。
5.169.15
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ।
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ॥ ५.१६९.१५ ॥
诸王之主啊,在你眼前,拉金苏耶祭时的情形如此:德罗波蒂受辱,以及赌局中的粗暴言语。
5.169.16
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् ।
लोहिताक्षो गुडाकेशो नारायणसहायवान् ॥ ५.१६९.१६ ॥
他们记着此事,将在战斗中像楼陀罗一样奔走——那红眼的古达克夏(阿周那),以那罗延为助手。
5.169.17
उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः ।
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ॥ ५.१६९.१७ ॥
两军之中都没有这样的勇猛车战者;往昔,无论在天神、人类还是蛇族之中,也都不曾有过。
5.169.18
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ।
भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ॥ ५.१६९.१८ ॥
罗刹与夜叉之中尚且没有,何况人类!我无论过去还是未来,都没有听说过有这样的车战者。
5.169.19
समायुक्तो महाराज रथः पार्थस्य धीमतः ।
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ॥ ५.१६९.१९ ॥
大王啊,智慧的普利塔之子的战车已备好;婆苏提婆为御者,持财者为战士。
5.169.20
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ।
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ॥ ५.१६९.२० ॥
他有神圣的甘提瓦弓,有风一般迅捷的马,有不可穿透的神圣铠甲,还有两个取之不尽的大箭囊。
5.169.21
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच ।
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ॥ ५.१६९.२१ ॥
他拥有因陀罗、楼陀罗、俱毗罗、阎摩和伐楼那的神圣武器群,还有外形凶猛的狼牙棒。
5.169.22
वज्रादीनि च मुख्यानि नानाप्रहरणानि च ।
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ॥ ५.१६९.२२ ॥
还有以金刚杵为首的主要兵器及各种武器,它们曾属于居住在金城中的数千名檀那婆。
5.169.23
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ।
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ॥ ५.१६९.२३ ॥
他们在战斗中被一辆战车所杀;谁的战车能与他相匹?这位愤怒、强大、真正勇猛的人必定能杀敌。
5.169.24
तव सेनां महाबाहुः स्वां चैव परिपालयन् ।
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ॥ ५.१६९.२४ ॥
我这位大臂者,或导师,将守护你的军队和我们自己的军队,去迎战这位持财者。
5.169.25
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥ ५.१६९.२५ ॥
王中之王啊,两军之中再无第三位战车武士能够迎战这位降下箭雨的人。
5.169.26
जीमूत इव घर्मान्ते महावातसमीरितः ।
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।
तरुणश्च कृती चैव जीर्णावावामुभावपि ॥ ५.१६९.२६ ॥
如同盛夏之末被大风驱动的云,俱卢之子已与瓦苏提婆为助,整装待发;他年轻而精通武艺,而我们二人都已年老。
5.169.27
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा ।
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥ ५.१६९.२७ ॥
众王闻听毗湿摩此言,那些戴着金臂钏、涂抹檀香膏的粗壮手臂便为之震动。
5.169.28
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् ।
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ॥ ५.१६९.२८ ॥
心中激荡,追忆往昔,又亲眼目睹般度诸子的神勇,(众人心神为之动摇)。