摩诃婆罗多 · 章 5.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.17.1
अथ संचिन्तयानस्य देवराजस्य धीमतः ।
नहुषस्य वधोपायं लोकपालैः सदैवतैः ॥ ५.१७.१ ॥
那时,智慧的天王因陀罗与诸神及世界守护者一同思考诛杀那诃沙的方法。
5.17.2
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ।
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ॥ ५.१७.२ ॥
苦行者尊贵的阿伽斯提亚出现在那里。他向众神之王致敬后说:“幸运的是,你正在兴盛。”
5.17.3
विश्वरूपविनाशेन वृत्रासुरवधेन च ।
दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात्पुरन्दर ॥ ५.१७.३ ॥
因为毗首罗卜被杀、阿修罗弗栗多被诛,啊,补兰达罗,今天幸运地,那诃沙已从天王之位上坠落。
5.17.4
दिष्ट्या हतारिं पश्यामि भवन्तं वलसूदन ।
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तत।
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥ ५.१७.४ ॥
幸运的是,我见到你——杀死伐罗者啊,你的敌人已被杀死。欢迎你,伟大的仙人;见到你我很高兴。请接受我的洗足水、漱口水、一头牛和敬礼之供物。
5.17.5
पूजितं चोपविष्टं तमासेन मुनिसत्तमम् ।
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥ ५.१७.५ ॥
那位被尊敬并安坐于座位上的最优秀仙人、婆罗门中的雄牛,被欢喜的诸神之主询问。
5.17.6
श्रोतुमिच्छामि भगवन्कथ्यमानं द्विजोत्तम ।
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥ ५.१७.६ ॥
尊贵的圣者啊,婆罗门中最优秀的人,我想听听,那心意邪恶的那诃沙是如何从天界坠落的。
5.17.7
श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् ।
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥ ५.१७.७ ॥
帝释啊,听一句悦耳的话:邪恶心性、行为卑劣的国王那诃沙,因力量的傲慢而从天堂坠落。
5.17.8
श्रमार्ताश्च वहन्तस्तं नहुषं पापकारिणम् ।
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥ ५.१७.८ ॥
还有大福的天仙、无垢的梵仙,因劳累而疲惫,抬着那作恶的那诃沙。
5.17.9
पप्रच्छुर्नहुषं देवं संशयं जयतां वर ।
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ॥ ५.१७.९ ॥
胜利者中的最上者啊,他们向天神那诃沙提出疑问:关于梵天为洒净牛群所宣说的那些咒语。
5.17.10
एते प्रमाणं भवत उताहो नेति वासव ।
नहुषो नेति तानाह तमसा मूढचेतनः ॥ ५.१७.१० ॥
当被问道:“帝释啊,这些对你来说是权威吗,还是不是?”那诃沙因黑暗而心智迷乱,对他们说:“不是。”
5.17.11
अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे ।
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥ ५.१७.११ ॥
你堕入非法,不能守持法。这对我们而言就是权威,是往昔大仙所宣说的。
5.17.12
ततो विवदमानः स मुनिभिः सह वासव ।
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥ ५.१७.१२ ॥
那时他与诸仙争论,帝释啊,被非法所折磨,竟用脚触碰了我的头顶。
5.17.13
तेनाभूद्धततेजाश्च निःश्रीकश्च महीपतिः ।
ततस्तं तमसा विग्नमवोचं भृशपीडितम् ॥ ५.१७.१३ ॥
因此,这位君王失去了光辉与福运。此时我对被黑暗折磨、极度痛苦的他说道。
5.17.14
यस्मात्पूर्वैः कृतं राजन्ब्रह्मर्षिभिरनुष्ठितम् ।
अदृष्टं दूषयसि मे यच्च मूर्ध्य्रस्पृशः पदा ॥ ५.१७.१४ ॥
国王啊,古代婆罗门圣贤所行之事,虽不可见,你却加以非议;而且你用脚触碰了我的头。
5.17.15
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ॥ ५.१७.१५ ॥
愚蠢的人啊,你还侮辱了与梵天相当、难以接近的圣贤。
5.17.16
वाहान्कृत्व्रा वाहयसि तेन स्वर्गाद्धतप्रभः ।
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतले ॥ ५.१७.१६ ॥
你把他们当作轿夫驱使,因此你将失去光辉而从天界坠落。罪人啊,堕落者,功德耗尽,你将坠落于大地。
5.17.17
दशवर्षसहस्राणि सर्परूपधरो महान् ।
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥ ५.१७.१७ ॥
你将化作大蛇的形态漂泊一万年;期满之后,你将重新获得天界。
5.17.18
दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम् ।
निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम् ॥ ५.१७.१८ ॥
你见到你家族中出生、名为坚战的人之后,你这被婆罗门诅咒所杀者,便可归依天界。
5.17.19
एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम ।
दिष्ट्या वर्धामहे शक्र हतो ब्रह्मर्षिकण्टकः ॥ ५.१७.१९ ॥
如此,那恶魂从天神王位坠落,哦,降伏敌人者。幸运的是,我们欢喜,哦,帝释天:令梵仙们痛苦的刺已被杀死。
5.17.20
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते ।
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥ ५.१७.२० ॥
往三界去吧;哦,舍脂之主,请护佑诸世界。你已克制诸根,已胜过敌人,受大仙们赞颂。
5.17.21
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः ।
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥ ५.१७.२१ ॥
于是诸天神极为欢喜,被大仙众所环绕;祖先、夜叉、蛇与罗刹也同样如此。
5.17.22
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः ।
सरांसि सरितः शैलाः सागराश्च विशांपते ॥ ५.१७.२२ ॥
乾闼婆、天女以及一切阿普萨拉群;湖泊、河流、山岳与大海也是如此,哦,人主。
5.17.23
उपागम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शक्रुहन् ।
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता।
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥ ५.१७.२३ ॥
众神走近说道:幸运的是你日益兴盛,哦,帝释天敌人的杀手。恶人那诃沙已被杀死,幸而是由智者阿伽斯提耶所为;幸而那作恶者被变成了地上的蛇。