摩诃婆罗多 · 章 5.170
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.170.1
द्रौपदेया महाराज सर्वे पञ्च महारथाः ।
वैराटिरुत्तरश्चैव रथोदारो मतो मम ॥ ५.१७०.१ ॥
大王啊,德罗波蒂的五个儿子都是大战车武士;毗罗吒之子优多罗在我看来也是杰出的战车武士。
5.170.2
अभिमन्युर्महाबाहू रथयूथमयूथपः ।
समः पार्थेन समरे वासुदेवेन चारिहा ॥ ५.१७०.२ ॥
臂力强大的阿毗曼尤是战车军团的统帅;在战斗中他与帕尔塔(阿周那)相当,又如婆苏提婆(黑天)般是敌人的杀手。
5.170.3
लघ्वस्त्रश्चित्रयोधी च मनस्वी च दृढव्रतः ।
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥ ५.१७०.३ ॥
他精通快速用箭,是非凡的战士,心志高远,誓言坚定;他将念及父亲所受的苦难而施展威勇。
5.170.4
सात्यकिर्माधवः शूरो रथयूथपयूथपः ।
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥ ५.१७०.४ ॥
摩豆之后裔、英雄萨提亚基,是战车统帅中的统帅;在毗奴族的勇士中,他不容忍侮辱,且已战胜了恐惧。
5.170.5
उत्तमौजास्तथा राजन्रथोदारो मतो मम ।
युधामन्युश्च विक्रान्तो रथोदारो मतो मम ॥ ५.१७०.५ ॥
大王啊,在我看来,优多玛乌贾斯也是杰出的战车武士;勇猛的优陀摩尼由在我看来也是杰出的战车武士。
5.170.6
एतेषां बहुसाहस्रा रथा नागा हयास्तथा ।
योत्स्यन्ते ते तनूस्त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥ ५.१७०.६ ॥
他们的成千上万的战车、象和马也将为了取悦贡蒂之子而舍弃自身,奋力作战。
5.170.7
पाण्डवैः सह राजेन्द्र तव सेनासु भारत ।
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥ ५.१७०.७ ॥
王中之王啊,婆罗多啊,与般度之子一同,在你的军队中,如火与风一般彼此挑战。
5.170.8
अजेयौ समरे वृद्धौ विराटद्रुपदौ तथा ।
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥ ५.१७०.८ ॥
毗罗吒与德鲁帕达两位长者,在战斗中不可战胜;我认为二人皆是大车战士、威力强大、人中雄牛。
5.170.9
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ ।
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥ ५.१७०.९ ॥
二人虽年老,却皆专注于刹帝利之法;坚定地站在英雄之路上,将竭尽全力而战。
5.170.10
संबन्धिकेन राजेन्द्र तौ तु वीर्यबलान्वयात् ।
आर्यवृत्तौ महेष्वासौ स्नेहवीर्यसितावुभौ ॥ ५.१७०.१० ॥
王中之王啊,二人因血缘关系及英勇力量的家族传承,皆行止高尚,乃大弓箭手,为情谊与勇力所系。
5.170.11
कारणं प्राप्य तु नराः सर्व एव महाभुजाः ।
शूरा वा कातरा वापि भवन्ति कुरुपुङ्गव ॥ ५.१७०.११ ॥
俱卢族中的雄牛啊,人们遇到某种缘由时,无论是大臂者,皆会变得或勇敢或怯懦。
5.170.12
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ ।
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ परन्तप ॥ ५.१७०.१२ ॥
灭敌者啊,这两位国王同行于一条道路,皆为坚强的弓箭手;他们将舍弃性命,竭尽全力打击敌人。
5.170.13
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ ।
संबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥ ५.१७०.१३ ॥
二人各率一支阿克绍希尼军,在战斗中凶猛,守护亲族之情,将建立伟大功业。
5.170.14
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत ।
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥ ५.१७०.१४ ॥
婆罗多啊,世间的这两位英雄、大弓手,舍弃自身,守护誓言,将建立伟大功业。