摩诃婆罗多 · 章 5.173
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.173.1
किमर्थं भरतश्रेष्ठ नैव हन्याः शिखण्डिनम् ।
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥ ५.१७३.१ ॥
婆罗多族最优秀者啊,你在战场上见到举箭的侵略者Śikhaṇḍin时,为何不杀他?
5.173.2
पूर्वमुक्त्वा महाबाहो पाञ्चालान्सह सोमकैः ।
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥ ५.१७३.२ ॥
大臂者,恒河之子,祖父啊,请告诉我你先前所说:你将与索摩迦人一同杀死般遮罗人。
5.173.3
श्रृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।
यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥ ५.१७३.३ ॥
杜尔约达那啊,你与这些大地之主一同听那段故事吧——因为它,我即使在战场上见到Śikhaṇḍin也不杀他。
5.173.4
महाराजो मम पिता शान्तनुर्लोकविश्रुतः ।
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ ॥ ५.१७३.४ ॥
我的父亲大王Śāntanu,名闻世间,心怀正法,在适当的时候,婆罗多族的雄牛啊,走到了他命运的尽头。
5.173.5
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यपेचयम् ॥ ५.१७३.५ ॥
于是,婆罗多族最优秀者啊,我遵守誓言,在大王国中拥立了我的兄弟Citrāṅgada。
5.173.6
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः ।
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥ ५.१७३.६ ॥
当他身故之后,我依照萨提亚瓦蒂的意见,按仪轨为国王毗奇特拉维尔亚行灌顶礼。
5.173.7
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥ ५.१७३.७ ॥
王中之王啊,虽然他年幼,但我依法为他灌顶后,正直的毗质特拉维利亚只以敬意看着我。
5.173.8
तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।
अनुरूपादिव कुलादित्येव च मनो दधे ॥ ५.१७३.८ ॥
孩子啊,我想为他安排妻室,于是也将心思放在了合适的家族上。
5.173.9
तथाऽश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे ।
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि ॥ ५.१७३.९ ॥
大臂者啊,我听说在选婿大会上,迦尸王有三个女儿,容貌无双:安芭、安毗迦和安跋利迦。
5.173.10
राजानश्च समाहूताः पृथिव्यां भरतर्षभ ।
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ॥ ५.१७३.१० ॥
婆罗多的雄牛啊,大地上的国王都被邀请了;其中安芭是长女,安毗迦居中。
5.173.11
अम्बालिका च राजेन्द्र राजकन्या यवीयसी ।
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ॥ ५.१७३.११ ॥
王中之王啊,国王之女安跋利迦是最小的。我独自乘一辆战车前往迦尸王的城市。
5.173.12
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः ।
राज्ञश्चैव समाहूतान्पार्थिवान्पृथिवीपते ॥ ५.१७३.१२ ॥
大臂者啊,我看到那三位盛装的少女,以及国王所召集的诸位地上的君主,大地之主啊。
5.173.13
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् ।
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ ॥ ५.१७३.१३ ॥
于是,我召集了所有立于战阵中的国王,把那些少女扶上战车,婆罗多族的雄牛啊。
5.173.14
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा ।
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्।
भीष्मः शान्तनवः कन्या हरतीति पुनःपुनः ॥ ५.१७३.१४ ॥
我知晓这些少女以英勇为聘礼,便将她们扶上战车,并对在场集会的所有国王一再宣告:“山塔努之子毗湿摩正在劫走少女。”
5.173.15
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः ॥ ५.१७३.१५ ॥
诸王啊,请竭尽全力以求解救她们;人中雄牛啊,你们眼看着,我便要强行将她们夺去。
5.173.16
ततस्ते पृथिवीपालाः समुत्पतुरुदायुधाः ।
योगो योग इति क्रुद्धाः सारथीनभ्यचोदयन् ॥ ५.१७३.१६ ॥
于是那些护地的国王高举兵器跃起,愤怒地催促御者,喊道:“套车!套车!”
5.173.17
ते रथैर्गसङ्काशैर्गजैश्च गजयोधिनः ।
पुष्टैश्वाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥ ५.१७३.१७ ॥
那些国王驾着如云般的战车,率领象兵与健壮的骏马,高举兵器冲了出去。
5.173.18
ततस्ते मां महीपालाः सर्व एव विशां पते ।
रथव्रातेन महता सर्वतः पर्यवारयन् ॥ ५.१७३.१८ ॥
于是,民众之主啊,那些护地的国王以庞大的战车阵从四面将我团团包围。
5.173.19
तानहं शरवर्षेण समन्तात्पर्यवारयम् ।
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥ ५.१७३.१९ ॥
我以箭雨从四面包围了那些国王,并战胜了他们所有人,犹如天神之王战胜达那婆。
5.173.20
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ ।
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ॥ ५.१७३.२० ॥
我笑着,婆罗多之杰啊,用燃烧的箭矢射落了他们冲来时那些饰以黄金的华丽旗帜。
5.173.21
एकैकेन हि बाणेन भूमौ पातितवानहम् ।
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे ॥ ५.१७३.२१ ॥
在战斗中,我每一支箭都将他们的马、象,以及御者都射倒在地。
5.173.22
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम ।
प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः ॥ ५.१७३.२२ ॥
他们全都撤退并被击溃,看到我的技艺与敏捷,国王们纷纷俯首,并都称赞我。
5.173.23
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान् ।
अथाऽहं हास्तिनपुरमायां जित्वा महीक्षितः ॥ ५.१७३.२३ ॥
然后,我带着那些少女,释放了那些国王,征服了大地的统治者,便前往象城(Hāstinapura)。
5.173.24
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत ।
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ ५.१७३.२४ ॥
然后,婆罗多啊,我为了兄弟带来了那些少女;大臂者啊,我把此事禀告了萨蒂亚瓦蒂。