摩诃婆罗多 · 章 5.174
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.174.1
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् ।
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम् ॥ ५.१७४.१ ॥
于是,婆罗多族中最优秀的人啊,我走到英雄之母——我的母亲身边,恭敬地拥抱她,并对渔夫之女萨蒂亚瓦蒂说了这些话。
5.174.2
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् ।
विचित्रवीर्यस्य कृते वीर्यशुल्का हृता इति ॥ ५.१७४.२ ॥
我战胜诸王,为了毗七多跋耶,夺来了迦尸王的这些女儿,以勇力为聘礼。
5.174.3
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप ।
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ॥ ५.१७४.३ ॥
国王啊,萨蒂亚瓦蒂泪眼盈盈,欢喜地吻了我的头,说:“孩子,你幸运地获胜了。”
5.174.4
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते ।
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥ ५.१७४.४ ॥
在萨蒂亚瓦蒂同意、婚事筹备之时,迦尸王的长女含羞说出了这些话。
5.174.5
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः ।
श्रुत्वा च वचनं धर्म्यं मह्यं कर्तुमिहार्हसि ॥ ५.१७४.५ ॥
毗湿摩啊,你通晓法,精通一切经典;听了我这合乎法的话,你应当在此为我实现。
5.174.6
मया साल्वपत्तिः पूर्वं मनसाऽभिवृतो वरः ।
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥ ५.१७४.६ ॥
我心中早已选定了沙尔瓦之主为夫君,而他也早已选中了我,这是父亲暗中所知的。
5.174.7
कथं मामन्यकामां त्वं राजधर्ममतीत्य वै ।
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥ ५.१७४.७ ॥
婆罗门啊,你身为俱卢族人,怎能在违背王法、心有他属的情况下,把我留在家中?
5.174.8
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ ।
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥ ५.१७४.८ ॥
婆罗多族的雄牛啊,大臂者啊,你以智慧在心中决定此事后,应当在此做与你相宜之事。
5.174.9
स मां प्रतीक्षते व्यक्तं साल्वराजो विशांपते ।
तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि ॥ ५.१७४.९ ॥
人主啊,萨尔瓦王显然正在等我。因此,俱卢族中最优秀的人啊,你应当允许我前去。
5.174.10
कृपां कुरु महाबाहो मयि धर्मभृतां वर ।
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥ ५.१७४.१० ॥
大臂者,持法者中最优秀的人啊,请对我施以慈悲。英雄啊,我们听说你在大地上恪守真理之誓。