摩诃婆罗多 · 章 5.175
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.175.1
ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा ।
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्।
समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप ॥ ५.१७५.१ ॥
于是我征得了迦利与甘陀瓦蒂、大臣、祭司和家祭司的同意,为长女安跋获得了许可,人主啊。
5.175.2
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम् ।
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ॥ ५.१७५.२ ॥
获准之后,那位少女前往沙尔瓦王的城市,由长者和再生族保护,当时还有一位乳母随行。
5.175.3
अतीत्य च तमध्वानमासमाद नराधिपम ।
सा तमासाद्य राजानं साल्वं वचनमब्रवीत् ॥ ५.१७५.३ ॥
走过那段路,她来到人主面前;她走近沙尔瓦王,说出了这些话。
5.175.4
आगताहं महाबाहो त्वामुद्दिश्य महामते ।
अभिनन्दस्व मां राजन्सदा प्रियहिते रताम् ॥ ५.१७५.४ ॥
大臂者啊,大智者啊,我是为你而来;大王啊,请接纳我,我一直心系于你所喜爱和有益之事。
5.175.5
प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः ।
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता ॥ ५.१७५.५ ॥
大王啊,请收我为妻,依法奉行法义等诸事。你正是我心中所念之人,也是经你之口而被邀请的。
5.175.6
तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते ।
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ ५.१७५.६ ॥
人主啊,沙尔瓦王微笑着对她说:美丽的女子啊,我不想娶一个先前已被他人选中的女子为妻。
5.175.7
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै ।
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥ ५.१७५.७ ॥
善良的女子啊,回到毗湿摩迦那里去吧。我不愿要被毗湿摩强行夺走的你。
5.175.8
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा ।
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ॥ ५.१७५.८ ॥
那时毗湿摩战胜了你并带走了你,可爱的女子啊。在大战中,他击败了大地的君主们并将你夺走。
5.175.9
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ।
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ॥ ५.१७५.९ ॥
美丽的女子啊,我不愿娶你为妻,你曾属于别人。像我这样的国王,怎会把曾属于他人的女子迎入家中呢?
5.175.10
नारीं विदितविज्ञानः परेषां धर्ममादिशन् ।
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ॥ ५.१७५.१० ॥
我深知他人之法,故而告诫:善良的女子啊,你可去你想去的地方。愿这时光不要从你身边流逝。
5.175.11
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता ।
नैवं वद महीपाल नैतदेवं कथंचन ॥ ५.१७५.११ ॥
大王啊,被爱神之箭折磨的安芭对他说:保护大地的君王,不要这样说,这绝非如此。
5.175.12
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन ।
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥ ५.१७५.१२ ॥
毁灭敌人的人啊,我并非心甘情愿地被毗湿摩带走。我哭泣着,他驱散了大地的君主们,强行把我掳走。
5.175.13
भजस्व मां साल्वपते भक्तां बालामनागसम् ।
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥ ५.१७५.१३ ॥
萨尔瓦之主啊,请接受我——虔诚、年幼、无罪之人。在法度中,抛弃虔诚者并不被赞美。
5.175.14
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ॥ ५.१७५.१४ ॥
我向永不在战场退缩的甘伽之子告辞,并蒙他亲自允许,因此我急速而来。
5.175.15
न स भीष्मो महाबाहुर्मामिच्छति विशांपते ।
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥ ५.१७५.१५ ॥
人民之主啊,那位大臂的毗湿摩并不想要我。我听说毗湿摩的此举是为了兄弟。
5.175.16
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप ।
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥ ५.१७५.१६ ॥
国王啊,我的两位姐妹安珀卡与安巴利卡被带走了,恒河之子将她们嫁给了幼弟毗质多罗摩。
5.175.17
यथा साल्वपते नान्यं वरं यामि कथंचन ।
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥ ५.१७५.१७ ॥
萨尔瓦之主啊,正如除你之外我绝不会以任何方式嫁给他人,人中之虎啊,我便如此触摸我的头顶发誓。
5.175.18
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता ।
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे ॥ ५.१७५.१८ ॥
王中之王啊,我此前从未属于他人,如今来到你的面前。萨尔瓦啊,我说的是真话;以真实的名义,我触摸自身发誓。
5.175.19
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् ।
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥ ५.१७५.१९ ॥
广目之王啊,诸王之主,请接受这位自愿前来的少女吧;她从未属于他人,渴望你的恩宠。
5.175.20
तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम् ।
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ॥ ५.१७५.२० ॥
婆罗多最优秀的人啊,她这样说着的时候,沙尔瓦抛弃了迦尸王的女儿,就像蛇脱去旧皮一样。
5.175.21
एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः ।
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ ॥ ५.१७५.२१ ॥
婆罗多的雄牛啊,尽管她用种种言辞这样恳求,萨尔瓦之主仍不相信这少女。
5.175.22
ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता ।
अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा ॥ ५.१७५.२२ ॥
于是,迦尸王的长女充满愤怒,泪眼婆娑,哽咽着声音说道。
5.175.23
त्वया त्यक्ता गमिष्यामि यत्र तत्र विशांपते ।
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ॥ ५.१७५.२३ ॥
人主啊,我被你抛弃,无论去往何方,愿那里便是我的归宿;愿善人如真理般确定无疑,果真如此。
5.175.24
एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा ।
परितत्याज कौरव्य करुणं परिदेवतीम् ॥ ५.१७५.२४ ॥
库鲁的后裔啊,她这样说着、悲切地哀叹时,沙尔瓦之主便彻底抛弃了这少女。
5.175.25
गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत ।
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥ ५.१७५.२५ ॥
沙尔瓦一再对她说:“走吧,走吧。美臀的女子,我怕毗湿摩;你也是毗湿摩所取之人。”
5.175.26
एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना ।
निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥ ५.१७५.२६ ॥
短视的沙尔瓦这样说后,她悲伤地哭泣着,如同鱼鹰一般走出了城。
5.175.27
निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता ।
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ॥ ५.१७५.२७ ॥
她离开城市时悲伤地想:“大地上再没有比我处境更坏的年轻女子了。”
5.175.28
बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता ।
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ॥ ५.१७५.२८ ॥
我被亲属抛弃,又被沙尔瓦拒绝,已无法再回到婆罗那萨婆耶城。
5.175.29
अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम् ।
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥ ५.१७५.२९ ॥
既蒙毗湿摩允许,又以沙尔瓦为由,我该责备自己,还是责备难以接近的毗湿摩呢?
5.175.30
अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ।
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ॥ ५.१७५.३० ॥
或者我该责怪那愚蠢的父亲,是他为我举行了选婿大典?这过错是我自己的,因为当时我从毗湿摩的战车上下来了。
5.175.31
प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा ।
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ॥ ५.१७५.३१ ॥
可怕的战斗开始时,我先前没有去找沙瓦;这正是其果报:我像愚人一样陷入了这般境地。
5.175.32
धिग्भीष्मं धिक्क मे मन्दं पितरं मूढचेतसम् ।
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ॥ ५.१७५.३२ ॥
耻辱归于毗湿摩,耻辱归于愚笨的我,也耻辱归于心智迷乱的父亲——他以勇力为聘礼,像妓女一样驱使了我。
5.175.33
धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा ।
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥ ५.१७५.३३ ॥
耻辱归于我,耻辱归于沙瓦王,也耻辱归于造物主——或者是那些以邪恶之心使我陷入此极大灾难的人。
5.175.34
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ॥ ५.१७५.३४ ॥
人总是得到自己应得的命运;然而,对我而言,这灾祸的根源正是山塔努之子毗湿摩。
5.175.35
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।
तपसा वा युधा वापि दुःखहेतुः स मे मतः ॥ ५.१७५.३५ ॥
如今我看清了该向毗湿摩如何报复——无论以苦行,还是以战斗;我认为他正是我痛苦的根源。
5.175.36
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ।
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ॥ ५.१७५.३६ ॥
哪位国王敢在战斗中战胜毗湿摩呢?如此决定之后,她走出了城外。
5.175.37
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।
ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥ ५.१७५.३७ ॥
她在品行纯洁的大德苦行者的修行林中,被苦行者们环绕,度过了那一夜。
5.175.38
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत ।
विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।
हरणं च विसर्गं च साल्वेन च विसर्जनम् ॥ ५.१७५.३८ ॥
婆罗多啊,她详尽地讲述了发生在自己身上的一切:被劫持、被释放,以及被沙尔瓦遣弃。大臂者啊,纯净微笑的她全部说了出来。
5.175.39
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।
शैखावत्यस्तपोबृद्धः शास्त्रे चारण्यके गुरुः ॥ ५.१७५.३९ ॥
那时那里有一位大婆罗门,持守誓愿坚定,名为沙伊卡瓦提亚,苦行深厚,是经典与森林书的导师。
5.175.40
आर्ता तामाह स मुनिः शैखावत्यो महातपाः ।
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ ५.१७५.४० ॥
大苦行者贤者沙伊卡瓦提亚,对这位痛苦、叹息、沉溺于悲伤与忧愁的贞洁少女这样说道。
5.175.41
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः ।
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ॥ ५.१७५.४१ ॥
既已如此,善女啊,住在修行林中、专心苦修的大德苦行者又能做什么呢?大福之人啊。
5.175.42
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ॥ ५.१७५.४२ ॥
她却对他说:大王啊,请施恩于我。我想要出家,我将修行艰难的苦行。
5.175.43
मयैव यानि कर्माणि पूर्वदेहे तु मूढया ।
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥ ५.१७५.४३ ॥
这必定是我在前世身中因愚痴所作的恶业之果,确定无疑。
5.175.44
नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः ।
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता ॥ ५.१७५.४४ ॥
诸位苦行者,我不敢再回到亲族那里;我被拒绝、失去欢乐,又被萨尔瓦所弃。
5.175.45
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः ।
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि ॥ ५.१७५.४५ ॥
清净的诸位,我愿依照你们的教导在此修行苦行;你们如同天神,请对我慈悲。
5.175.46
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ ५.१७५.४६ ॥
他以譬喻、典籍和道理安慰那位少女,抚慰她,并与婆罗门们约定共同行事。