Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.176

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.176.1

ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।
तां कन्यां चिन्तयन्तस्ते किंकार्यमिति धर्मिणः ॥ ५.१७६.१ ॥

那时,所有那些苦行者都有了要办的事,他们思量着那位少女:“该怎么办?”——这些奉法的人。

5.176.2

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।
केचिदस्यदुमालम्भे मतिं चक्रुर्हि तापसाः ॥ ५.१७६.२ ॥

有些苦行者说:“应当把她送回父亲的家。”另一些苦行者则决定在此事上求助于一棵树。

5.176.3

केचित्साल्वपतिं गत्वा नियोज्यमिति मेनिरे ।
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ ५.१७६.३ ॥

有些人认为应当前往娑摩国之主那里,把她许配给他。另一些人决定说“不”,因为她已被他拒绝过了。

5.176.4

एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः ।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥ ५.१७६.४ ॥

事已至此,善女啊,智者又能做什么呢?于是所有持守严格誓愿的苦行者又对她说。

5.176.5

अलं प्रव्रजितेनेह भद्रे श्रृणु हितं वचः ।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ ५.१७६.५ ॥

在此出家修行已经足够了,善女啊;请听我的有益之言。从这里离开吧,愿你平安——回到你父亲的家中去。

5.176.6

प्रतिपस्त्यति राजा स पिता ते यदनन्तरम् ।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ ५.१७६.६ ॥

那位国王,也就是你的父亲,之后会加以考虑;你将在那里幸福地居住,吉祥的女子,具备一切美德。

5.176.7

न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ।
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ।
गतिः पतिः समस्थाया विषमे च पिता गतिः ॥ ५.१७६.७ ॥

善良的女子啊,对你而言,没有比父亲更合适的依靠了。容貌美丽的女子啊,女人的依靠是丈夫或父亲。对于坚定者,丈夫是依靠;在困境中,父亲是依靠。

5.176.8

प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।
राजपुत्र्याः प्रकृत्या चक कुमार्यास्तव भामिनि ॥ ५.१७६.८ ॥

光彩照人的女子啊,这种出家的生活极其痛苦,尤其对于你这样娇嫩的王女,天性本就柔弱。

5.176.9

भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥ ५.१७६.९ ॥

善良的女子啊,容貌美丽的女子啊,住在修行林中的你确实会遇到许多困难,这些在父亲的家中是不会有的。

5.176.10

ततस्त्वन्येऽब्रुवन्वाक्यं तापसास्तां तपस्विनीम् ॥ ५.१७६.१० ॥

于是其他苦行者对那位苦行女说了这些话。

5.176.11

त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।
प्रार्थयिष्यन्तिराजानस्तस्मान्मैवं मनः कृथाः ॥ ५.१७६.११ ॥

在这人迹罕至、茂密的森林里,国王们见你孤身一人,必定会来求娶你;所以不要存这样的念头。

5.176.12

न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान् ।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ ५.१७६.१२ ॥

我不可能再回到迦尸城、父亲的家中了;我必将被亲族轻视,这毫无疑问。

5.176.13

उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः ।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥ ५.१७६.१३ ॥

诸位苦行者啊,我在童年时就这样住在父亲的家中。愿你们平安;我不会去父亲所在的地方。在苦行者的守护下,我愿修习苦行。

5.176.14

यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥ ५.१७६.१४ ॥

为了使我在来世也不遭遇如此大的灾祸与不幸,诸位最优秀的苦行者啊,因此我将修习苦行。

5.176.15

इत्येवं तेषु विप्रेषु चिन्तयन्सु यथातथम् ।
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ।
तां तथा भाविनीं दृष्ट्वा श्रुत्वा चोद्विग्रमानसः ॥ ५.१७६.१५ ॥

当那些婆罗门如实思量此事时,苦行的王仙侯特拉瓦哈纳来到了那片森林。

5.176.16

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ ५.१७६.१६ ॥

于是那些苦行者都以迎接等礼仪、座位与清水,向那位国王致敬。

5.176.17

तस्योपविष्टस्य सतो विश्रान्तस्योपश्रृण्वतः ।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ ५.१७६.१७ ॥

当他坐下休息并聆听时,那些林中居民又一次讲述了关于那位少女的故事。

5.176.18

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत ।
राजर्षिः स महातेजा बभूवोद्विग्रमानसः ॥ ५.१७६.१८ ॥

婆罗多啊,他听闻了关于安芭和迦尸国王的那段故事,这位大光辉的王仙心中感到不安。

5.176.19

तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः ।
राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः ॥ ५.१७६.१९ ॥

他听到她这样说话并看见她,这位大苦行者、大德的王仙霍特拉婆诃那心中充满了怜悯。

5.176.20

स वेपमान उत्थाय मातुस्तस्याः पिता तदा ।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥ ५.१७६.२० ॥

于是,他颤抖着站起来——她母亲的父亲——把那位少女放在膝上,哦主啊,安慰她。

5.176.21

स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ ५.१७६.२१ ॥

他从头到尾详细询问她灾难的来源,她也把所发生的事情详细地告诉了他。

5.176.22

ततः स राजर्षिरभूद्दुःखशोकसमन्वितः ।
कार्यं च प्रतिपेदे तन्मनसां सुमहातपाः ॥ ५.१७६.२२ ॥

于是,那位王仙充满了悲伤与忧愁,这位大苦行者心中承担起了这件事。

5.176.23

अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥ ५.१७६.२३ ॥

他颤抖着,极为悲痛地对那位痛苦的少女说:“善良的孩子,不要回你父亲的家;我是你母亲的父亲。”

5.176.24

दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके ।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥ ५.१७६.२४ ॥

我会为你消除悲痛;女儿啊,依靠我吧。孩子,你这样憔悴,你的心已经承受了足够多的苦楚。

5.176.25

गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।
रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति ॥ ५.१७६.२५ ॥

依我的话,去见苦行者、足智者之子、持斧罗摩(Jāmadagnya)。罗摩必定会消除你巨大的痛苦与忧伤。

5.176.26

हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥ ५.१७६.२६ ॥

若他不听我的话,他将在战场上杀死毗湿摩。去见那位婆利古族中最优秀的人,他的光辉如同死亡之火。

5.176.27

प्रतिष्ठापयिता स त्वां समे पथि महातपाः ।
ततस्तु सुस्वरं बाष्पसुत्सृजन्ती पुनः पुनः ॥ ५.१७६.२७ ॥

那位大苦行者会让你走上平坦的道路。那时她以甜美的声音,一再流下眼泪……

5.176.28

अब्रवीत्पितरं मातुः मा तदा होत्रवाहनम् ।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥ ५.१७६.२८ ॥

于是她对母亲的父亲霍特拉瓦哈那说:“不……我低头行礼,遵从您的命令前往。”

5.176.29

अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ।
कथं च तीव्रं दुःकं मे नाशकयिष्यति भार्गवः।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यमि तत्र वैः ॥ ५.१७६.२९ ॥

今天我能见到那位闻名于世的尊者吗?婆利古后裔将如何消除我的剧痛?我想知道我该如何前往那里。

5.176.30

रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने ।
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥ ५.१७६.३० ॥

善良的女子啊,你将见到在大森林中修持苛刻苦行、信守诺言、拥有大力的杰玛达格尼之子罗摩。

5.176.31

महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह ।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥ ५.१७६.३१ ॥

罗摩常常礼拜山中之最的摩亨陀罗山;那里也有通晓吠陀的仙人、乾闼婆与阿普萨拉斯。

5.176.32

तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम ।
अभिवाद्य च तं मूंर्ध्ना तपोवृद्धं दृढव्रतम् ॥ ५.१७६.३२ ॥

你去那里吧,愿你平安。把我的话告诉他,并向这位苦行年高、誓愿坚定的人低头致敬。

5.176.33

ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् ।
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति ॥ ५.१७६.३३ ॥

还有,善良的女子啊,你所期望的事情也请告诉他。提到我的名字,罗摩便会为你办成一切。

5.176.34

मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे ।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ ५.१७६.३४ ॥

我的朋友罗摩,孩子,他满怀慈爱,是我的挚友;他是祖玛达格尼之子,英雄,是一切执兵器者中最优秀的。

5.176.35

एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने ।
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥ ५.१७६.३५ ॥

国王霍特拉瓦哈纳正这样对少女说话时,罗摩的爱侍阿克里塔夫拉纳现身了。

5.176.36

ततस्ते मनुयः सर्वे समुत्तस्थुः महस्रशः ।
स च राजा वयोवृद्धः सृञ्ययो होत्रवाहनः ॥ ५.१७६.३६ ॥

于是那些人成千上万地站了起来,年迈的斯林阇耶王霍特拉瓦哈纳也站了起来。

5.176.37

ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः ।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ ५.१७६.३७ ॥

此时,林中居民见彼此已行待客之礼,婆罗多之杰啊,便聚集在一起,将他围坐。

5.176.38

ततस्ते कथयामासुः कथास्तास्ता मनोरमाः ।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ ५.१७६.३८ ॥

于是他们讲述了许多令人愉悦、吉祥而神圣的故事,诸王之主啊,他们充满着爱、喜悦与欢欣。

5.176.39

ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः ।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ ५.१७६.३९ ॥

故事讲完之后,大德的王仙霍特拉瓦诃向阿克里塔弗兰那询问了诸大仙中最优秀的罗摩。

5.176.40

क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् ।
अकृतव्रण शक्यो वै द्रुष्टुं वेदविदां वर ॥ ५.१७६.४० ॥

威猛的大臂者啊,雄威的耶摩达格尼之子罗摩如今身在何处?吠陀学者中最优秀的阿克里塔弗兰那啊,我们真能见到他吗?

5.176.41

भवन्तमेव सततं रामः कीर्तयति प्रभो ।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ ५.१७६.४१ ॥

主公啊,罗摩时常称颂您:‘萨朗阇耶是我亲爱的朋友,王仙’,国王啊。

5.176.42

इह रामः प्रभाते श्वो भवितेति मतिर्मम ।
द्रष्टस्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥ ५.१७६.४२ ॥

我认为罗摩明日黎明便会到此;他为了想见您而前来,您将会见到他。

5.176.43

इयं च कन्या राजर्षे किमर्थं वनमागता ।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ ५.१७६.४३ ॥

王家仙人啊,这位少女为何来到森林?她是谁的女儿,与您有何关系?我想知道。

5.176.44

दौहित्रीयं मम विभो काशिराजसुता प्रिया ।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानध ॥ ५.१७६.४४ ॥

威武的人啊,她是我的外孙女,迦尸王的爱女。无垢者啊,在自选夫婿的仪式上,她与两位妹妹一同站立;她是长女。

5.176.45

इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता ।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥ ५.१७६.४५ ॥

此女名为安芭,是迦尸王的长女。安比迦与安巴利迦两位少女是幼女,苦行的尊者啊。

5.176.46

समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् ।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥ ५.१७६.४६ ॥

于是刹帝利王族聚集在迦尸城,为了这些少女,那里举行了盛大的庆典,婆罗门仙人啊。

5.176.47

तता किल महावीर्यो भीष्मः शान्तनवो नृपान् ।
अधिक्षिप्य महातेजास्तिस्त्रः कन्या जहार ताः ॥ ५.१७६.४७ ॥

于是,沙安都之子、威力与光辉都极大的毗湿摩,挑战诸王,将那三位少女劫走。

5.176.48

निर्जित्य पृथिवीपालानथ भीष्मो जगाह्वयम् ।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥ ५.१७६.४८ ॥

击败了大地的守护王者后,毗湿摩随即进入城中。心地纯净的婆罗多与少女们一同归来。

5.176.49

सत्यवत्यै निवेद्याथ विवाहं समनन्तरम् ।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ ५.१७६.४९ ॥

随后,告知萨蒂亚瓦蒂之后,主(毗湿摩)立即下令为毗基特拉维里雅之弟举行婚礼。

5.176.50

तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् ।
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ ५.१७६.५० ॥

少女见到为她筹备的婚礼,便在众大臣之中对恒河之子说道:婆罗门中的俊杰啊。

5.176.51

मया साल्वपतिर्वीरो मनसाऽभिवृतः पतिः ।
न ममार्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥ ५.१७६.५१ ॥

我已在心中选定英勇的沙尔瓦之主为夫君。精通法者啊,心已属他人的我,你不应将我许给一位兄弟。

5.176.52

तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः ।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ ५.१७६.५२ ॥

毗湿摩听闻此言,与大臣们商议,作出决定,遵从萨蒂亚瓦蒂的意见,便放了这位少女。

5.176.53

अनुज्ञाता तु भीष्मेण साल्वं सौभपतिं ततः ।
कन्येयं मुदिता तत्र काले वाचनमब्रवीत् ॥ ५.१७६.५३ ॥

获得毗湿摩的允许后,这位少女欢喜地在恰当的时候,对索巴之主沙尔瓦说了这番话。

5.176.54

विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय ।
मनसाभिवृत्तः पूर्वं मया त्वं पार्थिवर्षम ॥ ५.१७६.५४ ॥

我已被毗湿摩放开。现在请依法接纳我。我早已在心中选定了你,王者中的雄牛啊。

5.176.55

प्रत्याचख्यौ च साल्वोऽस्याश्चारित्रस्याभिशङ्कितः ।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ ५.१७६.५५ ॥

娑利婆也怀疑她的品行而拒绝了她。她来到苦行林,全心投入苦行。

5.176.56

मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् ।
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते । ॥ ५.१७६.५६ ॥

我因她提及的家族而认出了她。她在此认为,这痛苦的根源正是毗湿摩。

5.176.57

भगवन्नेवमेवेह यथाह पृथिवीपतिः ।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ ५.१७६.५७ ॥

尊者啊,正如地上之主所说的那样:我母亲身体的创造者正是娑罗阇耶·曷因婆诃那。

5.176.58

न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन ।
अपमानभयाच्चैव व्रीडया च महामुने ॥ ५.१७६.५८ ॥

苦行之宝啊,我因害怕受辱和羞愧,不敢返回自己的城市,大仙啊。

5.176.59

यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम ।
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥ ५.१७६.५९ ॥

再生者中的最优者啊,尊敬的罗摩将对我说的话,正是我最应当去做的;这便是我的决心,尊者啊。