摩诃婆罗多 · 章 5.177
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.177.1
दुःख द्वयोरिदं भद्रे कतरस्य चिकीर्षसि ।
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ॥ ५.१७७.१ ॥
善良的女子啊,这两种痛苦中,你想补救哪一种?弱小的孩子啊,告诉我该怎么做。
5.177.2
यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव ।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥ ५.१७७.२ ॥
善良的女子啊,若依你的意见应当差遣萧部之主,那位大德罗摩出于为你谋福的心愿,必将差遣他。
5.177.3
अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता ।
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥ ५.१७७.३ ॥
或者,若你想看到恒河之子毗湿摩在战场上被睿智的罗摩击败,那位婆利古之后也会做到。
5.177.4
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते ।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥ ५.१७७.४ ॥
笑容纯净的女子啊,听了srñjaya的话,也听了你的话,此地对你最为紧要的事,今日就请思量。
5.177.5
अपनीतास्मि भीष्मेण भगवन्नविजानता ।
नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः ॥ ५.१७७.५ ॥
尊者啊,我被毗湿摩带走了,他并不知情。婆罗门啊,毗湿摩不知道我的心已经系于萨尔瓦。
5.177.6
एतद्विचार्य मनसा भवानेतद्विनिश्चयम् ।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥ ५.१७७.६ ॥
你在心中思量此事之后,请依正理审察这一决定,并依此安排行事。
5.177.7
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः ।
उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर ॥ ५.१७७.७ ॥
婆罗门啊,关于库鲁族的虎将毗湿摩、或沙尔瓦王、或二者所说之事,你便照此行事吧。
5.177.8
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥ ५.१७७.८ ॥
我已如实陈述这苦难的根源。尊者啊,你应当以道理在那里设法补救。
5.177.9
उपपदमिदं भद्रे यदेवं वरवर्णिनि ।
धर्मं प्रतिवचो ब्रूयाः श्रृणु चदं वचो मम ॥ ५.१७७.९ ॥
吉祥的女子、容貌美好的人啊,你这样说是恰当的。请依法回答,并听我这番话。
5.177.10
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।
साल्वस्त्वा शिरसा भीरु गृह्णीयाद्रामचोदितः ॥ ५.१७७.१० ॥
若非恒河之子毗湿摩将你带往象城(象城,即哈斯蒂纳普拉),胆怯的女子啊,沙尔瓦王受罗摩的唆使,早已抓着你的头发强行将你带走了。
5.177.11
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।
संशयः साल्वराजस्य तेन त्वयि सुमध्यमे ॥ ५.१७७.११ ॥
吉祥的女子,你已被征服,因为你被带走了。骄傲的女子啊,纤腰之人啊,因此,沙尔瓦王对你的权利便令人怀疑。
5.177.12
भीष्मः पुरुषमानी च जितकाशी तथैव च ।
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥ ५.१७७.१२ ॥
毗湿摩以自身的男子气概为傲,又自夸于胜利。因此,你向毗湿摩施以报复是恰当的。
5.177.13
ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते ।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ ५.१७७.१३ ॥
婆罗门啊,我心中也始终萌生这个愿望:若我能使毗湿摩在战场上被杀,日复一日。
5.177.14
भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि ।
प्रशाधि तं महाबाहोयत्कृतेऽहं सुदुःखिता ॥ ५.१७७.१४ ॥
无论是毗湿摩、沙尔瓦王,还是你因过失而追究的任何人,啊大臂者,惩罚他吧,因为他之故我深感悲痛。
5.177.15
एवं कथयतामेव तेषां स दिवसो गतः ।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ ५.१७७.१५ ॥
当他们这样交谈之时,那一天过去了;夜晚降临,啊婆罗多之最,伴随着宜人的凉风与暖风。
5.177.16
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥ ५.१७७.१६ ॥
于是罗摩出现了,仿佛以光辉燃烧,被弟子们簇拥,啊王,那位身披结发与树皮衣的苦行者。
5.177.17
धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत्परश्वधी ।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥ ५.१७७.१७ ॥
手持弓箭,心志不屈,佩剑持斧,啊王者中的猛虎,那位无瑕的人走近了王者悉嚲耶。
5.177.18
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।
तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी ॥ ५.१७७.१८ ॥
于是苦行者们看见了他;那位大苦行的国王和那位苦行的少女,啊王,合掌而立。
5.177.19
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥ ५.१७७.१९ ॥
他们从容地以蜜酒供养婆利古之子;依礼受到尊敬后,他便与他们一同坐下。
5.177.20
ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥ ५.१७७.२० ॥
于是二人讲述往事,耆摩陀耆尼之子与斯里尼耶都留在那里,婆罗多啊。
5.177.21
तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् ।
उवाच मधुरं काले रामं वचनमर्थवत् ॥ ५.१७७.२१ ॥
谈话将毕,王仙适时地对婆利古族中最强大的罗摩说了温和而有意义的话。
5.177.22
रामेयं मम दौहित्री काशिराजसुता प्रभो ।
अस्याः श्रृणु यथातत्त्वं कार्यं कार्यविशारद ॥ ५.१७७.२२ ॥
罗摩啊,她是我的外孙女,迦尸王之女。主啊,精通事务的人,请如实听她的事情。
5.177.23
परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।
ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम् ॥ ५.१७७.२३ ॥
罗摩回答她:“请说出她最重要的事。”于是她对如烈火般燃烧的罗摩说话。
5.177.24
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ ५.१७७.२४ ॥
然后她低头向罗摩那双吉祥的脚致敬,用如莲花瓣般明亮的双手触碰它们,然后站在他面前。
5.177.25
रुरोद सा शोकवती बाष्पव्याकुललोचना ।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ ५.१७७.२५ ॥
她悲痛地哭泣,泪水模糊了双眼,便投奔于值得作为庇护所的婆利古之子。
5.177.26
यथा त्वं सृंजयस्यास्य तथा मे त्वं नृपात्मजे ।
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥ ५.१७७.२६ ॥
你如何属于这位斯林遮耶,你也同样属于我,公主。请说出你心中的痛苦;我将依你所言而行。
5.177.27
भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् ।
शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो ॥ ५.१७७.२७ ॥
尊者啊,今日我已投靠您,大誓者。请将沉没于悲痛与泥淖之海的我,从这可怕的境地中拯救出来,无上者啊。
5.177.28
तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः ।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ ५.१७७.२८ ॥
罗摩再次看到她的容貌和那崭新而极其娇柔的身体,便陷入了沉思。
5.177.29
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः ।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ ५.१७७.२९ ॥
“她要说什么呢?”婆利古族的翘楚这样思量,罗摩为慈悲所充满,久久沉思。
5.177.30
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता ।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ ५.१७७.३० ॥
罗摩再次请她:“说吧。”那位笑容纯净的女子便将一切如实地讲给了婆利迦瓦听。
5.177.31
तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा ।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ ५.१७७.३१ ॥
罗摩(阇摩达格尼之子)听了公主的话,便决定了此事,于是对那位美腰的女子说道。
5.177.32
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥ ५.१७७.३२ ॥
女士,我将派使者去见俱卢之最Bhīṣma。那位国王听了我的话,必会照办。
5.177.33
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः ।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ ५.१७७.३३ ॥
若恒河之子不照我所说之言去做,那么,善女啊,我将在战场上以我兵器的威力,连同他的大臣一并烧死他。
5.177.34
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते ।
यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ ५.१७७.३४ ॥
或者,公主啊,若你的心不在那里,我便在此事中让英勇的沙尔瓦之主出力。
5.177.35
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन ।
साल्वराजगतं भावं मम पूर्वं मनीषितम् ॥ ५.१७७.३५ ॥
婆利求之子啊,毗湿摩听了我先前心中对沙尔瓦王的念想,便让我离去了。
5.177.36
सौभराजमुपेत्याहमवोचं दुर्वचं वचः ।
न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः ॥ ५.१७७.३६ ॥
我走到沙卜国王面前,说了严厉的话;但他怀疑我的品行,便不肯接纳我。
5.177.37
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ ५.१७७.३७ ॥
婆哩古之子啊,你以自己的智慧将这一切审慎determine之后,应当思考此事中所适宜的职责。
5.177.38
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः ।
येनाहं वशमानीता समत्क्षिप्य बलात्तदा ॥ ५.१७७.३८ ॥
大誓者毗湿摩正是我这灾难的根源;他当时用力将我夺走,置于他的掌控之下。
5.177.39
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ ५.१७७.३९ ॥
大臂者啊,请杀死毗湿摩吧;因他之故我才遭受如此苦难,过着极其不快的生活。婆哩古中的虎啊!
5.177.40
स हि लुब्धश्च नीचश्च जितकाशी च भार्गव ।
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ॥ ५.१७७.४० ॥
因为他贪婪、卑劣,并因胜利而自负;所以,无瑕的婆哩古啊,你对他进行报复是恰当的。
5.177.41
एष मे ह्रियमाणाया भारतेन तदा विभो ।
अभवद्धृदि संकल्पो घातयेदं महाव्रतम् ॥ ५.१७७.४१ ॥
主啊,当婆罗多(毗湿摩)将我掳走之时,我心中便生起了杀死这位大誓者的决心。
5.177.42
तस्मात्कामं ममाद्येमं राम संपादयानघ ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ॥ ५.१७७.४२ ॥
因此,罗摩啊,无瑕者,今日请成就我这个愿望;大臂者啊,请杀死毗湿摩,正如因陀罗杀死弗栗多那样。