Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.178

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.178.1

एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो ।
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥ ५.१७८.१ ॥

罗摩听了这话,对哭泣并一再催促他的少女说:“去杀掉毗湿摩吧。”

5.178.2

काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि ।
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ॥ ५.१७८.२ ॥

迦尸的女儿,容貌美丽的人啊,除非为了梵知者的缘故,我并非自愿执起武器。我还能为你做什么呢?

5.178.3

वाचा भीष्मश्च साल्वश्च मम राज्ञि वशानुगौ ।
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥ ५.१७८.३ ॥

凭我的话,毗湿摩与沙利瓦将成为服从我的人。无瑕肢体的王后啊,我会这样做,不要悲伤。

5.178.4

न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि ।
ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥ ५.१७८.४ ॥

但是,美人啊,我绝不会执起武器,除非是奉婆罗门的命令。这就是我所立的誓言。

5.178.5

मम दुःखं भगवता व्यपनेयं यतस्ततः ।
तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम् ॥ ५.१७८.५ ॥

主啊,我的苦痛应当由您消除,无论它来自何方。请消灭那由毗湿摩所生的苦痛,主啊,不要迟延。

5.178.6

काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ ।
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥ ५.१७८.६ ॥

迦尸的女儿,请再告诉他:毗湿摩应当低头于你的双足。他虽值得礼敬,却会依我之言而接受。

5.178.7

जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् ।
प्रतिश्रुतं च यदपि तत्सत्यं कर्तुमर्हसि ॥ ५.१७८.७ ॥

罗摩啊,若你想让我欢喜,就在战场上杀死毗湿摩吧。你所许下的诺言,也应当使之成真。

5.178.8

तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा ।
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥ ५.१७८.८ ॥

大王啊,当罗摩与安婆如此交谈之时,阿克利塔弗罗那对耶摩陀那尼之子罗摩说了这番话。

5.178.9

शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि ।
यदि भीष्मो रणे राम समाहूतस्त्वया मृधे ॥ ५.१७८.९ ॥

大臂者啊,你不应抛弃这位前来寻求庇护的少女。罗摩啊,若你曾在战场上向毗湿摩挑战,

5.178.10

निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ।
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ॥ ५.१७८.१० ॥

若他说“我已被击败”,或依从你的话,那么这位少女的心愿便能达成,婆哩古之子啊。

5.178.11

वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ।
इयं चापि प्रतिज्ञा ते तदा राम महामुने ॥ ५.१७८.११ ॥

英雄啊,大能者啊,你的话将成为真实并得以实现。罗摩啊,大仙啊,那时你的这个誓言也将得以实现。

5.178.12

जित्वा वै क्षत्रियान्सर्वान्ब्रह्मणेषु प्रतिश्रुता ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ॥ ५.१७८.१२ ॥

你既已战胜一切刹帝利,便向婆罗门许下诺言:若在战场上,无论是婆罗门、刹帝利、吠舍,还是首陀罗,

5.178.13

ब्रह्मद्विङ्भविता तं वै हनिष्यामीति भार्गव ।
शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम् ॥ ५.१७८.१३ ॥

凡成为婆罗门之敌者,我必杀之,婆利古之子啊,为了那些寻求庇护、受惊的人和求助者。

5.178.14

न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन ।
यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम् ॥ ५.१७८.१४ ॥

只要我活着,我绝不能以任何方式抛弃他们;还有那个将在战场上集结的全部刹帝利击败者。

5.178.15

दीप्तात्मानमहं तं च हनिष्यामीति भार्गव ।
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः ।
तेन युध्यस्व सङ्ग्रमे समेत्य भृगुनन्दन ॥ ५.१७८.१५ ॥

那心志炽烈之人,我必杀之,婆利古之子啊。如此获胜的是毗湿摩,俱卢族的支柱,罗摩啊。在战场上与他相遇并与他作战吧,婆利古之子。

5.178.16

स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम ।
तथैव त्त करिष्यामि यथा साम्नैव लप्स्यते ॥ ५.१७८.१६ ॥

最优秀的仙人啊,我记得我先前所立的誓言。我将这样行事,使其仅凭和解便能达成。

5.178.17

कार्यमेतन्महद्ब्रह्मन्काशिकान्यामनोगतम् ।
गमिष्यामि स्वयं कन्यामादाय यत्र सः ॥ ५.१७८.१७ ॥

婆罗门啊,我心中正考虑着关于迦尸少女的这件大事。我将亲自带着少女前往他所在之处。

5.178.18

यदि भीष्मो रणश्लाघी न करिष्यति मे वचः ।
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥ ५.१७८.१८ ॥

若好夸耀于战场的毗湿摩不听从我的话,我便要杀死这个傲慢之人,这是我坚定的决心。

5.178.19

न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् ।
कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे ॥ ५.१७८.१९ ॥

我射出的箭在此不会留在有身众生的身体里;这在往昔刹帝利的战斗中你已知晓。

5.178.20

एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः ।
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः ॥ ५.१७८.२० ॥

如此说完,大苦行者罗摩决意与那些梵语者同行,便起身了。

5.178.21

ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः ।
हुताग्नयो जप्तजप्याः प्रतस्थुर्मञ्जिघांसया ॥ ५.१७८.२१ ॥

于是那些苦行者在那里度过一夜,向火献祭、诵念祷语之后,便动身前行,心愿抵达。

5.178.22

अभ्यगच्छत्ततो रामः सह तैर्ब्रह्मवादिभिः ।
कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ ५.१७८.२२ ॥

于是罗摩与那些梵语者以及那位少女一同来到俱卢之野,大王啊,婆罗多之子啊。

5.178.23

न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् ।
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥ ५.१७८.२३ ॥

于是那些大心苦行者,以婆利古族中最优秀者为首,依托萨拉斯瓦蒂河定居下来。

5.178.24

ततस्तृतीये दिवसे समे देशे व्यवस्थितः ।
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः ॥ ५.१७८.२४ ॥

随后第三天,他在一处平坦之地驻扎,派人来告诉我,大王:“我已到达。”

5.178.25

तमागतमहं श्रुत्वा विषयान्तं महाबलम् ।
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् ॥ ५.१७८.२५ ॥

闻知那位大力者已到边境,我欢喜地急速前去迎见那位光辉的宝藏主人。

5.178.26

गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः ।
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः ॥ ५.१७८.२६ ॥

君王之主啊,我将牛置于前,被婆罗门、如神的祭司以及同样的家庭祭司所环绕。

5.178.27

स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् ।
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् ॥ ५.१७८.२७ ॥

他见我到来,那位威力强大的甚达伽尼之子接受了那份礼敬,并说了这番话。

5.178.28

भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा ।
अकामेन त्वया नीता पुनश्चैव विसर्जिता ॥ ५.१७८.२८ ॥

毗湿摩啊,你当时怀着什么样的意图,违背她的意愿带走了迦尸王之女,之后又将她释放?

5.178.29

विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी ।
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति ॥ ५.१७८.२९ ॥

你使她堕离了法度;这位名声显赫的女子仍然(未嫁)。你曾以强力触碰她;如今谁还配去她那里?

5.178.30

प्रत्याख्याता हि साल्वेन त्वया नीतेति भारत ।
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत ॥ ५.१७८.३० ॥

沙尔瓦已经拒绝了她,而你已将她带走,婆罗多啊。因此,依我之命,你应接受她,婆罗多啊。

5.178.31

स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् ।
न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ ॥ ५.१७८.३१ ॥

人中之虎啊,愿这位公主得到她自己的法。无瑕之人啊,你对诸王施加如此侮辱是不恰当的。

5.178.32

ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम् ।
नाहमेनां पुनर्दद्यां ब्रह्मन्भ्रात्रे कथञ्चन ॥ ५.१७८.३२ ॥

于是我见他沮丧,便说:「婆罗门啊,我绝不会再把她交还给我的兄弟。」

5.178.33

साल्वस्याहमिति प्राह पुरा मामेव भार्गव ।
मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति ॥ ५.१७८.३३ ॥

她先前对我说:「我属于沙尔瓦。」婆利古之子啊,经我允许,她便前往城中去了。

5.178.34

न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया ।
क्षात्रं धर्ममहं जह्यमिति मे व्रतमाहितम् ॥ ५.१७८.३४ ॥

不因恐惧,不因怜悯,不因贪求财富,也不因欲望:「我不会舍弃刹帝利之法」——这是我所立的誓愿。

5.178.35

अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः ।
न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव ॥ ५.१७८.३५ ॥

于是罗摩双目因愤怒而激动,对我说:「人中之尊啊,若你不听从我的这句话——」

5.178.36

हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः ।
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः ॥ ५.१७८.३६ ॥

「今天我就要连同你的大臣一起杀了你。」罗摩在愤怒中一再这样说,双目因愤怒而激动。

5.178.37

तमहं गीर्भिरिष्टाभि पुनः पुनररिन्दम ।
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः ॥ ५.१७८.३७ ॥

降伏敌人者啊,我一再以悦耳之言恳求那位婆利古族的猛虎,他却没有平息。

5.178.38

प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम् ।
अब्रुवं कारणं किं तद्यत्त्वं युद्धं मयेच्छसि ॥ ५.१७८.३८ ॥

我向那位婆罗门中的最优者低头致敬,再次问道:“你想与我交战,原因是什么?”

5.178.39

इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् ।
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव ॥ ५.१७८.३९ ॥

大臂的婆利古后裔啊,正是你在我年幼时教我四种箭术与武器之学;我是你的弟子。

5.178.40

ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः ।
जानीषे मां गुरुं भीष्म गृह्णासीमां न चैव ह ॥ ५.१७८.४० ॥

于是罗摩怒目通红地对我说:“婆摩啊,你知道我是你的师尊,却仍要娶这位女子——这绝不可能。”

5.178.41

सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते ।
न हि मे विद्यते शान्तिरन्यथा कुरुनन्दन ॥ ५.१७८.४१ ॥

为了我的缘故,考罗婆啊,智者啊,请娶这位迦尸王之女;否则我将无法安宁,俱卢族之喜啊。

5.178.42

गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः ।
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति ॥ ५.१७८.४२ ॥

大臂者啊,请接受她,守护你的家族;她因你被抛弃,已无法找到别的丈夫。

5.178.43

तथा ब्रुवन्तं तमहं रामं परपुरंयम् ।
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते ॥ ५.१७८.४३ ॥

他如此说话时,我对那位攻克敌城的罗摩说:婆罗门仙人啊,此事不会再发生;您何必如此费心?

5.178.44

गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् ।
प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया ॥ ५.१७८.४४ ॥

鉴于您古老而尊贵的地位,贾玛达格尼之子啊,尊贵者啊,我恳求您;此女我先前已经抛弃了。

5.178.45

को जातु परभावां हि नारीं व्यालीमिव स्थिताम् ।
वासयेत गृहे जानन्स्त्रीणां दोषो महात्ययः ॥ ५.१७८.४५ ॥

谁知道女人的过失是大灾难,还会把心系他人、如蛇般立于面前的女人留在家中呢?

5.178.46

न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत ।
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम् ॥ ५.१७८.४६ ॥

即便因惧怕因陀罗,我也不会舍弃法,大誓者啊;请对我宽恕,或做你的事,不要迟延。

5.178.47

अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो ।
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना ॥ ५.१७८.४७ ॥

清净的灵魂啊,威严者啊,古代传说中也有此事:智慧者啊,此偈是伟大的摩禄多所唱。

5.178.48

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥ ५.१७८.४८ ॥

即便是老师,若傲慢不知何为应做、何为不应做,且走上了邪道,则规定应当舍弃他。

5.178.49

स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् ।
गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया ॥ ५.१७८.४९ ॥

你是我的老师,我出于敬爱而极力尊重你;但你不懂得老师应有的行为。因此,我必定要与你作战。

5.178.50

गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः ।
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव ॥ ५.१७८.५० ॥

在战场上我不应杀死老师,更不用说婆罗门,尤其是在苦行中年高的人。因此我已宽恕了你。

5.178.51

उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् ।
यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम् ॥ ५.१७८.५१ ॥

若见一位婆罗门像不肖的刹帝利一样举箭,在战场上愤怒地作战而不逃走,谁杀了他——

5.178.52

ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः ।
क्षत्रियाणां स्थितो धर्म क्षत्रियोऽस्मि तपोधन ॥ ५.१७८.५२ ॥

“他不会有杀婆罗门之罪”——这是关于法的确定结论。刹帝利的法便是如此确立的;啊,苦行的财富,我是刹帝利。

5.178.53

यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् ।
नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति ॥ ५.१७८.५३ ॥

凡能依其本分而行、并在其中尽职者,既不会陷入非法,也不会遭遇不善。

5.178.54

अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
अर्थसंशयमापन्नः श्रोयान्निःसंशयो नरः ॥ ५.१७८.५४ ॥

若人善于利益或法之事,知晓处所与时机,即便在利益上陷入疑惑,仍胜过毫无疑惑之人。

5.178.55

यस्मात्संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे ।
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे ॥ ५.१७८.५५ ॥

因为你即使在可疑之事上也行事不义,所以罗摩啊,我将在大战中与你交战。

5.178.56

पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् ।
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन ॥ ५.१७८.५६ ॥

看我手臂的力量与超人的勇武吧。即使处于这样的境地,婆利古之子啊,我也将尽我所能。

5.178.57

तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह ।
द्वन्द्वे राम यथेष्टं मे सञ्जीभव महाद्युते ॥ ५.१७८.५७ ॥

因此我将这样做:在俱卢之野与你交战,婆罗门啊。罗摩啊,光辉之人,请照我的意愿为单挑做好准备。

5.178.58

तत्र त्वं निहतो राम मया शरशतार्दितः ।
प्राप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे ॥ ५.१७८.५८ ॥

罗摩啊,你将在那里被我的数百支箭所折磨而死;在大战中以兵器净化之后,你将得到所征服的诸世界。

5.178.59

स गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय ।
तत्रैष्यामि महाबाहो युद्धाय त्वांतपोधन ॥ ५.१७८.५९ ॥

那么去吧,回到俱卢之野,好战者啊。我将在那里为战斗来到你面前,大臂者啊,以苦行为财富的你。

5.178.60

अपि यत्र त्वया राम कृतं शौचं पुरा पितुः ।
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव ॥ ५.१७८.६० ॥

就在你过去为父亲举行净化仪式的那个地方,婆利古之后啊,在杀死你之后,我也将在那里举行净化仪式。

5.178.61

तत्र राम समागच्छ त्वरितं युद्धदुर्मद ।
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव ॥ ५.१७८.६१ ॥

啊,罗摩,你因战斗的傲慢而狂醉,快到那里来吧。你那自称婆罗门的古老骄矜,我必定要消除。

5.178.62

यच्चापि कत्थसे राम बहुशः परिवत्सरे ।
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रुणु ॥ ५.१७८.६२ ॥

啊,罗摩,你年年多次自夸,说在世间唯独我一人战胜了刹帝利。听着吧。

5.178.63

न तदा जातवान्भीष्मः क्षत्रियो वापि मद्विधः ।
पञ्चाञ्चातानि तेजांसि तृणेषु ज्वलितं त्वया ॥ ५.१७८.६३ ॥

那时,连毗湿摩和像我这样的刹帝利都还未降生。你在草上点燃了五种光焰。

5.178.64

यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् ।
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः।
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ ५.१७८.६४ ॥

我生为毗湿摩,大臂的征服敌城者,能够消除你由战争而生的骄傲与欲望。啊,罗摩,我必定在战斗中消除你的骄傲,毫无疑问。

5.178.65

ततो मामब्रवीद्रामः प्रहसन्निव भारत ।
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे ॥ ५.१७८.६५ ॥

于是罗摩仿佛笑着对我说:啊,婆罗多,毗湿摩,幸运的是,你想在战斗中与我交战。

5.178.66

अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह ।
भाषितं ते करिष्यामि तत्रागच्छ परंतप ॥ ५.१७८.६६ ॥

啊,俱卢的后裔,我与你同往俱卢之野。你所说的我会照做。啊,焚敌者,到那里来吧。

5.178.67

तत्र त्वां निहतं माता मया शरशताचितम् ।
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम् ॥ ५.१७८.६७ ॥

在那里,你被我杀死,身中数百支箭,喔毗湿摩,母亲恒河女神将看见你成为秃鹫与鹤鹳的食物。

5.178.68

कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता ।
मया विनिहतं देवी रोदतामद्य पार्थिव ॥ ५.१७८.६८ ॥

喔国王,见你处于可怜的境地,那位受悉陀与遮罗尼服侍的女神,今日将因见你被我杀死而哭泣。

5.178.69

अतदर्हा महाभागा भगीरथसुताऽनघा ।
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥ ५.१७८.६९ ॥

那位大福德、无罪的婆吉罗陀之女,生下你这受战欲煎熬的愚人,她不该受此。

5.178.70

एहि गच्छ मया भीष्म युद्धकामुक दुर्मद ।
गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥ ५.१७८.७० ॥

来吧,随我去吧,喔毗湿摩,贪战的骄狂者!喔俱卢后裔,喔婆罗多之雄,把一切都拿去,车乘等等。

5.178.71

इति ब्रुवाणं तमहं रामं परपुरंजयमक् ।
प्रणम्यक शिरसा राममेवमस्त्वित्यथाब्रवम् ॥ ५.१७८.७१ ॥

对说这话的那位征服敌城的罗摩,我低首敬礼,说道:“就这样吧。”

5.178.72

एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया ।
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥ ५.१७८.७२ ॥

罗摩说完这些,便怀着战意前往俱卢之野。我进入城中,将此事禀告了萨提亚瓦蒂。

5.178.73

ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः ।
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥ ५.१७८.७३ ॥

随后,完成吉祥仪式,受到母亲的祝福,并让婆罗门诵念吉祥语与平安语,啊,光辉的人啊,

5.178.74

रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः ।
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥ ५.१७८.७४ ॥

登上一辆华丽的银色战车,驾以白马,装备齐全,自有座位,覆以虎皮,

5.178.75

उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् ।
तत्कुलीनेन वीरेण हयशास्त्रविदा रणे ॥ ५.१७८.७५ ॥

配备大型武器,备齐一切器具,由出身高贵、精通马术之道的英雄驾驭,于战场之上,

5.178.76

यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा ।
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ ५.१७८.७६ ॥

由训练有素、屡经考验的御者备好,我披上了白色而光辉的铠甲,

5.178.77

पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम ।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ ५.१७८.७७ ॥

手持白色之弓,我出发了,啊,婆罗多中最优秀者,头顶有白伞撑持,

5.178.78

पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप ।
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥ ५.१७८.७८ ॥

白色的拂尘为我扇风,啊,人间之主,身着白衣,头戴白色头巾,全身饰以白色饰物。

5.178.79

स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् ।
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥ ५.१७८.७९ ॥

在胜利的祝福声中受到赞颂,我从象城(Hāstinapura)出发,前往库鲁田——那片战场,婆罗多族的雄牛啊。

5.178.80

ते हयाश्चोदितास्तेन सूतेन परमाहवे ।
अवहन्मां भृशं राजन्मनोमारुतरंहसः ॥ ५.१७८.८० ॥

那御者驱策的骏马,在那场至高的战斗中,大王啊,以如意念与风一般的速度,将我疾驰带去。

5.178.81

गत्वाऽहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् ।
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥ ५.१७८.८१ ॥

我前往那库鲁田,而那位威武的罗摩,大王啊,也为了战斗而突然朝我逼近。

5.178.82

ततः सदर्शनेऽतिष्ठं रामस्यातितपस्विनः ।
प्रगृह्य शङ्खप्रवरंक ततः प्राधममुत्तमम् ॥ ५.१७८.८२ ॥

于是我站在大苦行者罗摩的视线之内;随后,我拿起一支上好的海螺,吹响了它,雄壮而高贵。

5.178.83

ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः ।
अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा ॥ ५.१७८.८३ ॥

大王啊,那里的婆罗门、苦行者和林居者,以及与因陀罗众神一同的诸天,都目睹了那场神圣的战斗。

5.178.84

ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः ।
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ ५.१७८.८४ ॥

于是这里那里出现了神圣的花环,也出现了神圣的乐器与成片的云朵。

5.178.85

ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः ।
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥ ५.१७८.८५ ॥

于是追随婆利古后裔的所有苦行者环绕战场,成为了观者。

5.178.86

ततो मामब्रवीद्देवी सर्वभूतहितैषिणी ।
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ॥ ५.१७८.८६ ॥

于是那位愿众生安好的女神,以母亲之形对我说:“国王啊,你打算做什么?”

5.178.87

गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह ।
भूष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥ ५.१७८.८७ ॥

库鲁之最,我将前往遮摩陀尼之子处,一再恳求:“不要与你的弟子毗湿摩交战。”

5.178.88

मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव ।
जामदग्न्येन समरे योद्धुमित्येव भर्त्सयत् ॥ ५.१७८.८८ ॥

“孩子,不要这样固执。国王啊,与婆罗门遮摩陀尼之子在战场上交战——”她这样责备我。

5.178.89

किं न वै क्षत्रियहणो हरतुल्यपराक्रमः ।
विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि ॥ ५.१७८.८९ ॥

孩子,你难道不知道那位杀戮刹帝利、勇力堪比诃罗(湿婆)的罗摩吗?你却想与他交战。

5.178.90

ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः ।
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥ ५.१७८.९० ॥

于是我合掌向女神致敬,把在选婿大会上发生的一切,原原本本地告诉了她,婆罗多之最啊。

5.178.91

यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः ।
काशिराजसुतायाश्च यथा कर्म पुरातनम् ॥ ५.१७८.९१ ॥

王中之王啊,如前我所激励的罗摩所为,以及关于迦尸王之女的古老之事,也请听来。

5.178.92

ततः सा राममभ्येत्य जननी मे महानदी ।
मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम् ॥ ५.१७८.९२ ॥

于是我的母亲,那条大河,走到罗摩面前,为了我而看着那位仙人,向婆利古之后求饶。

5.178.93

भीष्मेण सह मा योत्सीः शिष्येणेति वचो।़ब्रवीत् ।
स च तामाह याचन्तीं भीष्ममेव निवर्तय।
न च मे कुरुते काममित्यहं तमुपागमम् ॥ ५.१७८.९३ ॥

“不要与弟子毗湿摩交战。”他如此说。对恳求的她,他说:“把毗湿摩本人召回吧;他不满足我的心愿。”于是我走近了他。

5.178.94

ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत् ।
नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः ॥ ५.१७८.९४ ॥

于是恒河出于对儿子的爱,再次来到我面前;我怒目相向,没有听从她的话。

5.178.95

अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः ।
आह्वयामास च तदा युद्धाय द्विजसत्तमः ॥ ५.१७८.९५ ॥

这时,心地正直、婆利古之中最优秀、苦行极大的人显现了;那位再生者中的至尊随即向我下战书。