Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.179

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.179.1

तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥ ५.१७९.१ ॥

我在战场上微笑着回答那位稳立于地上的人:“我乘坐战车,不愿与站在地上的你交战。”

5.179.2

आरोह स्यन्दनं वीर कवचं च महाभुज ।
बधान समरे राम यदि योद्धुं मयेच्छसि ॥ ५.१७९.२ ॥

勇士啊,大臂者啊!若你想与我交战,罗摩啊,请登上战车,披上铠甲。

5.179.3

ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥ ५.१७९.३ ॥

那时罗摩在战场上微笑着对我说:“婆罗摩阿啊,大地是我的战车,吠陀便是我的骏马,如同良驹一般。”

5.179.4

सूतश्च मातरिश्वा वै कवचं वेदमातरः ।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥ ५.१७९.४ ॥

御者是摩多利什文(风),铠甲是吠陀之母。库鲁之喜悦啊,我将身着她们所护的铠甲在战场上作战。

5.179.5

एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः ।
शरव्रातेन महता सर्वतः प्रत्यवारयत् ॥ ५.१७९.५ ॥

罗摩以真正的勇武如此说着,甘陀利之子啊,他用大量箭雨从四面八方将我覆盖。

5.179.6

ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् ।
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ॥ ५.१७९.६ ॥

那时我看见耶摩达格尼之子(持斧罗摩)站在战车中央,配备所有最好的武器,光彩夺目,形貌奇妙。

5.179.7

मनसा विहिते पुण्ये विस्तीर्णे नगरोपभे ।
दिव्याश्वयुजि सन्नद्वे काञ्चनेन विभूषिते ॥ ५.१७९.७ ॥

以心念所造,神圣而宽广,如同城市,驾以神马,披甲并以黄金装饰。

5.179.8

कवचेन महाबाहो सोमार्ककृतलक्ष्मणा ।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥ ५.१७९.८ ॥

身披铠甲,大臂者啊,以日月之纹为标记;手持弓,缚箭袋,系着皮制指套。

5.179.9

सारथ्यं कृतवांस्तत्र युयुत्सोरकुतव्रणः ।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥ ५.१७९.९ ॥

在那里,阿克里塔弗拉那为尤尤茨驾车;他通晓吠陀,极为受爱,是婆利古后裔(持斧罗摩)的朋友。

5.179.10

आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥ ५.१७९.१० ॥

他在战中向我挑战,仿佛使我的心欢喜;婆利古后裔一再呼喊:“来吧,上前来!”

5.179.11

तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।
क्षत्रियान्तकरं राममेकमेकः समासदूम् ॥ ५.१७९.११ ॥

我独自走近那位罗摩,他如升起的太阳,不可战胜,大力无比,是刹帝利的灭绝者。

5.179.12

ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम् ॥ ५.१७९.१२ ॥

于是,我在三箭之地勒住马匹,下车,放下弓,徒步走向那位最优秀的仙人。

5.179.13

अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥ ५.१७९.१३ ॥

于是,我想要敬重这位二生者中的最优者罗摩,便走近他,依礼致敬,说出了这段高尚的话。

5.179.14

योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा ।
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ॥ ५.१७९.१४ ॥

罗摩啊,我将在战场上与你交战,无论你与我同等还是更为尊贵,你是我的师长,且有法德之性。大力者啊,请为我祝愿胜利。

5.179.15

एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता ।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥ ५.१७९.१५ ॥

求昌盛者理应如此行事,库鲁中最优者啊。与尊贵之人交战者,其法正是如此,大臂者啊。

5.179.16

शपेयं त्वां नचेदेवमागच्छेथा विशांपते ।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥ ५.१७९.१६ ॥

人主啊,若你不这样前来,我就要诅咒你了。库鲁之子啊,在战场上持守坚定,尽力而战吧。

5.179.17

न तु ते जयमाशासे त्वां विजेतुमहं स्थितः ।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥ ५.१७९.१७ ॥

但我并不祝愿你胜利,我站在此处是为了战胜你。去吧,依法而战;我因你的品行而欢喜。

5.179.18

ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ॥ ५.१७९.१८ ॥

于是我向他行礼,迅速登上战车,在战场上再次吹响了饰以黄金的海螺。

5.179.19

ततो युद्धं समभवन्मम तस्य च भारत ।
दिवसान्सुबहून्राजन्परस्परजिगीषया ॥ ५.१७९.१९ ॥

于是,他与我之间爆发了战斗,婆罗多啊,大王,多日之久,彼此都想战胜对方。

5.179.20

स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्खपत्रिभिः ।
वष्ट्या शतैश्च नवभिः शराणां नतषर्वणाम् ॥ ५.१७९.२० ॥

在那场战斗中,他先用鹭羽箭射中我——六百零九支节弯的箭。

5.179.21

चत्वारस्तेन मे वाहाः सूतश्चैव विशांपते ।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥ ५.१७९.२१ ॥

他还阻住了我的四匹马和御者,人民之主啊;而我也披甲立于战场上。

5.179.22

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥ ५.१७९.२२ ॥

我向诸神,尤其向婆罗门致敬之后,对那个在战场上屹立的人,仿佛微笑着回答了他。

5.179.23

आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।
भूयश्च शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ॥ ५.१७९.२३ ॥

无边界之人啊,即便在你身上,我的师道尊严也得到了尊重。婆罗门啊,再听我说说我在法之集成中的财富。

5.179.24

ये ते वेदाः शरीरस्था … यच्च ते महत् ।
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ॥ ५.१७९.२४ ॥

那些居于你身中的吠陀……以及你所修的大苦行,你所行的大苦修——对它们,我不加攻击。

5.179.25

प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः ।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥ ५.१७९.२५ ॥

啰摩啊,在你所奉行的刹帝利之责的战斗中,婆罗门拿起兵器,便确实成为了刹帝利。

5.179.26

पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम ।
एष ते कार्मुक वीर छिनद्मि निशितेषुणा ॥ ५.१७९.२६ ॥

看我弓的威力,看我双臂的力量。英雄啊,这便是你的弓,我以利箭将它斩断。

5.179.27

तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ ।
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ॥ ५.१७९.२७ ॥

婆罗多之牛啊,我向他射出锐利的钵罗箭,以此斩断他弓的末端,使之坠落于地。

5.179.28

तथैव च पृषत्कानां शतानि नतपर्वणाम् ।
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति । ॥ ५.१७९.२८ ॥

同样,我向耶摩达格尼的战车射出数百支节部弯曲、饰以鹤羽的箭。

5.179.29

काये विषक्तास्तु तदा वायुना समुदीरिताः ।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥ ५.१७९.२९ ॥

此时那些箭射入他的身体,被风吹动,滴着血,如同蛇一般摇晃。

5.179.30

क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे ।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ ५.१७९.३० ॥

大王啊,在战场上,他全身沾满从伤口流淌的血,罗摩闪耀如盛开的金苏树。

5.179.31

हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः ।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ॥ ५.१७९.३१ ॥

如同寒季末尾、缀满红色花簇的阿输迦树,哦王啊,罗摩便如盛开的金苏木一般光彩照人。

5.179.32

ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥ ५.१७९.३२ ॥

于是,罗摩拿起另一张弓,怒气填胸,倾泻出那些带有金羽、极其锋利的箭雨。

5.179.33

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥ ५.१७९.३३ ॥

那些凶猛的箭矢来到我身边,以多种方式刺中我的要害,使我颤抖;它们速度极快,如同毒蛇、烈火与毒药。

5.179.34

तमहं समवष्टभ्य पुनरात्मानमाहवे ।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥ ५.१७९.३४ ॥

于是我再次在战场上稳住自己,怒火中烧,以数百支箭矢向罗摩倾泻而下。

5.179.35

स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः ।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥ ५.१७९.३५ ॥

罗摩被那些锋利的箭矢所围攻,箭如火与日,又如毒蛇,他似乎变得心智迟钝了。

5.179.36

ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना ।
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत ॥ ५.१७९.३६ ॥

于是我被慈悲所攫住,自责道:“可耻啊,可耻!这场战争与刹帝利之责,哦婆罗多!”

5.179.37

असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।
अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत ॥ ५.१७९.३७ ॥

大王啊,我被悲痛的浪潮淹没,一再说道:唉,我犯下了这罪过,连刹帝利的职责也是罪过,婆罗多之后啊。

5.179.38

गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः ।
ततो न प्राहरं भूयो जामदग्न्याय भारत ॥ ५.१७९.३८ ॥

我的尊师,праведной душе的再生者,被箭如此折磨,因此我不再攻击耶摩陀耆尼之子,婆罗多之后啊。

5.179.39

अथावताप्य पृथिवीं पूषा दिवसमंक्षये ।
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥ ५.१७९.३९ ॥

此时日暮,太阳(Pūṣan)炙烤大地后,千光者西沉,战斗于是停止。