Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.180

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.180.1

आत्मनस्तु ततः सूतो हयानां च विशांपते ।
मम चापनयामास शल्यान्कुशलसंमतः ॥ ५.१८०.१ ॥

于是,人主啊,被认为技艺精湛的御者,拔去了自己、马匹以及我身上的箭。

5.180.2

स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः ।
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ॥ ५.१८०.२ ॥

马匹沐浴、休息、饮水、镇定,黎明时太阳升起,于是战斗开始了。

5.180.3

दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् ।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥ ५.१८०.३ ॥

见他迅速而来,披甲立于战车之上,威猛的罗摩便将自己的战车完全准备妥当。

5.180.4

ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।
धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात् ॥ ५.१८०.४ ॥

此时我见罗摩前来,渴望战斗,便放下最好的弓,突然从战车上下来。

5.180.5

अभिवाद्य तथैवाहं रथमारुह्य भारत ।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥ ५.१८०.५ ॥

婆罗多之子啊,我同样向他致敬,再登上战车,无所畏惧地立于甚结尼之子面前,渴望战斗。

5.180.6

ततोऽहं शरवर्षेण महता समवाकिरम् ।
स च मां शरवर्षेण वर्षन्तं समवाकिरम् ॥ ५.१८०.६ ॥

于是我以大量箭雨覆盖了他;而他也降下箭雨,反过来覆盖了我。

5.180.7

संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् ।
संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव ॥ ५.१८०.७ ॥

愤怒的伽摩达格尼之子再次向我射来磨得锋利的可怖箭矢,宛如口中喷火的毒蛇。

5.180.8

ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥ ५.१८०.८ ॥

于是我以锐利的薄刃箭成百上千地,王啊,在空中一再将它们霎时斩断。

5.180.9

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् । ॥ ५.१८०.९ ॥

于是威猛的伽摩达格尼之子向我施放神圣的兵器,我便将它们一一抵挡。

5.180.10

अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् ।
ततो विदि महान्नादः प्रादुरासीत्समन्ततः ॥ ५.१८०.१० ॥

啊,大臂者!我欲仅凭兵器成就更大的功业,此时天空四面八方响起了巨大的轰鸣。

5.180.11

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् ।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥ ५.१८०.११ ॥

于是我向伽摩达格尼之子发出风神之箭,婆罗多啊,罗摩以夜叉之箭将其击退。

5.180.12

ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।
वारुणेनैव तद्रामो वारयामास मे विभुः ॥ ५.१८०.१२ ॥

于是我持咒后射出火箭,而威力无边的罗摩便以水神之箭反制了我。

5.180.13

एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ॥ ५.१८०.१३ ॥

如此,我抵挡了罗摩的神性武器;而光辉的罗摩,精通神性武器、制伏敌人者,也抵挡了我的武器。

5.180.14

ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः ।
उरस्यविध्यत्संक्रुद्धो जामदग्न्यः प्रतापवान् ॥ ५.१८०.१४ ॥

于是,国王啊,婆罗门中最优秀的罗摩从左侧攻击我,愤怒地一箭射穿了我的胸膛——这位威猛的遮摩陀吉尼之子。

5.180.15

ततोऽहं भारतश्रेष्ठ संन्यषीदं रथोत्तमे ।
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत् ॥ ५.१८०.१५ ॥

于是,婆罗多之最,我瘫坐在上好的战车上;然后,御者因我昏厥而迅速将我带走。

5.180.16

ग्लायन्तं भरश्रेष्ठ रामबाणप्रपीडितम् ।
ततो मामपयातं वै भृशं विद्धमचेतसम् ॥ ५.१८०.१६ ॥

婆罗多之最啊,我被罗摩的箭所折磨,昏昏欲绝,随后确实被带离了战场——身受重伤,失去知觉。

5.180.17

रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ ५.१८०.१७ ॥

罗摩的随从们见此都欢欣鼓舞,大声呼喊——以阿克利塔伏兰那等为首;婆罗多啊,连迦尸的公主也是如此。

5.180.18

ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥ ५.१८०.१८ ॥

于是我恢复知觉,认出了御者,便对他说:“御者啊,驾车前往罗摩所在之处;我已准备就绪,不再痛苦。”

5.180.19

ततो मामवहत्सूतो हयैः परमशोभितैः ।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥ ५.१८०.१९ ॥

此时御者驾着装饰华丽的马载着我前行,哦,俱卢之后,它们如同舞动,疾如风。

5.180.20

ततोऽहं राममासाद्य बाणवर्षैश्च कौरव ।
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ॥ ५.१८०.२० ॥

随后我靠近罗摩,哦,俱卢族人,以箭雨遮蔽了他;我怒火满腔,渴望获胜。

5.180.21

तानापतत एवासौ रामो बाणानजिह्मगान् ।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥ ५.१८०.२१ ॥

那些直线飞来、朝我而来的箭,罗摩在战斗中迅速以三箭逐一将其射断。

5.180.22

ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः ।
रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः ॥ ५.१८०.२२ ॥

于是我所有锐利的箭都被摧毁;被罗摩的箭一分为二,成百上千地断裂了。

5.180.23

ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।
असृजं जामदग्न्याय रामायाहं जिघांसया ॥ ५.१८०.२३ ॥

随后我再次向杰玛达格尼之子罗摩射出一支燃烧的、极其明亮的、如同时间本身的箭,意欲将其杀死。

5.180.24

तेन त्वभिहतो गाढं बाणवेगवशं गतः ।
मुमोह समरे रामो भूमौ च निपपात ह ॥ ५.१८०.२४ ॥

罗摩被它深深击中,屈服于箭的威力,在战斗中昏厥,倒在地上。

5.180.25

ततो हाहाकृतं कसर्वं रामे भूतलमाश्रिते ।
जगद्भारत संविग्नं यथार्कपतने भवेत् ॥ ५.१८०.२५ ॥

当罗摩倒在地上时,四处响起惊呼;婆罗多啊,世界震动,仿佛太阳坠落。

5.180.26

तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः ।
तपोधनास्ते सहसा काश्या च कुरुनन्दन ॥ ५.१८०.२६ ॥

于是众人大为惊慌,纷纷奔向他——苦行富足的仙人们,还有迦尸王,皆骤然赶来。库鲁之喜啊!

5.180.27

तत एनं परिष्वज्य शनैराश्वासयंस्तदा ।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥ ५.१८०.२७ ॥

于是他们拥抱他,以浸过水的冰凉双手与胜利的祝福,徐徐安慰他。考罗婆啊!

5.180.28

ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत् ।
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥ ५.१८०.२८ ॥

于是他心神激荡,起身说道:“站住,毗湿摩!你已被杀!”并将箭搭上弓弦。

5.180.29

स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे ।
येनाहं भृशमुद्विग्रो व्याघूर्णित इव द्रुमः ॥ ५.१८०.२९ ॥

那支被射出的箭迅速落在我左侧,在那场大战中,我因此大为震动,像树一样旋转起来。

5.180.30

हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे ।
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ॥ ५.१८०.३० ॥

于是罗摩在大战中以疾速神兵杀死马匹,无所畏惧地以那些带羽的箭向我倾泻如雨。

5.180.31

ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् ।
अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः ॥ ५.१८०.३१ ॥

于是我也放出了能抵挡战场攻势的疾速神箭。啊,大臂者,借此,居于中间的箭矢被发射出去。

5.180.32

रामस्य मम चैवाशु व्योमावृत्य समन्ततः ।
न स्म सूर्यः प्रतपति शरजालसमावृतः ॥ ५.१८०.३२ ॥

罗摩的箭与我的箭迅速从四面八方遮蔽了天空,太阳被箭网笼罩,不再炽烈。

5.180.33

मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् ।
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ॥ ५.१८०.३३ ॥

那时,天空中的风仿佛被云层所阻;随后,因风的颤动和太阳的光芒(在天空中)。

5.180.34

अभिघातप्रभावाच्च पावकः समजायत ।
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ॥ ५.१८०.३४ ॥

由于撞击之力,火也随之而生;那些箭被自身所生的奇异火焰点燃。

5.180.35

भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ।
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ॥ ५.१८०.३५ ॥

大王啊,那时它们全部化为灰烬落在地上;随后是数十万、百万与亿万(支箭)。

5.180.36

अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत् ॥ ५.१८०.३६ ॥

随后是数万、数十亿与数百亿(支箭)。俱卢啊,愤怒的罗摩迅速向我倾泻箭雨。

5.180.37

ततोऽहं तानपि रणे शरैराशीविषोपमैः ।
संछिद्य भूमौ नृपते पातयेयं नगानिव ॥ ५.१८०.३७ ॥

君王啊,我会在战场上以如毒蛇般的箭将他们斩断,像砍倒树木一样把他们射落于地。

5.180.38

एवं तदभवद्युद्वं तदा भरतसत्तम ।
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥ ५.१८०.३८ ॥

如此,婆罗多族中最优秀者啊,那场战斗便发生了。黄昏过去之后,我的老师便从那里离去。