摩诃婆罗多 · 章 5.181
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.181.1
समागतस्य रामेण पुनरेवातिदारुणम् ।
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥ ५.१८१.१ ॥
与罗摩再次相遇之后,另一天发生了极为可怕的混战,婆罗多中最优秀的人啊。
5.181.2
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःक ।
अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः ॥ ५.१८१.२ ॥
那时,精通神兵的勇士、心存正法的强者,日复一日地施展种种神兵。
5.181.3
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत ।
व्यधमं तुमुलेयुद्धेप्राणांस्त्यक्त्वासुदुस्त्यजान् ॥ ५.१८१.३ ॥
婆罗多啊,我以反制之武器摧毁了它们;在那场混战中,我舍弃了那难以舍弃的性命而如此做了。
5.181.4
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत ।
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥ ५.१८१.४ ॥
婆罗多啊,当兵器被兵器以种种方式摧毁时,那位大光辉者舍弃性命,在战斗中愤怒了。
5.181.5
ततः शक्तिं प्राहिणोद्धोररूपा-
मस्त्रे रुद्धे जामदग्न्यो महात्मा।
कालोत्सृष्टां प्रज्वलितामिवोल्कां ।
संदीप्ताग्रां तेजसा व्याप्य लोकम् ॥ ५.१८१.५ ॥
那武器被阻之后,大德的 Jāmadagnya(罗摩)掷出一支形貌可怖的矛(śakti),如同时间所放出的燃烧火流星,尖端炽燃,以光辉遍照世界。
5.181.6
ततोऽहं तामिषुभिर्दीप्यमानां ।
समायान्तीमन्तकालार्कदीप्ताम् ।
छित्त्वा त्रिधा पातयामास भूमौ ।
ततो ववौ पवनः पुण्यगन्धिः ॥ ५.१८१.६ ॥
于是我以箭将那向我飞来、燃烧如死神或太阳的炽烈矛(śakti)截为三段,使其坠落于地。随即吹起一阵带着纯净芳香的风。
5.181.7
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः ।
शक्तीर्घोराः प्राहिणोद्द्वादशान्याः ।
तासां रूपं भारत नोत शक्यं ।
तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥ ५.१८१.७ ॥
当那支箭被斩断后,怒火中烧的罗摩又发出十二支其他可怕的长矛。婆罗多啊,由于它们的光辉与迅疾,其形状无法描述。
5.181.8
किन्त्वेवाहं विह्वलः संप्रदृश्य ।
दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः ।
नानारूपास्तेजसोग्रेण दीप्ता ।
यथाऽऽदित्या द्वादश लोकसंक्षये ॥ ५.१८१.८ ॥
然而我心神慌乱,看见它们从各个方向飞来,如同火焰的巨大流星,形态各异,以猛烈的光辉燃烧,犹如世界毁灭时的十二个太阳。
5.181.9
ततो जालं बाणमयं विवृत्तं ।
संदृश्य भित्त्वा शरजालेन राजन्।
द्वादशेषून्प्राहिणवं रणेऽहं ।
ततः शक्तीरप्यधमं घोररूपाः ॥ ५.१८१.९ ॥
于是,我看见一张由箭构成的网铺展开来,大王,我便以箭网刺穿它,并在战场上发出十二支箭。然后,那些形状可怖、较低等的长矛也……
5.181.10
ततो राजञ्जामदग्न्यो महात्मा ।
शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः।
विचित्रिताः काञ्चनपट्टनंद्धा ।
यथा महोल्का ज्वलितास्तथा ताः ॥ ५.१८१.१० ॥
然后,大王,心胸高尚的雅玛达格尼之子投出了可怖的长矛,金色的杆柄,色彩斑斓,缠着金箍,燃烧如同巨大的流星。
5.181.11
ताश्चाप्युग्राश्चर्मणा वारयित्वा ।
खङ्गेनाजौ पातयित्वा नरेन्द्र।
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये ।
दिव्यानश्वानभ्यवर्षं ससूतान् ॥ ५.१८१.११ ॥
我以盾牌挡开那些凶猛的兵器,人主啊,又在战场上以剑将其击落。在那场战斗中,我以耶摩达格尼之子(持斧罗摩)的神箭,如雨般倾泻在他的神马及御者之上。
5.181.12
निर्मिक्तानां पन्नगानां सरूपा ।
दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः ।
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा ।
क्रोधाविष्टो हैहयेशममाथी ॥ ५.१८१.१२ ॥
他见那些形如放出之蛇、以黄金装饰的长矛被斩断,这位大德者怒气冲天,显出了能摧毁哈伊哈亚王的神圣兵器。
5.181.13
ततः श्रेण्यः शलभानामिवोग्राः ।
समापेतुर्विशिखानां प्रदीप्ताः ।
समाचिनोच्चापि भृशं शरीरं ।
हयान्सूतं सरथं चैव मह्यम् ॥ ५.१८१.१३ ॥
于是,如蝗虫成群般凶猛而燃烧的箭阵聚集起来,大量覆盖了我的身体、马匹、御者,以及连同战车的我自己。
5.181.14
रथः शरैर्मे निचितः सर्वतोऽभू-
त्तथा वाहाः सारथिश्चैव राजन्।
युगं रथेषां च तथैव चक्रे ।
तथैवाक्षः शरकृत्तोऽथ भग्नः ॥ ५.१८१.१४ ॥
我的战车,大王啊,四面都被箭覆盖,马匹和御者也是如此。车轭、车辕、车轮,以及车轴,都被箭所斩断而破碎。
5.181.15
ततस्तस्मिन्बाणवर्षे व्यतीते ।
शरौघेण प्रत्यवर्षं गुरुं तम्।
स विक्षतो मार्गणैर्ब्रह्मराशि-
र्देहादसक्तं मुमुचे भूरि रक्तम् ॥ ५.१८१.१५ ॥
那阵箭雨过去之后,我以箭流回敬那位导师。他是梵力的聚合,被箭射伤,身上涌出大量鲜血。
5.181.16
यथा रामो बाणजालाभितप्त-
स्तथैवाहं सुभृशं गाढविद्धः ।
ततो युद्धं व्यरमच्चापराह्णे ।
भानावस्तं प्रतियाते महीध्रम् ॥ ५.१८१.१६ ॥
正如罗摩被箭网灼烧,我也深深地被射中。然后,午后太阳向山的方向落下时,战斗停止了。