Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.182

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.182.1

ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥ ५.१८२.१ ॥

王中之王啊,黎明时分,太阳变得明亮,我与婆迦婆(持斧罗摩)之间又开始了战斗。

5.182.2

ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरजालानि मयि मेध इवाचले ॥ ५.१८२.२ ॥

那时罗摩站在明朗的战车上,是最优秀的战士,他向我倾下箭网,如同乌云笼罩山岳。

5.182.3

ततः सूतो मम सुहृच्छरवर्षेण ताडितः ।
अपयातो रथोपस्थान्मनो मम विषादयन् ॥ ५.१८२.३ ॥

那时,我的朋友御者被箭雨击中,从战车座位上退下,这使我的心烦恼不安。

5.182.4

ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥ ५.१८२.४ ॥

那时我的御者陷入极度昏厥,被箭的打击所伤,跌倒在地,失去了知觉。

5.182.5

ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥ ५.१८२.५ ॥

那时我的御者被罗摩的箭折磨,断了气息;王中之王啊,仿佛一瞬之间,恐惧也进入了我的心中。

5.182.6

ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम् ॥ ५.१८२.६ ॥

那时,御者被杀后,我正在放箭,罗摩看到我心有旁骛,便射出一支等同死亡的箭。

5.182.7

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥ ५.१८२.७ ॥

随后,御者被杀,我陷于混乱,那位婆利古之子拉满强弓,以一箭深深射伤了我。

5.182.8

स मे भुजान्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥ ५.१८२.८ ॥

王啊,那支饮血之箭落在我的臂间,啊,诸王之主,与我一同坠到了大地之上。

5.182.9

मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥ ५.१८२.९ ॥

婆罗多族的雄牛啊,罗摩以为我已被杀,便像云一样高声咆哮,并一再欢喜。

5.182.10

तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥ ५.१८२.१० ॥

王啊,我倒下后,罗摩满心欢喜,与他的随从一起发出了大声的呼喊。

5.182.11

मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः ।
आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥ ५.१८२.११ ॥

站在我身旁的俱卢们,以及前来观看战斗的人们,在我倒下时陷入了极大的痛苦之中。

5.182.12

ततोऽपश्यं पतितो राजसिंह ।
द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिर्वाय तस्थुः ।
स्वबाहुभिः परिधार्याजिमध्ये ॥ ५.१८२.१२ ॥

随后,王中之狮啊,倒下的我看到八位如太阳与祭火般光辉的婆罗门。他们从四面将我环绕,站在战场中央,以自己的手臂托住了我。

5.182.13

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥ ५.१८२.१३ ॥

受那些婆罗门守护,我没有触及大地;实则我被那些婆罗门像亲族一样托在空中。

5.182.14

श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ।
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ॥ ५.१८२.१४ ॥

在空中呼吸,被水滴洒湿。大王啊,那些婆罗门便拥抱着我说道。

5.182.15

मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ।
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥ ५.१८२.१५ ॥

“不要害怕”,“愿你平安”,他们all一同反复这样说。于是我被他们的话慰藉,忽然起身,看见河流中最尊贵的母亲站在战车上。

5.182.16

हयाश्च मे संगृहीतास्तयाऽऽस-
न्महानद्या संयति कौरवेन्द्र।
पादौ जनन्याः प्रतिगृह्य चाहं ।
तथा पितॄणां रथमभ्यरोहम् ॥ ५.१८२.१६ ॥

在战斗中,啊,俱卢之主,那条大河也抓住了我的马。我抱住母亲的双足,登上了祖先的战车。

5.182.17

ररक्ष सा मां सरथं हयांश्चोपस्काराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥ ५.१८२.१७ ॥

她保护了我、战车、马匹和装备。我合掌,再次送她离去。

5.182.18

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥ ५.१८२.१८ ॥

于是我亲自驱策那些疾如风的马,与优摩陀耶(Jāmadagnya,即持斧罗摩)交战,婆罗多啊,那是白日已尽之时。

5.182.19

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥ ५.१८२.१९ ॥

婆罗多族之最,我于是在战场上向迅猛而强大的罗摩射出一支穿心之箭。

5.182.20

ततो जगाम वसुधां मम बाणप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥ ५.१८२.२० ॥

罗摩受我箭所伤,放下弓,双膝跪倒于地,陷入昏迷之中。

5.182.21

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥ ५.१८२.२१ ॥

施舍千万的罗摩倒下之后,云层遮蔽了天空,倾泻下大量血水。

5.182.22

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥ ५.१८२.२२ ॥

数百颗流星伴着雷鸣与震动坠落;斯伐尔跋奴突然遮蔽了炽热的太阳。

5.182.23

ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ॥ ५.१८२.२३ ॥

狂风大作,大地震动;秃鹫、鹰隼和鹭鸶带着内脏四处坠落。

5.182.24

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥ ५.१८२.२४ ॥

在火光闪耀的方向,豺狼一次又一次地凄厉嚎叫;无人敲击的鼓却轰然作响。

5.182.25

एतदौत्पातिकं सर्वं घोरमासीद्भयंकरम् ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥ ५.१८२.२५ ॥

当大德的罗摩如失去知觉般倒在地上时,这一切凶兆都可怕而骇人。

5.182.26

ततो वै सहसोत्थाय रामो मामभ्यवर्तत ।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥ ५.१८२.२६ ॥

于是罗摩忽然起身,再次为战斗向我逼近,哦,俱卢之裔!他心烦意乱,几乎被愤怒所迷惑。

5.182.27

आददानो महाबाहुः कार्मुकं तालसन्निभम् ।
ततो मय्याददानं तं राममेव न्यवारयन् ॥ ५.१८२.२७ ॥

大臂的罗摩举起如棕榈树般的弓;此时人们制止了那位正要向我拿起武器的罗摩。

5.182.28

महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः ।
समाहरदमेयात्मा शरं कालानलोपमम् ॥ ५.१८२.२८ ॥

大仙人充满慈悲;虽然婆利古后裔被愤怒所控,那灵魂无量者仍收回了如时间之火般的箭。

5.182.29

सतो रविर्मन्दमरीचिमण्डलो ।
जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत्सुखशीतमारुता ।
ततो युद्धं प्रत्यवहारयाव- ॥ ५.१८२.२९ ॥

太阳的光圈渐暗,它隐没于尘土堆中沉落;夜晚伴随着宜人的凉风降临。于是我们二人停止了战斗。

5.182.30

एवं राजन्नवहारो बभूव ।
ततः पुनर्विमलेऽभूत्सुघोरम्।
कल्यंकल्यं विंशतिं वै दिनानि ।
तथैव चान्यानि दिनानि त्रीणि ॥ ५.१८२.३० ॥

如此,大王,发生了停战。然后在清晨,战斗再次变得极其惨烈:二十天,日复一日,此外还有三天同样如此。