摩诃婆罗多 · 章 5.183
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.183.1
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा ।
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥ ५.१८३.१ ॥
此时,王中之王啊,我在夜里低首致敬婆罗门、祖先和一切天神。
5.183.2
नक्तंचराणां भूतानां राजन्यानां विशांपते ।
शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥ ५.१८३.२ ॥
人民之主啊,我独自躺在床上,在夜行之物与武士王者之间,在心中深深地思量。
5.183.3
जामदग्न्येन मे युद्धमिदं परमदारुणम् ।
अहानि च बहून्यद्य वर्तते सुमहात्ययम् ॥ ५.१८३.३ ॥
与耶摩达格尼之子(持斧罗摩)的这场战斗极其惨烈,今日已历经多日,仍处于极大的危险之中。
5.183.4
न च रामं महावीर्यं शक्नोमि रणमूर्धनि ।
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥ ५.१८३.४ ॥
我在战阵之前,无法在战斗中战胜大勇的罗摩——那位婆罗门、耶摩达格尼之子,大力之士。
5.183.5
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् ।
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥ ५.१८३.५ ॥
若我能够战胜威光赫赫的耶摩达格尼之子,愿诸天神心生欢喜,在夜里向我显示征兆。
5.183.6
ततो निशि च राजेन्द्र प्रसुप्तः शरविक्षतः ।
दक्षिणेनेह पार्श्वेन प्रभातसमये तदा ॥ ५.१८३.६ ॥
王中之王啊,此后夜里,我身中箭伤,睡在右侧,这时正值黎明之时。
5.183.7
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् ।
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥ ५.१८३.७ ॥
当我从战车上跌落时,那些婆罗门中的上首扶起我、托住我,并安慰我说:「不要害怕。」
5.183.8
त एव मां महाराज स्वप्ने दर्शनमेत्य वै ।
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ॥ ५.१८३.८ ॥
大王啊,他们在梦中亲自来到我身边,围绕着我说了这些话。俱卢中的最优者,请听吧。
5.183.9
उत्तिष्ठ मा भैर्गाङ्गेय न भयं तेऽस्ति किंचन ।
रक्षामहे त्वां कौरव्य स्वशरीरं हि नो भवान् ॥ ५.१८३.९ ॥
起来吧,不要害怕,恆河之子;你没有任何恐惧。俱卢的后裔啊,我们将保护你,因为你确实是我们自己的身体。
5.183.10
न त्वां रामो रणे जेता जामदग्न्यः कथंचन ।
त्वमेव समरे रामं विजेता भरतर्षभ ॥ ५.१८३.१० ॥
阇摩陀那之子罗摩,绝不可能在战斗中战胜你;婆罗多中的雄牛啊,在战场上你自己将战胜罗摩。
5.183.11
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् ।
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥ ५.१८३.११ ॥
这件武器你非常珍爱,你会认出它;因为在前世的身体中,它也为你所知。
5.183.12
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत ।
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ॥ ५.१८३.१२ ॥
婆罗多啊,这是生主的武器,名为“普拉斯瓦帕”,由宇宙所造;就连罗摩也不知道它,大地上任何地方的人也都不知道。
5.183.13
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च ।
उपस्थास्यति राजेन्द्र स्वयमेव तवानघ ॥ ५.१८३.१३ ॥
大臂者啊,记住它并充分运用之;诸王之主、无垢者啊,它将自行来到你面前。
5.183.14
येन सर्वान्महावीर्यान्प्रशासिष्यसि कौरव ।
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥ ५.१८३.१४ ॥
你将以此武器降伏所有大力勇士,考拉瓦啊,但罗摩不会因那武器而毁灭,人主啊。
5.183.15
एनसा न तु संयोगं प्राप्स्यसे जातु मानद ।
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥ ५.१८३.१५ ॥
施予尊荣者啊,你绝不会因罪过而获得结合;那位被你箭力所困的贾玛达格尼之子,将沉睡过去。
5.183.16
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि ।
अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै ॥ ५.१८३.१६ ॥
然后,你战胜他之后,将亲自再度唤醒他——婆罗摩之子啊,以战场上心爱的武器,以唤醒的咒语,确实如此。
5.183.17
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः ।
प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम् ॥ ५.१८३.१७ ॥
考拉瓦的后裔啊,你应当这样做:黎明时登上战车。他是沉睡还是死亡,我们认为二者无异。
5.183.18
न च रामेण मर्तव्यं कदाचिदपि पार्थिव ।
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥ ५.१८३.१८ ॥
国王啊,你绝不会被罗摩杀死;因此,应当运用这已经产生的催眠之器。
5.183.19
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः ।
अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः ॥ ५.१८३.१९ ॥
说完这话,大王,那些最优秀的婆罗门全都消失了。这八人external形貌相同,身体都光辉耀眼。