Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.185

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.185.1

ततो हलहलाशब्दो दिवि राजन्महानभूत् ।
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥ ५.१८५.१ ॥

那时天空中大声喧嚷,大王:「毗湿摩啊,不要放出睡眠之箭」,俱卢族的喜悦者啊。

5.185.2

अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने ।
प्रस्वापं मां प्रयुज्जानं नारदो वाकयमब्रवीत् ॥ ५.१८५.२ ॥

婆利古之子啊,我尚未放出那件兵器,当我正要施放睡眠之箭时,那罗陀对我说了这些话。

5.185.3

एते वियति करव्य दिवि देवगणाः स्थिताः ।
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥ ५.१८५.३ ॥

俱卢之子啊,这些诸天神众站立在天空中;今日他们正在阻止你。不要施放睡眠之箭。

5.185.4

रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते ।
तस्यवमानं कौरव्य मास्म कार्षीः कथञ्चन ॥ ५.१८५.४ ॥

罗摩是苦行者,敬重婆罗门,本身是婆罗门,也是你的老师。俱卢之子啊,切不可以任何方式轻慢他。

5.185.5

ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः ।
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥ ५.१८५.५ ॥

于是我看见天空中站立的那八位梵言者。大王啊,他们微笑着,轻轻对我说了这些话。

5.185.6

यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु ।
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥ ५.१८५.६ ॥

婆罗多中的最优者啊,就照那罗陀所说的去做。婆罗多中的雄牛啊,这是诸世界的至高福祉。

5.185.7

ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत् ।
ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि ॥ ५.१८५.७ ॥

随后,他收回那件大型催眠神器,并在那场战斗中依仪轨点燃了梵天箭。

5.185.8

ततो रामो हृषितो राजसिंह ।
दृष्ट्वा तदस्त्रं विनिवर्तितं वै।
जितोऽस्मि भीष्मेण सुमन्दबुद्धि-
रित्येव वाक्यं सहसा व्यमुञ्चत् ॥ ५.१८५.८ ॥

于是,罗摩——王中之狮——见那件武器被收回,心中欢喜,忽然说出这样的话:“我被毗湿摩击败了,我真是愚钝。”

5.185.9

ततोऽपश्यत्पितरं जामदग्न्यः ।
पितुस्तथा पितरं चास्य मान्यम्।
ते तत्र चैनं परिवार्य तस्थु-
रूचुश्चैनं सान्त्वपूर्वं तदनीम् ॥ ५.१८५.९ ॥

于是,祭火仙人之子看见了他的父亲,还有他父亲那位受人尊敬的父亲。他们在那里围住他站立,在那支军队面前,用安抚的言辞对他说话。

5.185.10

मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन ।
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥ ५.१८५.१० ॥

“孩子,今后绝不可再以任何方式做这样鲁莽的事——尤其是作为刹帝利,不要去与毗湿摩交战。”

5.185.11

क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन ।
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम् ॥ ५.१८५.११ ॥

“啊,婆利古族的欢喜者,作战确是刹帝利的本分;诵读吠陀与奉持誓戒,才是婆罗门的至高财富。”

5.185.12

इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् ।
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया ॥ ५.१८५.१२ ॥

“在某个场合我们先前就已说明:持械之事极为凶猛;而你却做了不该做的事。”

5.185.13

वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे ।
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥ ५.१८५.१३ ॥

孩子啊,与毗湿摩在战斗中的这番交锋已经足够。大臂者啊,你的冲突已足够;从此处离开战场吧。

5.185.14

पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् ।
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥ ५.१८५.१४ ॥

这已足够;愿你吉祥。你持弓已足够。不可战胜者啊,放下它吧;婆利古的后裔啊,去修苦行吧。

5.185.15

एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः ।
निवर्तस्व रणादस्मादिति चैव प्रसादितः ॥ ५.१८५.१५ ॥

这位沙檀奴之子毗湿摩已被众神阻止,并如此恳请他:从这场战斗中撤回吧。

5.185.16

रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः ।
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ॥ ५.१८५.१६ ॥

不要与你的老师罗摩争斗——这话被一再说起。库鲁之最啊,你在战场上战胜罗摩是不适宜的。

5.185.17

मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ।
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे ॥ ५.१८५.१७ ॥

恒河之子啊,在战场上要尊重婆罗门。我们是你的长辈,因此阻止你。

5.185.18

भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ।
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः ॥ ५.१८५.१८ ॥

毗湿摩是诸婆苏之一。孩子,幸而你还活着。这位恒河之子、沙檀奴之子,是名声显赫的婆苏。

5.185.19

कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव ।
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली ॥ ५.१८५.१९ ॥

婆哩古啊,你如何能胜过他?就从这里回去吧。阿周那,般度之子中最优秀者,是因陀罗的强大之子。

5.185.20

नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः ।
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्।
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ॥ ५.१८५.२० ॥

那罗,众生之主,英雄,古老的神,永恒者,以萨维亚萨钦之名闻名三界,大力者,已被自生者按时注定为毗湿摩之死。

5.185.21

एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् ।
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्।
न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि ॥ ५.१८५.२१ ॥

祖先们这样说时,罗摩对祖先们说:'我不会从战斗中退回;这是我坚守的誓言。在战阵之前,我从未退缩过。'

5.185.22

निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ।
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन ॥ ५.१८५.२२ ॥

诸位祖父啊,请随意让阿帕盖耶(毗湿摩)退出战斗;但我无论如何也不会从这场战斗中退回。

5.185.23

ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ।
नारदेनैव सहिताः समागम्येदमब्रुवन् ॥ ५.१८५.२३ ॥

于是,大王啊,以利周迦为首的诸仙人与那罗陀一同聚集,说出了这些话。

5.185.24

निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् ।
इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ॥ ५.१८५.२४ ॥

'孩子啊,从战斗中回来,尊敬最好的婆罗门吧。'我就这样对他们说,顾及刹帝利的职责。

5.185.25

मम व्रतमिदं लोके नाहं युद्धात्कदाचन ।
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ॥ ५.१८५.२५ ॥

这是我在世间的誓愿:我绝不会背对战斗而退却,即使从背后被箭射中。

5.185.26

नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् ।
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥ ५.१८५.२६ ॥

无论贪婪、吝啬、恐惧,还是为了任何利益,我都不会舍弃永恒的法——这是我坚定的决心。

5.185.27

ततस्ते मुनयः सर्वे नारदप्रमुखा नृप ।
भागीरथी च मे माता रणमध्यं प्रपेदिरे ॥ ५.१८५.२७ ॥

那时,大王啊,以那罗陀为首的所有仙人,以及我的母亲婆吉罗提(恒河女神),来到了战场中央。

5.185.28

तथैवात्तशरो धन्वी तथैव दृढनिश्चयः ।
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ॥ ५.१८५.२८ ॥

同样,我手持弓箭,决心坚定,站在战场上准备作战;那时他们对罗摩说话。

5.185.29

समेत्य सहिता भूयः समरे भृगुनन्दनम् ।
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ॥ ५.१८५.२९ ॥

他们再次聚集在战场上,对婆利古之子说:“婆罗门的心并不柔软;婆迦婆啊,请平息吧。”

5.185.30

राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ।
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥ ५.१८५.३० ॥

“罗摩,罗摩!婆罗门中最优秀者啊,从这场战斗中退回去吧。婆迦婆啊,毗湿摩不可被你杀死,而你也不可被毗湿摩杀死。”

5.185.31

एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् ।
न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥ ५.१८५.३१ ॥

他们如此说话,全部阻止了战场,使婆利古之子放下了武器。

5.185.32

ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः ।
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥ ५.१८५.३२ ॥

然后我又看见那八位吠陀的宣说者,他们闪耀如八颗升起的行星。

5.185.33

ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् ।
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥ ५.१८५.३३ ॥

当我站在战场上时,他们以慈爱之语对我说:"大臂者啊,去见罗摩;为导师和世界的利益而行。"

5.185.34

दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै ।
लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥ ५.१८५.३४ ॥

见罗摩因那位朋友的话而返回,我也为了世界的利益,接受了那番话。

5.185.35

ततोऽहं राममासाद्य ववन्दे भृशविक्षतः ।
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ॥ ५.१८५.३५ ॥

于是我走近罗摩,身受重伤,向他行礼。大苦行者罗摩微笑着,满怀慈爱地对我说。

5.185.36

त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः ।
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥ ५.१८५.३६ ॥

在这世上,没有能与你相匹敌的行走于大地的刹帝利。婆摩啊,离开这场战斗吧;我因你而非常满意。

5.185.37

मम चैव समक्षं तां कन्यामाहूय भार्गवः ।
उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम् ॥ ५.१८५.३७ ॥

在我面前,婆利古之裔召唤那位少女,在那些大德之人中间,以哀戚的声音说道。