Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.186

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.186.1

प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ॥ ५.१८६.१ ॥

光彩的女士啊,所有世界都清楚地看到,我依据自己的力量,以最高的勇气作战。

5.186.2

न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥ ५.१८६.२ ॥

即便如此,我也无法战胜持武器者中最优秀的毗湿摩,尽管我展示了最高的神兵。

5.186.3

एषा मे परमा शक्तिरेतन्मे परमं बलम् ।
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥ ५.१८६.३ ॥

这是我最高的力量,这是我最大的力量。善良的女士啊,你想去哪里就去吧;我还能为你做什么呢?

5.186.4

भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥ ५.१८६.४ ॥

你只能投靠毗湿摩;你别无他路。我确实已被毗湿摩击败,他发射着大神兵。

5.186.5

एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।
तूष्मीमासीत्ततः कनक्या प्रोवाच भृगुनन्दनम् ॥ ५.१८६.५ ॥

如此说完,大心的罗摩深深叹息,沉默不语;随后迦纳吉对婆利古之子说道。

5.186.6

भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा ।
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥ ५.१८६.६ ॥

尊者啊,正如尊者所说:心地高尚的毗湿摩在战斗中,即便诸神也无法战胜。

5.186.7

यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया ।
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ॥ ५.१८६.७ ॥

我依照自己的力量与热忱尽了我的职责。战斗中,你的勇武不可避免,你的种种武器也是如此。

5.186.8

ने चैव शक्यते युद्धे विशेषयितुमन्ततः ।
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन ॥ ५.१८६.८ ॥

战斗之中,终究无法分出谁更胜一筹;我也绝不会再以任何方式去见这位毗湿摩。

5.186.9

गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।
समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥ ५.१८६.९ ॥

啊,苦行之富者,我将前往毗湿摩所在之处;在战场上,我亲自将他击倒,啊,婆利古族的翘楚。

5.186.10

एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।
तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम् ॥ ५.१८६.१० ॥

说完这话,少女便离去,双眼因愤怒而混乱,在苦行中意志坚定,心中思虑着我的死亡。

5.186.11

ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः ।
यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत ॥ ५.१८६.११ ॥

随后,婆利古族的翘楚与来自摩亨德拉山的其他仙人一同,向我辞别而去,啊,婆罗多,正如他来时一样。

5.186.12

ततो रथं समारुह्य स्तूयमानो द्विजातिभिः ।
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ॥ ५.१८६.१२ ॥

随后,我登上战车,受到再生族的赞颂,进入城中,将一切禀告给母亲萨蒂亚瓦蒂。

5.186.13

यथावृत्तं महाराज सा च मां प्रत्यनन्दत ।
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ॥ ५.१८६.१३ ॥

大王,事情正如所发生的那样,她也赞许了我。我又委派有智慧的人去处理少女之事。

5.186.14

दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् ।
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ॥ ५.१८६.१४ ॥

他们每天向我报告她的行止、言谈与举动;被派去照顾她福祉的人始终守候在那里。

5.186.15

यदैव हि वनं प्रायात्सा कन्या तपसे धृता ।
तदैव व्यथितो दीनो गतचेता इवाभवम् ॥ ५.१८६.१५ ॥

那少女一决心苦修、走入森林,我便立刻悲痛、沮丧,仿佛失去了心神。

5.186.16

न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि ।
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥ ५.१८६.१६ ॥

孩子,战场上从无一位刹帝利能以勇力胜过我,唯有那些以苦行磨砺誓愿的梵智者例外。

5.186.17

अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ॥ ५.१८६.१७ ॥

另外,大王,我甚至把此事告诉了那罗陀,对毗耶娑也应如此;那两位都曾这样对我说。

5.186.18

न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति ।
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ ५.१८६.१८ ॥

毗湿摩,你不可因迦尸之女而沮丧。谁敢以人力扭转天命呢?

5.186.19

सा कन्या तु महाराज प्रविश्याश्रममण्डलम् ।
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥ ५.१८६.१९ ॥

大王啊,那位少女进入了苦行林的圈域,依止于阎摩那河岸,修行超越常人的苦行。

5.186.20

निराहारा कृशा रूक्षा जटिला मलपङ्किनी ।
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ॥ ५.१८६.२० ॥

她绝食、消瘦、粗糙,头发纠结,满身污垢,这位以苦行为财富的女子靠风为食六个月,凝立如枯桩。

5.186.21

यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् ।
उदवासं निराहारा पारयामास भामिनी ॥ ५.१८६.२१ ॥

她依止于阎摩那河水,住在水中,绝食一年,又一年,圆满了苦行。

5.186.22

शीर्णपर्णेन चैकेन पारयामास सा परम् ।
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ ५.१८६.२२ ॥

她以一片枯叶为食,怒气猛烈,以大脚趾尖站立,又圆满了一年的苦行。

5.186.23

एवं द्वादश वर्षाणि तापयामास रोदसी ।
निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते ॥ ५.१८६.२३ ॥

如此十二年间,她灼烧天与地;虽然亲属想让她回头,她却无法被劝回。

5.186.24

ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् ।
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥ ५.१८६.२४ ॥

随后她前往被悉达与遮罗那所眷顾的伐蹉之地,到达那些有德行、大心的苦行者的林舍。

5.186.25

तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् ।
व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥ ५.१८६.२५ ॥

她在那些圣洁的渡口沐浴身体,日夜游走,随心所欲。

5.186.26

नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे ।
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥ ५.१८६.२६ ॥

大王啊,在难陀的修行处,在吉祥的乌禄迦修行处,在遮耶那的修行处,也在梵天之处。

5.186.27

त्रयागे देवयजने देवारण्येषु चैव ह ।
भोगवत्यां महाराज कौशिकस्याश्रमे तथा ॥ ५.१८६.२७ ॥

在三河汇流处,在诸神祭场,在神林之中;大王啊,在婆伽婆提,也在憍尸迦的修行处。

5.186.28

माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा ।
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ॥ ५.१८६.२८ ॥

在曼陀婆的修行处,王啊,也在迪利巴的修行处;俱卢之裔啊,在罗摩湖,以及在毕罗伽尔伽的修行处。

5.186.29

एतेषु तीर्थेषु तदा काशिकन्या विशांपते ।
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ॥ ५.१८६.२९ ॥

在这些圣洁的渡口,那时,迦尸的公主,人主啊,持守艰难的誓愿,沐浴身体。

5.186.30

तामब्रवीच्च कौरव्य मम माता जले स्थिता ।
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ॥ ५.१८६.३० ॥

俱卢之裔啊,他对她说:“我的母亲站在水中。善良的女子啊,你为何受苦?请如实告诉我。”

5.186.31

सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता ।
भीष्मेण समरे रामो निर्जितश्चारुलोचनि ॥ ५.१८६.३१ ॥

大王啊,那位无可指摘的女子合掌对她说:“美目的女子啊,在战斗中,罗摩被毗湿摩击败了。”

5.186.32

कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः ।
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥ ५.१८६.३२ ॥

“在准备就绪的国王中,还有谁敢战胜他?因此,为了毁灭毗湿摩,我将进行最严酷的苦行。”

5.186.33

विचरामि महीं देवि यथा हन्यामहं नृपम् ।
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ॥ ५.१८६.३३ ॥

“女神啊,我将游历大地,以便能杀死那位国王。女神啊,这就是我誓愿的果实,对我而言是至高的。”

5.186.34

ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि ।
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ॥ ५.१८६.३४ ॥

这时流向大海的河流说:“女子啊,你走的是一条弯曲的道路。肢体无瑕的弱女啊,这个愿望你是无法实现的。”

5.186.35

यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् ।
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ॥ ५.१८६.३५ ॥

“迦尸的公主啊,如果你为毁灭毗湿摩而发愿,并且坚守誓愿而舍弃你的身体——”

5.186.36

नदी भविष्यसि शुभे कुटिला वार्षिकोदका ।
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ॥ ५.१८६.३६ ॥

“吉祥的女子啊,你将成为一条弯曲的河,有雨季之水,难以渡过;但要知道,它只是雨季之河,而非八个月之河。”

5.186.37

भीमग्राहवती घोरा सर्वभूतभयंकरी ।
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ॥ ५.१८६.३७ ॥

充满凶猛鳄鱼,可怕,令一切众生恐惧。大王,她说完这些,便离开了迦尸的公主。

5.186.38

माता मम महाभागा स्मयमानेव भामिनी ।
कदाचिदष्टमे मासि कदाचिद्दशमे तथा।
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥ ५.१८६.३८ ॥

我的母亲,极有福分,美丽而仿佛含笑;有时在第八个月,有时在第十个月,这位美貌的女子连水都不喝。

5.186.39

सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।
पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ ५.१८६.३९ ॥

她,哦,俱卢的后裔,因贪恋圣渡口,在跋蹉之地上来回奔跑而跌倒——迦尸王的女儿,又一次。

5.186.40

सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत ।
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥ ५.१८६.४० ॥

这条河在跋蹉之地以“阿姆巴”之名闻名,婆罗多。它是雨季的河流,充满鳄鱼,渡口难以通行,且蜿蜒曲折。

5.186.41

सा कन्या तपसा तेन देहार्धेन व्यजायत ।
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥ ५.१८६.४१ ॥

那位少女凭借那苦行,以半个身体降生;大王,那时她在跋蹉人之中既成为河流,也成为少女。