摩诃婆罗多 · 章 5.187
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.187.1
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् ।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ ५.१८७.१ ॥
那时,所有苦行者见她决心修行,便劝她回头,说道:“孩子啊,现在该怎么办呢?”
5.187.2
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ ५.१८७.२ ॥
那时,少女对那些修行年高的仙人说:“我被毗湿摩拒绝,并被剥夺了妻子的本分。”
5.187.3
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ ५.१८७.३ ॥
“诸位苦行富足的贤者,我的誓愿是为了杀他,而不是为了世人。杀死毗湿摩之后,我将得到平静——这便是我的决心。”
5.187.4
यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥ ५.१८७.४ ॥
“因为他,我落入这永恒的苦境,被夫君的世界所弃;在此,我既非女子,亦非男子。”
5.187.5
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः ।
एष मे हृदि संकल्पो यदिदं कथितं मया ॥ ५.१८७.५ ॥
“诸位苦行富足的贤者,我不杀死战场上的恒河之子(毗湿摩),便不会回头。这便是我心中的决心,正如我方才所言。”
5.187.6
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ ५.१८७.६ ॥
“我对女子之身已完全厌倦,为了获得男子之身而下定决心,我要向毗湿摩复仇;我是无法被阻止的——我再次说明。”
5.187.7
तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम् ॥ ५.१८७.७ ॥
手持三叉戟的神、优摩之主,在那些大仙之中向这位苦行女显示了他自己的真身。
5.187.8
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ ५.१८७.८ ॥
当她被请求选择一个恩赐时,她选择了我的失败。于是神对这位意志坚定的女子说:“你将杀死他。”
5.187.9
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह ।
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ॥ ५.१८७.९ ॥
于是那位少女又对楼陀罗说:“天神啊,我身为女子,在战场上怎能取得胜利呢?”
5.187.10
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥ ५.१८७.१० ॥
优摩之主啊,我以女身,内心已深深平静。众生之主啊,你曾向我许诺过毗湿摩的失败。
5.187.11
यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥ ५.१८७.११ ॥
牛旗之主啊,请使之成真,使我能在战场上遇见山软之子毗湿摩并杀死他。
5.187.12
तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि ॥ ५.१८७.१२ ॥
牛旗的大神对那少女说:“我的话如甘露,不会虚假。善良的女子啊,你将成真。”
5.187.13
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ।
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥ ५.१८७.१३ ॥
你将在战场上杀死毗湿摩,并获得男性之身;进入另一个身体后,贤德的你将记起这一切。
5.187.14
द्रुपदस्य कुले जाता भविष्यसि महारथः ।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥ ५.१८७.१४ ॥
你将生于德鲁帕达的家族,成为伟大的车战勇士,精通速射武器,善战奇异,备受敬重。
5.187.15
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति ।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥ ५.१८७.१५ ॥
正如所说,吉祥的人啊,这一切都将实现;之后,经过时间的流逝,你将成为男子。
5.187.16
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः ।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ ५.१८७.१६ ॥
说完这些,头发盘结、旗帜为公牛的大天神就在婆罗门们的注视下消失在那里。
5.187.17
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥ ५.१८७.१७ ॥
然后,在大仙人们注视下,那位无瑕、肤色俊美的女子从那片森林里收集柴薪。
5.187.18
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ ५.१८७.१८ ॥
她搭起一座极大的柴堆并点燃火焰,大王啊,怀着因愤怒而燃烧的心,她走进了熊熊烈火之中。
5.187.19
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥ ५.१८७.१९ ॥
她说了一句“为了杀死毗湿摩”,便进入了火中。她是迦尸王的长女,大王啊,火焰燃烧在亚穆纳河的两岸。