摩诃婆罗多 · 章 5.191
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.191.1
ततः शिखण्डिनो माता यथातत्त्वं नराधिप ।
आचचक्षे महाबाहो भर्त्र कन्यां शिखण्डिनीम् ॥ ५.१९१.१ ॥
于是,希坎丁之母如实地告诉她的丈夫,人主啊,大臂者啊:那女儿名叫希坎迪尼。
5.191.2
अपुत्रया मया राजन्सपत्नीनां भयादिदम् ।
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ॥ ५.१९१.२ ॥
王啊,我因无子,出于对众妾的恐惧而做了此事。女儿希坎迪尼降生了,却被宣称为男子。
5.191.3
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम् ।
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥ ५.१९१.३ ॥
人中之最啊,你也欣然赞同了此事,王中之牛啊,为这女儿也尽了儿子的职责。
5.191.4
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता ।
मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्।
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥ ५.१९१.४ ॥
王啊,你娶了达舍尔纳王的女儿为妻。见神之言的真意,我也同意:她虽为女子,终将成为男子;因此这件事被搁置了。
5.191.5
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः ।
सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य।
मन्त्रं राजा मन्त्रयामास राजन् ।
यथायुक्तं रक्षणे वै प्रजानाम् ॥ ५.१९१.५ ॥
德鲁帕达·耶若娑那闻此言后,把全部真相告知了谋士,王啊,为保护臣民而如理地商议。
5.191.6
संबन्धकं चैव समर्थ्य तस्मिन् ।
दाशार्णके वै नृपतौ नरेन्द्र।
स्वयं कृत्वा विप्रलम्भं यथाव-
न्मन्त्र्यैकाग्रो निश्चयं वै जगाम ॥ ५.१९१.६ ॥
他与之缔结联姻,主人啊,又亲自对达沙尔纳王施以诡计,依法商议之后,专心一意地作出了决定。
5.191.7
स्वभावगुप्तं नगरमापत्काले तु भारत ।
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥ ५.१९१.७ ॥
婆罗多啊,在危难之时,他守护着那座天然设防、四面皆装饰华美的城市,王中之王啊。
5.191.8
आर्तिं च परमां राजा जगाम सह भार्यया ।
दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥ ५.१९१.८ ॥
国王与王后一同陷入极大的痛苦,婆罗多族的雄牛啊,因为与达沙尔纳之主的对立。
5.191.9
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् ।
इति संचिन्त्य मनसा देवतामर्चयत्तदा ॥ ५.१९१.९ ॥
“我与这姻亲之间,怎样才能不生大的争端呢?”他心中这样思量,便当时礼拜了天神。
5.191.10
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा ।
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥ ५.१९१.१० ॥
国王啊,她看见他正专心礼拜,那位一心侍奉诸神的王后便对他说了这番话。
5.191.11
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम् ।
किमु दुःस्वार्णवं प्राप्य तस्मादर्चयतां गुरून् ॥ ५.१९१.११ ॥
敬奉诸神是真实的,为善人所认可。即便陷入困厄的大海,那些礼敬长辈者又有何可惧?
5.191.12
दैवतानि च सर्वाणि पूज्यनां भूरिदक्षिणम् ।
अग्नयश्चापि हृयन्तां दाशार्णप्रतिषेधने ॥ ५.१९१.१२ ॥
愿以丰厚的布施供奉一切天神,并向火中献祭,以抵御达舍尔纳人。
5.191.13
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो ।
देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥ ५.१९१.१३ ॥
主公啊,请在心中思量不战而退之策;凭借天神的恩典,这一切都将实现。
5.191.14
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन ।
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु ॥ ५.१९१.१४ ॥
广目者啊,请按你与大臣们商议的去做;大王啊,为了保全这座城,凡所应当,便照着去做吧。
5.191.15
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव ।
परम्परविरोधाद्धि सिद्धिरस्ति न चैतयोः ॥ ५.१९१.१५ ॥
大王啊,天命若与人力相合,便能大获成功;二者并非彼此相悖,缺少其中任何一个,便无成就。
5.191.16
तस्माद्विधाय नगरे विधानं सचिवैः सह ।
अर्चयस्व यथाकामं दैवतानि विशांपते ॥ ५.१९१.१६ ॥
因此,请与大臣们在城中作好安排,人民之主啊,依你所愿去供奉诸天神吧。
5.191.17
एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ ।
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी ॥ ५.१९१.१७ ॥
看到他们二人这样交谈、沉浸于悲伤之中,少女尸甘底尼此时仿佛羞愧难当,如同苦行女一般。
5.191.18
ततः सा चिन्तयामास मन्कृते दुःखितावुभौ ।
इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥ ५.१९१.१८ ॥
于是她思量:这两人因我而悲伤,便决意结束自己的生命。
5.191.19
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा ।
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम् ॥ ५.१९१.१९ ॥
她如此决定后,深陷悲痛之中,离开家园,走入茂密而人迹罕至的森林。
5.191.20
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् ।
तद्भयादेव च जनो विसर्जयति तद्वनम् ॥ ५.१९१.२० ॥
大王啊,那片森林由一位名叫斯图纳卡尔纳的强大夜叉守护,人们因畏惧他而避开那片树林。
5.191.21
तत्र च स्थूणभवनं सुधामृत्तिकलेपनम् ।
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥ ५.१९१.२१ ॥
那里有一座柱子林立的宅邸,涂着石灰和泥土,弥漫着炒谷的烟雾,有高墙和门楼。
5.191.22
तन्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप ।
अनश्नाना बहुतिथं शरीरमुदशोपयत् ॥ ५.१९१.२२ ॥
大王啊,德鲁帕达之女尸犍底进入其中,多日绝食,使自己的身体消瘦枯萎。
5.191.23
दर्शयामास तां यक्षः स्थूणो मार्दवसंयुतः ।
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥ ५.१९१.२३ ॥
性情温和的夜叉斯图纳现身于她面前,说道:“你这样做的目的是什么?说吧,我会立即为你办到。”
5.191.24
अशक्ययिति सा यक्षं पुनः पुनरुवाच ह ।
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः ॥ ५.१९१.२४ ॥
她一再对夜叉说这不可能。于是guhyaka迅速回答说:“我会做到的。”
5.191.25
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे ।
अदेयमपि दास्यादि ब्रूहि यत्ते विवक्षितम् ॥ ५.१९१.२५ ॥
我是财神的侍从,也是赐予恩惠者,公主。即使是不可给予的,我也会给;你想说什么,就说吧。
5.191.26
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् ।
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥ ५.१९१.२६ ॥
于是Śikhaṇḍin将一切详细地禀告给夜叉之首Sthūṇākarṇa,婆罗多子孙啊。
5.191.27
आपन्नो मे पिता यक्ष न चिरान्नाशमेष्यति ।
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम् ॥ ५.१९१.२७ ॥
夜叉啊,我的父亲身陷困境,不久将会毁灭。达沙尔纳的君主怒气冲冲,将要攻击他。
5.191.28
मन्निमित्तं महोत्साहः सहेमकवचो नृपः ।
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे ॥ ५.१९१.२८ ॥
因为我,那位热情高涨的国王将身披金甲而来。因此,夜叉啊,请保护我、我的母亲和父亲。
5.191.29
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम ।
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥ ५.१९१.२९ ॥
你已答应消除我的忧愁。夜叉啊,愿因你的恩典,我成为一个无可指责的男子。
5.191.30
यावदेव स राजा वै नोपयाति पुरं मम ।
तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥ ५.१९१.३० ॥
伟大的夜叉啊,在那位国王尚未来到我的城市之前,guhyaka啊,请赐予我恩惠。