Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.192

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.192.1

शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ ।
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥ ५.१९२.१ ॥

婆罗多雄牛啊,夜叉听了尸炽丁的话,被天命所迫,心中思量后说道:

5.192.2

भवितव्यं तथा तद्धि मम दुःखाय कौरव ।
भद्रे कामं करिष्यामि समयं तु निबोध मे ॥ ५.१९२.२ ॥

俱卢啊,这必定是我的苦难。善良的女子啊,我会依你所愿,但请听我的条件。

5.192.3

स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते ।
किंचित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव।
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ॥ ५.१९२.३ ॥

我将归还你的男子之身,而我将承担女子之身。过一段时间,我会把这男子之身还给你。你须在约定时间回来;对我说实话。

5.192.4

प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः ।
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम् ॥ ५.१९२.४ ॥

我有大能,心念所至即可成就,是随意飞翔的鸟。凭我的恩惠,只需守护城邦与你的亲族。

5.192.5

स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे ।
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥ ५.१९२.५ ॥

王子啊,为你我将承担这女子之身。请向我真诚立誓;我会做你所喜欢的事。

5.192.6

प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत ।
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥ ५.१९२.६ ॥

尊贵者啊,持善愿者啊,我会把你的男子之身还给你。夜行者啊,请你暂时承担女子之身。

5.192.7

प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि ।
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ॥ ५.१९२.७ ॥

待金甲的达舍尔那王离去之后,我将重新成为少女,而你将成为男子。

5.192.8

इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ॥ ५.१९२.८ ॥

说完这些,国王啊,二人便在那里立下约定;约定彼此不得欺骗,于是两人便互换了形体。

5.192.9

स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत ।
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥ ५.१९२.९ ॥

于是夜叉斯图那取了女性之身,婆罗多啊;而湿科因丁则获得了那光辉的夜叉形体。

5.192.10

ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।
विवेश नगरं हृष्टः पितरं च समासदत् ॥ ५.१९२.१० ॥

于是般遮罗之子湿科因丁获得了男性之身,国王啊;他欢喜地进入城中,去见他的父亲。

5.192.11

यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत् ।
मातुश्च रहिते राजन्प्रसादं यक्षजं तदा।
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ॥ ५.१९२.११ ॥

他将所发生的一切如实告诉了德鲁帕达;国王啊,他又在与母亲私下相处时说起夜叉所赐的恩惠。德鲁帕达听后,心中极为欢喜。

5.192.12

सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ।
ततः संप्रेषयामास दशार्णाधिपतेर्नृपः ॥ ५.१९२.१२ ॥

他与妻子一同想起了摩呵提婆的那句话;随后,国王派遣使者前往达舍尔那之主处。

5.192.13

पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ।
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ॥ ५.१९२.१३ ॥

“此人是我的儿子,请您相信我。”此时,达沙尔纳王忽然来到。

5.192.14

पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः ।
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ॥ ५.१९२.१४ ॥

般遮罗王德鲁波陀充满痛苦与忧伤。随后,达沙尔纳的君主到达坎皮利亚,(派遣了使者)。

5.192.15

प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् ।
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ॥ ५.१९२.१५ ॥

他恭敬地派遣了一位最优秀的梵通者作为使者,说:“使者啊,依我的话,去告诉那卑劣的般遮罗王——

5.192.16

यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ।
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥ ५.१९२.१६ ॥

“你为了自己的女儿而选中了我的女儿,恶意之人啊,今日你必将看到那傲慢的果报,此事毫无疑问。

5.192.17

एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम ।
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥ ५.१९२.१७ ॥

王中之尊啊,他这样被吩咐之后,那位婆罗门使者受达沙尔纳王的驱使,前往城中。

5.192.18

ततः आसादयामास पुरोधा द्रुपदं पुरे ।
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥ ५.१९२.१८ ॥

随后,那位家司祭在城中见到了德鲁波陀。般遮罗王以礼厚待,赠予他一头牛和敬奉的供品。

5.192.19

प्रापयामास राजेन्द्र सह तेन शिखण्डिना । ॥ ५.१९२.१९ ॥

众王之主啊,他与尸ykhandin一同把他们送到了那里。

5.192.20

यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ।
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ॥ ५.१९२.२० ॥

那位英雄金甲王所说的是:卑劣行为的人啊,我被你的女儿欺骗了。

5.192.21

तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ।
देहि युद्धं नरपते ममाद्य रणमूर्धनि ॥ ५.१९२.२१ ॥

你要承受那恶行的果报,恶意之人啊。人主啊,今日在战场前列与我交战吧。

5.192.22

उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ।
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ॥ ५.१९२.२२ ॥

我将立即连同你的大臣、儿子和亲属一并连根拔起。那位国王确实听到了这些伴随责备的话。

5.192.23

दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा ।
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ॥ ५.१९२.२३ ॥

薄伽梵啊,当达沙尔纳之主与祭司在众大臣中向他说话时,婆罗多最优秀者啊,木龙陀以敬意低头。

5.192.24

यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ॥ ५.१९२.२४ ॥

婆罗门啊,你以亲属之言对我所说的,使者将把对此的回答转告国王。

5.192.25

ततः संप्रेषयामास द्रुपदोऽपि महात्मने ।
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥ ५.१९२.२५ ॥

于是德鲁帕达也派遣了一位精通吠陀的婆罗门使者,前往大德的希兰耶跋尔曼那里。

5.192.26

तमागम्य तु राजानं दशार्णाधिपतिं तदा ।
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥ ५.१९२.२६ ॥

他来到那位十罗那国之主的国王面前,传达了德鲁帕达所说的话,大王。

5.192.27

आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम ।
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ॥ ५.१९२.२७ ॥

应当安排明确的来访:这位王子是我的儿子。此话是某人虚假说出的,不可相信,如是说。

5.192.28

ततः स राजा द्रुपदस्य श्रुत्वा ।
विमर्शयुक्तो युवतीर्वरिष्ठाः।
संप्रेषयामास सुचारुरूपाः ।
शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम् ॥ ५.१९२.२८ ॥

那位国王听了德鲁帕达的话,陷入思索,便派遣容貌美丽的最优秀少女,去探明尸狄是女子还是男子。

5.192.29

तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ।
ताः प्रेषितास्तत्त्वभावं विदित्वा
प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।
शिखण्डिनं पुरुषं कौरवेन्द्र
दाशार्णराजाय महानुभावम् ॥ ५.१९२.२९ ॥

他对那份礼遇并不欢喜,说了这些话。那些被派去的女子查明了真相,怀着好意把一切报告给国王:尸狄,哦,俱卢之主,是一位具有大威力的男子——这话传给了十罗那国王。

5.192.30

ततः कृत्वा तु राजा स आगमं प्रीतिमानथ ।
संबन्धिना समागम्य हृष्टो वासमुवास ह ॥ ५.१९२.३० ॥

于是那位国王心生欢喜,安排好了来访,与亲戚相会,欣然在那里住了下来。

5.192.31

शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः ।
हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा ।
पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल ॥ ५.१९२.३१ ॥

国王欢喜,赐给湿婆犍丁(Śikhaṇḍin)财富——象、马、牛,以及数百名女仆。受到敬重后,他责备了自己的女儿,随即离去。

5.192.32

विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे ।
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी ॥ ५.१९२.३२ ॥

待那身披金甲、罪过已消、心中欢喜的国王返回达尔纳(Daśārṇa)后,面带喜色的湿婆犍丁(Śikhaṇḍinī)留在了那里。

5.192.33

कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ॥ ५.१९२.३३ ॥

过了一段时间,乘人而行的俱毗罗(Kubera)在周游世界时,来到了斯图纳(Sthūṇa)的居所。

5.192.34

स नद्गृहस्योपरि वतमान ।
आलोकयामास धनाधिगोप्ता।
स्थूणस्य यक्षस्य विवेश वेश्म ।
स्वलंकृतं माल्यगुणैर्विचित्रैः ॥ ५.१९२.३४ ॥

他站在纳达之屋的上方四望;这位财富的守护者走进了夜叉斯图纳的住所,那里以繁多的花环装饰得十分华美。

5.192.35

लाचैश्च गन्धैश्च तथा वितानै-
रभ्यर्चितं धृनधृपितं च।
ध्वजैः पताकाभिरलंकृतं च ।
भक्ष्यान्नपेयामिपदत्तमोदम् ॥ ५.१९२.३५ ॥

以爆米、香料与华盖供奉,焚香使之芬芳,饰以旗幡与旌旗,并以饮食、酒浆与肉食的供奉而令人欢喜。

5.192.36

तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् ।
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ॥ ५.१९२.३६ ॥

见其处四面皆盛装饰,充满珠宝、宝石与黄金的花环。

5.192.37

नानाकुसूमगन्धाढ्यं सिक्तसंमृष्टशोभितम् ।
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥ ५.१९२.३७ ॥

这座宅邸充满众多花卉的芳香,洒扫洁净,装饰华美。那时,夜叉之主对随从的夜叉们说道。

5.192.38

स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ॥ ५.१९२.३८ ॥

这座宅邸装饰得很好。啊,你们这些威力无量的夜叉,为何今天斯图纳不来见我?那个愚钝之人为何不来?

5.192.39

यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति ।
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥ ५.१९२.३९ ॥

他明明知道,却仍不来见我,那个愚钝之魂,依我之见应当给予重罚。

5.192.40

द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी ।
तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥ ५.१९२.४० ॥

大王啊,德鲁帕达王之女湿婆曼迪尼出生了。为了她,有人赐予了男子的特征。

5.192.41

अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे ।
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ॥ ५.१९२.४१ ॥

她取了女子的特征,以女子之身留在家中。因羞怯且具女子之形,她不来见我。

5.192.42

एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति ।
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥ ५.१९२.४२ ॥

大王啊,正因此故,斯图纳今日不来。请听后依法而行,关于此处居住者的天车。

5.192.43

आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ॥ ५.१९२.४३ ॥

“把斯图那带来。”于是夜叉之主说道:“我将惩罚他。”他一再这样回答。

5.192.44

सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते ।
स्त्रीमरूपो महाराज तस्थौ व्रीडासमन्वितः ॥ ५.१९२.४४ ॥

他被召唤,前往夜叉之主面前,大地之主啊。大王啊,他以女子之身,满怀羞愧,站立在那里。

5.192.45

तं शशापाथ संक्रुद्धो धनदः कुरूनन्दन ।
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ॥ ५.१९२.४५ ॥

于是愤怒的财神说道,库鲁之喜啊:“就这样吧。愿这罪人今日便具女身,诸导藏夜叉啊。”

5.192.46

ततोऽब्रवीद्यक्षपतिर्महात्मा ।
यस्माददास्त्ववमन्येह यक्षान्।
शिखण्डिनो लक्षणं पापबुद्धे ।
स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥ ५.१९२.४६ ॥

于是伟大的夜叉之主说道:“因为你在此轻慢夜叉,恶意之人啊,你取得了施甘丁的标志与女子的标志,作恶者啊。”

5.192.47

अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम् ।
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ॥ ५.१९२.४७ ॥

“因为你,极其恶毒之人,做了尚未开始的事,从今天起你便是女子,而他也同样是男子。”

5.192.48

ततः प्रसादयामासुर्यक्षा वैश्रवणं किल ।
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ ५.१९२.४८ ॥

于是夜叉们安抚毗沙门,一再说道:“为了斯图那,请结束这诅咒。”

5.192.49

ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥ ५.१९२.४९ ॥

于是大德的夜叉王对跟随他的所有夜叉众说道,孩子们啊,他想要结束这个诅咒。

5.192.50

शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते ।
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥ ५.१९२.५० ॥

当Śikhaṇḍin被杀之时,夜叉们啊,他将重获自己的原形。愿夜叉Sthūṇa无忧无虑,这位大度者说道。

5.192.51

इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः ।
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ॥ ५.१९२.५१ ॥

说完这话,这位尊贵的天神、备受尊崇的夜叉王,与所有在瞬息之间往来的随从一同离去了。

5.192.52

स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा ।
समये चागमूत्तूर्णं शिखण्डी तं क्षपाचरम् ॥ ५.१९२.५२ ॥

然而Sthūṇa受到诅咒后,便留在了那里;到了约定的时刻,Śikhaṇḍin迅速来到了这位夜行者面前。

5.192.53

सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति ।
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥ ५.१९२.५३ ॥

他走近说道:“大德啊,我到了。”于是Sthūṇa一次又一次地对他说:“我很欢喜。”

5.192.54

आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥ ५.१९२.५४ ॥

看到王子Śikhaṇḍin真诚地前来,他便把发生的一切如实地告诉了Śikhaṇḍin。

5.192.55

शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज ।
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥ ५.१९२.५५ ॥

王子啊,因你之故,我被毗首羯摩之主(Vaiśravaṇa,俱毗罗)诅咒。现在你随心所欲地去吧,安乐地游历诸世界。

5.192.56

दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् ।
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥ ५.१९२.५६ ॥

我认为这是早已注定的,无法避免。你的离去以及与补罗斯底耶(俱毗罗)的相见,确实是你心中的意愿。

5.192.57

एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।
प्रत्याजगाम नगरं हर्वेण महतावृतः ॥ ५.१९२.५७ ॥

夜叉 Sthūṇa 如此说后,婆罗多的后裔啊,式坎丁满怀大喜返回了城市。

5.192.58

पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।
द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान् ॥ ५.१९२.५८ ॥

他以各种香花和贵重之物供养再生者(婆罗门)、诸神、支提以及十字路口。

5.192.59

द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ ५.१९२.५९ ॥

般遮罗王德律波陀与其子式坎丁(目的已达成)一同,与亲族共享无上的喜悦。

5.192.60

शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव ।
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥ ५.१९२.६० ॥

然后,库鲁族的雄牛啊,他把式坎丁作为弟子交给了德罗纳,大王啊,这位先前为女身的儿子也一并交付。

5.192.61

प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः ।
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥ ५.१९२.६१ ॥

王子湿婆坎丁与你们一起学习了四支的射箭之术,还有般遮罗的德里斯塔笈穆那。

5.192.62

मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।
जडान्धबधिराकारा ये मुक्ता द्रपदे मया ॥ ५.१९२.६२ ॥

孩子啊,我派往德鲁帕达国土、假扮成痴呆、盲人和聋子的探子,把这一切如实地报告给了我。

5.192.63

एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः ।
स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ॥ ५.१९२.६३ ॥

大王啊,德鲁帕达的这个儿子湿婆坎丁,先是女身,后变成男子,库鲁之最,他作为最优秀的车战勇士而降生。

5.192.64

ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता ।
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥ ५.१९२.६४ ॥

卡希国王的长女以安巴之名闻名,她在德鲁帕达家族中以湿婆坎丁之名降生,婆罗多族的雄牛啊。

5.192.65

नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥ ५.१९२.६५ ॥

当他手持弓箭、渴望战斗地站在我面前时,我连一刻也不会看他,也不会攻击他。

5.192.66

व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् ।
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ॥ ५.१९२.६६ ॥

这是我的誓愿,即使在大地上也一向闻名:对女子,对先前是女子的人,对有女子之名、女子之形的人,我都不举起武器。

5.192.67

न मुञ्चेयमहं बाणमिति कौरवनन्दन ।
न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥ ५.१९२.६७ ॥

俱卢之喜,我不会放箭,因此我不会击杀斯希坎丁。

5.192.68

एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥ ५.१९२.६८ ॥

孩子,我知道斯希坎丁出生的这一真相;因此即使他在战斗中来犯,我也不会杀他。

5.192.69

यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् ।
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥ ५.१९२.६९ ॥

若毗湿摩击杀女子,善人必定非议他;因此即使见他站在战场上,我也不会杀他。

5.192.70

एतच्छ्रुत्वा तु करव्यो राजा दुर्योधनस्तदा ।
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥ ५.१९२.७० ॥

难敌王听后,沉思片刻,认为毗湿摩的话是恰当的。