摩诃婆罗多 · 章 5.194
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.194.1
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे ।
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ ५.१९४.१ ॥
俱紐之子闻此,乃召集诸兄弟至僻静处,说道:婆罗多族之最上者啊,
5.194.2
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम ।
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥ ५.१९४.२ ॥
我在持国之子军中的细作,把此夜已过之事报告于我。
5.194.3
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् ।
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥ ५.१९४.३ ॥
主啊,据说难敌曾问大誓者恒河之子:您将在何时击杀般度之子的军队?
5.194.4
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः ।
तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान् ॥ ५.१९४.४ ॥
彼对那恶意的持国之子说“一月之内”,德罗纳亦于同样的时限内立下誓言。
5.194.5
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् ।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ ५.१९४.५ ॥
我们听说憍答摩(克里帕)说的时限是两倍;但德罗纳之子,通晓大神兵者,于十夜之内立誓。
5.194.6
तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि ।
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ॥ ५.१९४.६ ॥
同样,通晓天神兵器的迦尔纳在俱卢议会中被问及时,立誓将于五日之内连同军队将之歼灭。
5.194.7
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः ।
कालेन कियता शत्रून्क्षपयेरिति फाल्गुन ॥ ५.१९४.७ ॥
因此我也想听你的话,阿周那:你要用多少时间消灭敌人,法尔贡那?
5.194.8
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः ।
वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ॥ ५.१९४.८ ॥
国王如此发问,征服睡眠者财主看着婆苏提婆,说了这番话。
5.194.9
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः ।
असंशयं महाराज हन्युरेव न संशयः ॥ ५.१९४.९ ॥
这些大德之人都精通武器,是卓越的战士。大王,毫无疑问,他们确实能杀戮,此事无疑。
5.194.10
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् ।
हन्यामेकरथेनैव वासुदेवसहायवान् ॥ ५.१९४.१० ॥
愿你心中的痛苦消散。我说的是实话:有婆苏提婆相助,我将在一辆战车上将他们杀死。
5.194.11
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् ।
भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ॥ ५.१९४.११ ॥
三界连同诸神,一切静止与运动之物,过去、未来与现在,我都能在瞬息之间毁灭,这是我的看法。
5.194.12
यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा ।
यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम।
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ॥ ५.१९४.१२ ॥
当年在与猎人(Kirāta)的单独决斗中,帕舒帕提赐予我的那件可怕的大兵器,至今仍在我身中。只要这位哈里愿意,它便存在;否则便不存在。
5.194.13
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् ।
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥ ५.१९४.१३ ॥
若在劫末,主宰众生者(Paśupati)毁灭一切众生而施用之,人中虎啊,那神兵便在我身中。
5.194.14
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः ।
न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥ ५.१९४.१४ ॥
甘加之子(毗湿摩)不知之,德罗纳不知之,乔达摩(克利帕)不知之,德罗纳之子亦不知之;王啊,何况御者之子。
5.194.15
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् ।
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥ ५.१९४.१५ ॥
然而在战场上以神兵杀害凡人是不合适的;我们只以正直的战斗去战胜敌人。
5.194.16
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव ।
सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ॥ ५.१९४.१६ ॥
同样,这些人中之虎是你的盟友,王啊;他们都精通神兵,都渴望战斗。
5.194.17
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः ।
निहन्युः समरे सेनां देवानामपि पाण्डव ॥ ५.१९४.१७ ॥
这些人以吠檀多的最后沐浴得以清净,皆为不败者;般度之子啊,他们在战场上能杀尽天神的军队。
5.194.18
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः ।
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥ ५.१९४.१८ ॥
尸犍丁、尤尤陀那、般利沙多之子德里什塔笃姆那、毗摩犀那、双生的两子、优陀摩尼与乌达摩乔阇。
5.194.19
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि ।
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ॥ ५.१९४.१९ ॥
毗罗吒与德鲁帕达二人,在战场上与毗湿摩和德罗纳相当;大臂的商迦,以及大力的海底跋。
5.194.20
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः ।
शैनेयश्च महाबाहुः सहायो रणकेविदः ॥ ५.१९४.२० ॥
他的儿子安迦那波凡,力量与勇气都极大;还有大臂的室尼耶,是善于作战的助手。
5.194.21
अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः ।
स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च ॥ ५.१९४.२१ ॥
勇猛的阿毗摩王,以及德罗波蒂的五个儿子;而你自己,甚至能够毁灭三界。
5.194.22
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते ।
स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥ ५.१९४.२२ ॥
你若怀着愤怒注视某人,那人,哦,你具有因陀罗般的光辉,很快便不复存在;哦,俱卢之子,我知道你就是这样。