Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.196

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.196.1

तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥ ५.१९६.१ ॥

同样,俱卢之子、法之子国王坚战激励以德一王为首的勇士,婆罗多的后裔啊。

5.196.2

चेदिकाशिकरूशानां नेतारं दृढविक्रमम् ।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥ ५.१९६.२ ॥

随后,他任命了遮底、迦尸和俱卢的统帅、勇武坚定、灭敌的檀瓦荼为军队统帅。

5.196.3

विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥ ५.१९६.३ ॥

毗罗吒、俱卢王、优优陀那、尸狐嚩,以及两位大弓手般遮罗人优陀曼尤和乌塔毛遮。

5.196.4

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः ।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ ५.१९६.४ ॥

那些勇士披着彩色铠甲,戴着精炼金耳环,洒以酥油,如祭坛上燃烧的祭火一般光耀。

5.196.5

अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ।
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ॥ ५.१९६.५ ॥

大弓手们如燃烧的行星般光耀。随后,那人中的雄牛依照各人的身份礼敬了军队,

5.196.6

दिदेश तान्यनीकानि प्रयाणाय महीपतिः ।
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ॥ ५.१९६.६ ॥

大地之主命令那些部队出发;统率那些大德之人及其军队的,是国王坚战。

5.196.7

व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ।
स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः ॥ ५.१९६.७ ॥

他下令为营外之人、象、马、士卒以及以技艺谋生者准备上好的饮食。

5.196.8

अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥ ५.१९६.८ ॥

般度之子派遣了阿毗曼纽、布利汉陀、德罗波蒂的所有儿子,以及以德里斯塔笃牟那为首的这些人。

5.196.9

भीमं च युयुधानं च पाण्डवं च धनंजयम् ।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः ॥ ५.१९६.९ ॥

坚战派遣毗摩、尤尤陀那和般度之子大财,作为军队的第二支部队。

5.196.10

भाण्डं समारोपयतां चरतां संप्रधावताम् ।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत् ॥ ५.१९६.१० ॥

那些欢喜的战士装载辎重、来往奔走,喧声仿佛触及了天空。

5.196.11

स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः ।
अथापरैर्महीपालैः सह प्रायान्महीपतिः ॥ ५.१९६.११ ॥

随后,大地之主亲自从后面出发,与毗罗吒、德鲁帕达及其他诸王同行。

5.196.12

भीमधन्वायती सेना धृष्टद्युम्नेन पालिता ।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ ५.१९६.१२ ॥

这支由毗摩之弓展开、由德里斯塔笃牟那守护的军队,看上去充盈、平稳而流动,如同恒河。

5.196.13

ततः पुनरनीकानि न्ययोजयत बुद्धिमान् ।
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ॥ ५.१९६.१३ ॥

随后智者再次布列军队,使持国之子们的决断与判断陷入迷惑。

5.196.14

द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः ।
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥ ५.१९६.१४ ॥

般度之子安排了德罗波蒂的大弓箭手之子、阿毗曼尤、那库拉、萨诃提婆以及所有普罗巴德拉卡。

5.196.15

दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् ।
अयुतं च पदातीनां रथाः पञ्चशतं तथा ॥ ५.१९६.१५ ॥

一万匹马,两千头象,一万名步兵,以及五百辆战车。

5.196.16

भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् ।
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ॥ ५.१९६.१६ ॥

般度之子先布置了不可抵挡的婆罗多之军(毗摩森那之军),中间安置了毗罗吒与阇耶森那。

5.196.17

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ ॥ ५.१९६.१७ ॥

两位般遮罗的大车将,勇武而高尚的灵魂——优陀摩尼与乌塔摩乔阇。

5.196.18

अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ ।
तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे।
अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः ॥ ५.१९६.१८ ॥

此时,婆苏提婆与达南遮耶行于中间。诸地上之王见之,以为一切已失;天上以因陀罗为首的诸神亦如此认为。

5.196.19

बभूवुरतिसंरब्धाः कृतप्रहरणा नराः ।
तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः ।
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ॥ ५.१९६.१९ ॥

他们都极为愤怒,手持兵器。其中有两万匹马,由英雄骑乘;五千头象,以及四面八方的战车行列。

5.196.20

पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥ ५.१९६.२० ॥

手持弓、剑、钺的勇猛步兵,成千上万地跟随在后,又成千上万地走在前。

5.196.21

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥ ५.१९६.२१ ॥

在军海之中,正是坚战亲自所在之处,那些大地的守护者们大多聚集在那里驻守。

5.196.22

तत्र नागसहस्राणि हयानामयुतानि च ।
तथा रथसहस्राणि पदातीनां च भारत ॥ ५.१९६.२२ ॥

那里有数千头象、数万匹马、数千辆战车,还有步兵,婆罗多后裔啊。

5.196.23

चेकितानः स्वसैन्येन महता पार्थिवर्षभ ।
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ॥ ५.१९६.२३ ॥

车奇坦那率其庞大的军队前往,诸王中的雄牛啊;遮提之王、统领者德里斯塔凯图也前往。

5.196.24

सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः ।
वृतः शतसहस्रेण रथानां प्रमुदन्बली ॥ ५.१९६.२४ ॥

大弓手萨提亚基,乃毗湿尼族中最优秀的车战勇士,被十万辆战车环绕,欢欣而强盛地前行。

5.196.25

क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ ।
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ॥ ५.१९६.२५ ॥

刹帝提婆与梵提婆二位人中之牛,立于车上,守护军队后方,紧随其后而行。

5.196.26

शकटापणवेशाश्च यानं युग्यं च सर्वशः ।
तत्र नागसहस्राणि हयानामयुतानि च ।
फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम् ॥ ५.१९६.२६ ॥

车辆、市集与侍从,各种车乘和挽畜;那里有成千的象和上万的马,一切琐碎之物、妻妾,以及一切瘦弱之物。

5.196.27

कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च ।
गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः ॥ ५.१९६.२७ ॥

坚战以象军环绕护卫载运财宝与储物之人及谷仓,缓缓前行。

5.196.28

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः ॥ ५.१९६.२८ ॥

随后跟随的有真坚、好战而狂奋的索奇蒂、室利曼与婆苏陀那,或是迦尸王那位威武的王子。

5.196.29

रथा विंशतिसाहस्रा ये तेषामनुयायिनः ।
हयानां दश कोट्यश्च महतां किंकिणीकिनाम् ॥ ५.१९६.२९ ॥

二万辆战车随其后,另有饰以小铃的良马十千万匹。

5.196.30

गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः ।
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ॥ ५.१९६.३० ॥

二万头象,其牙如犁杠,善于冲击,皆是良种,两颊裂开、流淌着泌液,移动如云。

5.196.31

षष्टिर्नागसहस्राणि दशान्यानि च भारत ।
युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः ॥ ५.१९६.३१ ॥

婆罗多啊,大士坚战军中在战斗中的象,有六万又十(千)头。

5.196.32

क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः ।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ ५.१९६.३२ ॥

如滴雨的云,面颊被发情之液浸湿,它们在国王身后跟随,如同移动的山。

5.196.33

एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः ।
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ॥ ५.१९६.३३ ॥

这样,他依靠智慧的贡提之子的那支可怖军队,与持国之子苏耶陀那作战。

5.196.34

ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः ।
नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः ॥ ५.१९६.३४ ॥

随后,后面数以百计、千计、万计的其他人,吼叫着,带着他们数千的队伍前进。

5.196.35

तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः ॥ ५.१९६.३५ ॥

那里,欢欣的人们成千上万,数以万计,敲响了数千面鼓,吹响了数万只螺号。