Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.2.1

श्रुतं भवद्भिर्गदपूर्वजस्य ।
वाक्यं यथा धर्मवदर्थवच्च।
अजातशत्रोश्च हितं च युक्तं ।
दुर्योधनस्यापि तथैव राज्ञः ॥ ५.२.१ ॥

你们已经听过迦陀长兄的话,那话合乎法义且有道理;阿阇多设咄(坚战)与国王难敌的话同样有益而得体。

5.2.2

अर्धं हि राज्यस्य विसृज्य वीराः ।
कुन्तीसुतास्तस्य कृते यतन्ते।
प्रदाय चार्धं धृतराष्ट्रपुत्रः ।
सुखी सहास्माभिरतीव मोदेत् ॥ ५.२.२ ॥

英勇的贡蒂之子放弃了半个王国,为他而努力。愿持国之子得到另一半,与我们一同极其快乐地欢喜。

5.2.3

लब्ध्वा हि राज्यं पूरुषप्रवीराः ।
सम्यक्प्रवृत्तेषु परेषु चैव ।
ध्रुवं प्रशान्ताः सुखमाविशेयु-
स्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥ ५.२.३ ॥

英雄中的俊杰得到王国之后,若他人也行事得当,他们必定会在安宁中进入幸福;他们的安宁对民众有益。

5.2.4

दुर्योधनस्यापि मतं च वेत्तुं ।
वक्तुं च वाक्यानि युधिष्ठिरस्य।
प्रियं च मे स्याद्यदि तत्र कश्चि-
द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥ ५.२.४ ॥

为了了解难敌的想法并转达坚战的话,若有人为了俱卢与般度之间的和平前往那里,我将感到欣慰。

5.2.5

स भीष्ममामन्त्र्य कुरुप्रवीरं ।
वैचित्रवीर्यं च महानुभावम् ।
द्रोणं सपुत्रं विदुरं कृपं च ।
गान्धारराजं च समूतपुत्रम् ॥ ५.२.५ ॥

他召集了库鲁族的英雄毗湿摩、伟大的毗质力耶之子、与其子同在的德罗纳、维杜罗、克里帕、犍陀罗王,以及御者之子(迦尔纳)。

5.2.6

सवे च येऽन्ये धृतराष्ट्रपुत्रा ।
बलप्रधाना निगमप्रधानाः ।
स्थिताश्च धर्मेषु यथा स्वकेषु ।
लोकप्रवीराः श्रुतशीलवृद्धाः ॥ ५.२.६ ॥

还有德里塔拉什特拉的其他诸子,他们以力量和谋略为首,坚守各自的本分,是世间的英雄,在学识与德行上德高望重——他们所有人。

5.2.7

एतेषु सर्वेषु समागतेषु ।
पौरेषु वृद्धेषु च संगतेषु।
ब्रवीतु वाक्यं प्रणिपातयुक्तं ।
कुन्तीसुतस्यार्थकरं यथा स्यात् ॥ ५.२.७ ॥

当这些人全部聚集,连同城中百姓与长者都已集会时,愿他说出充满谦恭的话语,使之有利于贡蒂之子。

5.2.8

सर्वास्ववस्थासु च ते न कोप्या ।
ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः।
प्रियाभ्युपेतस्य युधिष्ठिरस्य ।
द्यूते प्रसक्तस्य हृतं च राज्यम् ॥ ५.२.८ ॥

无论何种境况,你都不应愤怒;那份财富已被倚仗武力的人夺去。那位可爱的坚战沉溺于掷骰之戏,他的王国被夺走了。

5.2.9

निवार्यमाणश्च कुरुप्रवीरः ।
सर्वैः सुहृद्भिर्ह्यमप्यतञ्झः।
स दीव्यमानः प्रतिदीव्य चैनं ।
गान्धारराजस्य सुतं मताक्षम् ॥ ५.२.९ ॥

尽管所有好友都加以劝阻,这位库鲁族的英雄仍不肯节制;他赌博,以赌注对赌,与犍陀罗王之子、精通骰戏的摩陀刹(沙恭尼)对局。

5.2.10

हित्वा हि कर्णं च सुयोधनं च ।
समाह्वयद्देवितुमाजमीढः।
दुरोदरास्तत्र सहस्रशोऽन्ये ।
युधिष्ठिरो यान्विषहेत जेतुम् ॥ ५.२.१० ॥

撇开迦尔纳和苏Yodhana不谈,阿遮弥荼之后裔向他们挑战赌博。那里还有成千上万的其他赌徒,坚战本可以胜过他们。

5.2.11

उत्सृज्य तान्सौबलमेव चायं ।
समाह्वयत्तेन जितोऽक्षवत्याम्।
स दीव्यमानः प्रतिदेवनेन ।
अक्षेषु नित्यं स्वपराङ्भुखेषु ॥ ५.२.११ ॥

他撇开那些人,挑战苏跋罗之子沙恭尼本人,并在阿叉跋提被他击败。在回报的赌局中,骰子始终对他不利……

5.2.12

संरम्भमाणो विजितः प्रसह्य ।
तत्रापराधः शकुनेर्न कश्चित्।
तस्मात्प्रणम्यैव वचो ब्रवीतु ।
वैचित्रवीर्यं बहुसामयुक्तम् ॥ ५.२.१२ ॥

他因激愤而被强力击败,此事沙恭尼并无过错。故应当俯首,向毗基多罗的儿子说和解之语。

5.2.13

तथा हि शक्यो धृतराष्ट्रपुत्रः ।
स्वार्थें नियोक्तुं पुरुषेण तेन।
अयुद्धमाकाङ्क्षत कौरवाणां ।
साम्नैव दुर्योधनमाश्वसध्वम् ॥ ५.२.१३ ॥

如此,那人便能为了他自己的利益,说服持国之子。他为俱卢族所希望的是不战之和平。只以和解之道安抚难敌吧。

5.2.14

साम्ना जितोऽर्थोऽर्थकरो भवेत ।
युद्धेऽनयो भविता नेह सोऽर्थः ॥ ५.२.१४ ॥

唯以和解所得之利才有益处。战争中则只有毁灭;那里不会有那份利益。

5.2.15

एवं ध्रुवत्येव मधुप्रवीरे ।
शिनिप्रवीरः सहसोत्पपात
तच्चापि वाक्यं परिनिन्द्य तस्य ।
समाददे वाक्यमिदं समुन्युः ॥ ५.२.१५ ॥

摩度的英雄正这样说着,诗尼的英雄突然跳了起来。他斥责了那番话,怒气冲冲地说出了这些话。