摩诃婆罗多 · 章 5.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.20.1
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः ।
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ ५.२०.१ ॥
他来到俱卢族,德鲁帕达的家祭司受到了持国、毗湿摩和维杜罗的礼遇。
5.20.2
सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम् ।
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥ ५.२०.२ ॥
他先问候众人平安,询问健康,然后在所有将领之中说出了这番话。
5.20.3
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः ।
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ ५.२०.३ ॥
你们都知道永恒的王法;然而为了提出一件事,既然你们已知,我便要说了。
5.20.4
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।
तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ ५.२०.४ ॥
持国与般度是同一人的两个著名之子;他们所继承的祖产相等,这一点毫无疑问。
5.20.5
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु ।
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ ५.२०.५ ॥
持国的诸子已得到了祖产;为何般度的诸子竟未得到祖产?
5.20.6
वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा ।
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम् ॥ ५.२०.६ ॥
如入林的般度子所早已告知你们的那样,持国所扣下的祖产,并未归还给他们。
5.20.7
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः ।
शेषवन्तो न शकिता नेतुं वै यमसादनम् ॥ ५.२०.७ ॥
他们以致命的手段多次尝试,却无法将尚有余寿的人送往阎摩之居。
5.20.8
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः ।
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥ ५.२०.८ ॥
诸位大德以自身之力重新兴盛了王国,却被卑劣的持国之子与沙恭尼以欺诈夺去。
5.20.9
तदप्यनुमतं कर्म यथा युक्तमनेन वै ।
वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥ ५.२०.९ ॥
他也认可了那件事,正如其所宜;于是,他们被迫在大森林中居住了十三年。
5.20.10
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।
अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः ॥ ५.२०.१० ॥
英雄们与妻子一同在大会上遭受了极大的折磨;在森林中,他们又经历了种种极其可怕的苦难。
5.20.11
तथा विराटनगरे योन्यन्तरगतैरिव ।
प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः ॥ ५.२०.११ ॥
同样,在毗罗吒城,他们仿佛进入了另一种胎生之中,遭受了极大的苦难,正如罪人加于大德者一般。
5.20.12
ते सर्वं पृष्ठतः कृत्वा तत्पूर्वं कर्म किल्विषम् ।
साम्नैव कुरुभिः सन्धिमिच्छन्ति कुरुपुङ्गवाः ॥ ५.२०.१२ ॥
他们将以往的一切过错抛诸脑后,诸位库鲁之杰仅以和解之道,愿与库鲁人和好。
5.20.13
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च ।
अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः ॥ ५.२०.१३ ॥
知晓他们与难敌的行为后,此处的善友应当安抚持国之子。
5.20.14
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह ।
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ ५.२०.१४ ॥
那些英雄并不愿与俱卢人争斗;在不毁灭世界的前提下,般度之子只希望得到属于自己的东西。
5.20.15
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति ।
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ ५.२०.१५ ॥
无论持国之子那边引起争端的原因是什么,都不应将其视为理由,因为他们更强大。
5.20.16
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः ।
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ ५.२०.१६ ॥
法之子身边已集结七支阿克绍希尼军,他们渴望与俱卢人作战,正等待他的命令。
5.20.17
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ ५.२०.१७ ॥
其他人中的虎杰——萨提亚基、毗摩森那以及双胞胎——各相当于千支阿克绍希尼军,极为强大。
5.20.18
एकादशैताः पृतना एकतश्च समागताः ।
एकतश्च महाबाहुर्बहुरूपी धनञ्जयः ॥ ५.२०.१८ ॥
这十一支军队聚集在一边,另一边则是大臂、多相的达南闍耶。
5.20.19
यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते ।
एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥ ५.२०.१९ ॥
如同冠者(阿周那)在所有军队中脱颖而出,大臂、大光辉的婆苏提婆(黑天)亦然。
5.20.20
बहुलत्वं च सेनानां विक्रमं च किरीटिनः ।
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ ५.२०.२० ॥
知晓军队之众多、冠者之勇力与黑天之智慧,何人还敢与之作战?
5.20.21
ते भवन्तो यथाधर्मं यथासमयमेव च ।
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ ५.२०.२१ ॥
诸位尊者,应当依法、依时给予应给之物;莫让此时错过。