Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.26.1

कां नु वाचं सञ्जय मे शृणोषि ।
युद्धैषिणीं येन युद्धाद्बिभेषि ।
अयुद्धं वै तात युद्धाद्गरीयः ।
कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥ ५.२६.१ ॥

珊闍耶啊,你所听我说的是怎样的话,那话渴望战争,而你又因何畏惧战争?亲爱的,非战胜于战。御者啊,谁得到了它,还会去作战呢?

5.26.2

अकुर्वतश्चेत्पुरुषस्य सञ्जय ।
सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्।
न कर्म कुर्याद्विदितं ममैत-
दन्यत्र युद्धाद्बहु यल्लघीयः ॥ ५.२६.२ ॥

珊闍耶啊,若不作为之人的意愿仅凭心念便能成就,他所愿的一切皆得成就,那么我所知道的是:不应做任何事业。除了战争之外,还有许多更轻省的事。

5.26.3

कुतो युद्धं जातु नरोऽवगच्छे-
त्को देवशप्तो हि वृणीत युद्धम्।
सुखैषिणः कर्म कुर्वन्ति पार्था ।
धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ ५.२६.३ ॥

人怎会真正明白战争?谁被天神诅咒,会选择战争?求乐的普利塔之子们所行之事,不偏离法,且有益于世界。

5.26.4

धर्मोदयं सुखमाशंसमानाः ।
कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं ।
कर्मारभेद्यच्च धर्मानपेतम् ॥ ५.२६.४ ॥

那些期望法的兴起与幸福的人,实知作为艰难手段的行为即是痛苦。欲得幸福、欲胜痛苦者,应当开始一种不违背法的行为。

5.26.5

क इन्द्रियाणां प्रीतिवशानुरानां ।
कर्माभिज्ञः स्वशरीरं दुनोति।
यया प्रमुक्तो न करोति दुःखं ।
तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥ ५.२६.५ ॥

追随感官喜悦之人,即使通晓行动,也折磨自己的身体。应当舍弃那种渴求,摆脱它便不会悲伤,它与一切法相背离。

5.26.6

सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ ५.२६.६ ॥

与我们一同,在国王持国之下。

5.26.7

कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ॥ ५.२६.७ ॥

那么他怎能把我们从库鲁人中驱逐出去?

5.26.8

अत्रैव स्यादवुधस्यैव कामः ।
प्रायः शरीरे हृदयं दुनोति ॥ ५.२६.८ ॥

此处正是愚人的欲望;它常常折磨身体中的心。

5.26.9

स्वयं राजा विषमस्थः परेषु ।
सामर्थ्यमन्विच्छति तन्न साधु।
यथाऽऽत्मनः पश्यति वृत्तमेव ।
तथा परेतामपि सोऽभ्युपैति ॥ ५.२६.९ ॥

国王若自己对待他人处于不义之位,便去追求力量,这是不善的。他如何看待自己的行为,他人的行为也就如何回应他。

5.26.10

आसन्नमग्निं तु निदाघकाले ।
गम्भीरकक्षे गहने विसृज्य।
यथा विवृद्धं वायुवशेन शोचे-
त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ ५.२६.१० ॥

好比夏日炎热时,在深邃密林之中,有人弃下近旁的火,待它借风势蔓延壮大时却为之悲叹;同样,寻求安稳之人在寒季过去后也是徒然悲叹。

5.26.11

प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा ।
लालप्यते सञ्जय कस्य हेतोः ।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं ।
पुत्रं मन्दं मूढममन्त्रिणं तु ॥ ५.२६.११ ॥

añjaya,如今已获得王权的国王持国为何悲叹?他紧抱着那心怀恶念、乐于邪曲、愚钝迷惑而又无人谋划的儿子,为何哭泣?

5.26.12

अनाप्तवच्चाप्ततमस्य वाचः ।
सुयोधनो विदुरस्यावमत्य।
सुतस्य राजा धृतराष्ट्रः प्रियैषी ।
संबुध्यमानो विशतेऽधर्ममेव ॥ ५.२६.१२ ॥

国王持国一心想让儿子高兴,轻视苏约陀那,把最可信赖的维都罗之言当作不可信的,即使受到劝告,仍然走向非法。

5.26.13

मेधाविनं ह्यर्थकामं कुरूणां ।
बहुश्रुतं वाग्मिनं शीलवन्तम् ।
स तं राजा धृतराष्ट्रः कुरुभ्यो ।
न सस्मार विदुरं पुत्रकाम्यात् ॥ ५.२६.१३ ॥

国王持国因渴望儿子,竟在诸库卢面前也不曾想起维都罗——那智慧、愿库卢族安好、博学、善辩、品行端正之人。

5.26.14

मानघ्नस्यासौ मानकामस्य चेर्षोः ।
संरम्भिणश्चार्थधर्मातिगस्य।
दुर्भाषिणो मन्युवशानुगस्य ।
कामात्मनो दौर्हृदैर्भावितस्य ॥ ५.२६.१४ ॥

他毁坏名誉,却又渴望名誉;他嫉妒、暴躁,越过利益与法,出言恶毒,受愤怒驱使,以欲望为自我,被恶念所左右。

5.26.15

अनेयस्याश्रेयसो दीर्घमन्यो-
र्मित्रद्रुहः सञ्जय पापबुद्धेः।
सुतस्य राजा धृतराष्ट्रः प्रियैषी ।
प्रपश्यमानः प्राजहाद्धर्मकामौ ॥ ५.२६.१५ ॥

桑闍耶啊,国王持国为了讨好那个不受约束、不求善好、long 怀怒气、背叛朋友、心怀恶念的儿子,明明看得清楚,却舍弃了法与求善之愿。

5.26.16

तदैव मे सञ्जय दीव्यतोऽभू-
न्मतिः कुरूणामागतः स्यादभावः ।
काव्यां वाचं विदुरो भाषमाणो ।
न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥ ५.२६.१६ ॥

桑闍耶啊,就在我赌博之时,俱卢族便生起了毁灭的念头;毗杜罗说出明智之言,却未能从持国之子那里得到称赞。

5.26.17

क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं ।
कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम।
यावत्प्रज्ञामन्ववर्तन्त तस्य ।
तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ ५.२६.१७ ॥

御者啊,当俱卢族不听从毗杜罗的劝告时,他们便陷入困境;只要依循他的智慧,他们的国家就繁荣增长。

5.26.18

तदर्थलुब्धस्य निबोध मेऽद्य ।
ये मन्त्रिणो धार्तराष्ट्रस्य सूत।
दुःशासनः शकुनिः सूतपुत्रो ।
गावल्गणे पश्य संमोहमस्य ॥ ५.२६.१८ ॥

御者啊,现在听我说:那贪求财富的持国之子的谋臣是谁——难降、沙恭尼和御者之子(迦尔纳);嬉瓦尔迦尼啊,请看他的迷惑。

5.26.19

सोऽहं न पश्यामि परीक्षमाणः ।
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः ।
प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ ५.२६.१९ ॥

我反复思量,却看不出库鲁族与斯列加耶族如何能得安宁,因为持国王从他人手中夺得了权柄,而远见卓识的维杜罗已被放逐。

5.26.20

आशंसते वै धृतराष्ट्रः सपुत्रो ।
महाराज्यमसपत्नं पृथिव्याम्।
तस्मिञ्शमः केवलं नोपलभ्यः ।
सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥ ५.२६.२० ॥

持国王与其诸子渴望在大地上拥有无敌的大王国;他身上唯独找不到安宁,他把属于我的一切财富都视为自己的。

5.26.21

यत्तत्कर्णो मन्यते पारणीयं ।
युद्धे गृहीतायुधमर्जुनं वै ।
आसंश्च युद्धानि पुरा महान्ति ।
कथं कर्णो नाभवद्द्वीप एषाम् ॥ ५.२६.२१ ॥

迦尔纳以为可以战胜持弓而战的阿周那,然而他们之间先前曾有过大战;迦尔纳为何未曾成为他们的庇护呢?

5.26.22

कर्णश्च जानाति सुयोधनश्च ।
द्रोणश्च जानाति पितामहश्च।
अन्ये च ये कुग्वस्तत्र सन्ति ।
यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥ ५.२६.२२ ॥

迦尔纳知道,难敌知道,德罗纳知道,祖父也知道;在场的其他人也都知道:除了阿周那,再没有别的弓箭手。

5.26.23

जानन्त्येतन्कुरवः सर्व एव ।
ये चाप्यन्ये भूमिपालाः समेताः।
दुर्योधने राज्यमिहाभवद्यथा ।
अरिन्दमे फाल्गुनेऽविद्यमाने ॥ ५.२६.२३ ॥

所有的库鲁人都知道此事,聚集于此的其他诸王也知道:一旦制敌者法尔古那(阿周那)不在,这里的王国便将落入难敌之手。

5.26.24

तेनानुबन्धं मन्यते धार्तराष्ट्रः ।
शक्यं हर्तुं पाण्डवानां ममत्वम् ।
किरीटिना तालमात्रायुधेन ।
तद्वेदिना संयुगं तत्र गत्वा ॥ ५.२६.२४ ॥

因此持国之子以为可以夺取般度之子的所有权;然而手持如棕榈般大兵器的冠者(阿周那),知晓此事,前往那里作战。

5.26.25

गाण्डीवविष्फारितशब्दमात्रं ।
श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते।
क्रुद्धं न चेदीक्षते भीमसेनं ।
सुयोधनो मन्यते सिद्धमर्थम् ॥ ५.२६.२५ ॥

仅听到甘狄拔神弓被拉开的声音,持国之子便会死去;他们甚至不敢看愤怒的毗摩色那,而难敌仍以为自己的目的已经达到。

5.26.26

इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु-
मैश्वर्यं नो जीवति भीमसेने।
धनञ्जये नकुले चैव सूत ।
तथा वीरे सहदेवेऽसहिष्णौ ॥ ५.२६.२६ ॥

亲爱的,只要毗摩色那尚在,即便因陀罗也不敢夺走我们的权力;还有阿周那、无种、英雄偕天,他们都不能容忍此事。

5.26.27

सचेदेतां प्रतिपद्येत बुद्धिं ।
वृद्धो राजा सह पुत्रेण सूत।
एवं रणे पाण्डवकोपदग्धा ।
न नश्येयुः सञ्जय धार्तराष्ट्राः ॥ ५.२६.२७ ॥

若是年老的国王与其子采纳此意,桑阇耶啊,持国之子便不会在战中被般度之子的怒火焚烧而如此毁灭了。

5.26.28

जानामि त्वं क्लेशमस्मासु वृत्तं ।
त्वां पूजयन्मञ्जयाहं क्षमेयम्।
वच्चास्माकं कौरवैर्भृतपूर्वं ।
या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत् ॥ ५.२६.२८ ॥

桑贾耶啊,我知道落在我们身上的苦难。出于对你的尊敬,我可以宽恕考拉瓦人从前对待我们的方式,以及那时我们对持国之子的态度。

5.26.29

अद्यापि सा तत्र तथैव वर्ततां ।
यान्ति गमिष्यामि यथा न्वमात्थ ।
द्वन्द्राप्रव्ये भवतु ममैव राज्यं ।
सूयोधनो यच्छतु भाग्नाग्र्यः ॥ ५.२६.२९ ॥

愿今日那里依然如此。如你所言,我将前往。愿这不会在赌骰中失去的王国只属于我,愿最卓越的苏约陀那给出他的份额。