摩诃婆罗多 · 章 5.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.28.1
असंशयं सञ्जय सत्यमेत-
द्धर्मो वरः कर्मणां यत्त्वमात्थ ।
ज्ञात्वा तु मां सञ्जय गर्हयेस्त्वं ।
यदि धर्मं यद्यधर्मं चरामि ॥ ५.२८.१ ॥
毫无疑问,桑阇耶,你所说的是真实的:法是诸业中最好的。然而知道这一点之后,桑阇耶,无论我行法还是行非法,你都可以责备我。
5.28.2
यत्राधर्मो धर्मरूपाणि धत्ते ।
धर्मः कृत्स्नो दृश्यतोऽधर्मरूपः।
बिभ्रद्धर्मो धर्मरूपं तथा च ।
विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या ॥ ५.२८.२ ॥
当非法采取法的形态,而全部的法显现为非法的形态,法也同样具有法的形态时,智者以智慧清楚地看见这一点。
5.28.3
एवं तथैवापदि लिङ्गमेत-
द्धर्माधर्मौ नित्यवृत्ती भजेताम्।
आद्यं लिङ्गं यस्य तस्य प्रमाण-
मापद्धर्मं सञ्जय तं निबोध ॥ ५.२८.३ ॥
同样,在灾难中,这便是标志:法与非法各自保持其恒常的行为。对于第一个标志显现的人,灾难中的法便是证明;桑阇耶,你要明白这一点。
5.28.4
लुप्तायां तु प्रकृतौ येन कर्म ।
निष्पादयेत्तत्परीप्सेद्विहीनः।
प्रकृतिस्थश्चापदि वर्तमान ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ ॥ ५.२८.४ ॥
然而,当正常之道已失,缺乏者应寻求能借以完成职责的途径;而安于本性却在灾难中行事的人,桑阇耶,这两者都应受责备。
5.28.5
अविनाशमिच्छतां ब्राह्मणानां ।
प्रायश्चित्तं विहितं यद्विधात्रा।
संपश्येथाः कर्मसु वर्तमानान् ।
विकर्मस्थान्सञ्जय गर्हयेस्त्वम् ॥ ५.२८.५ ॥
你要看清那些从事业者中,为求不灭的婆罗门所定下的赎罪之法。桑遮耶啊,你应谴责那些处于恶行之中的人。
5.28.6
मनीषिणां सत्त्विच्छेदनाय ।
विधियते सत्सु वृत्तिः सदैव।
अब्राह्मणाः सन्ति तु ये न वैद्याः ।
सर्वोत्सङ्गं साधु मन्येत तेभ्यः ॥ ५.२८.६ ॥
对于智者,在善人之中谋生总是被规定的,以免使生存之本断绝。对于那些非婆罗门、非有学识者,应当好好地视其全部所有为善而施与。
5.28.7
तदध्वानः पितरो ये च पूर्वे ।
पितामहा ये च तेभ्यः परेऽन्ये।
यज्ञैषिणो ये च हि कर्म कुर्यु-
र्नान्यं ततो नास्तिकोऽस्मीति मन्ये ॥ ५.२८.७ ॥
那些行于其道的祖先,先前的祖父,以及他们之后的其他人,还有求祭而行仪轨的人——我不认为有别的人;因此我认为自己并非无信者。
5.28.8
यत्किंचनेदं वित्तमस्यां पृथिव्यां ।
यद्देवानां त्रिदशानां परं यत्।
प्राजापत्यं त्रिदिवं ब्रह्मलोकं ।
नाधर्मतः सञ्जय कामयेयम् ॥ ५.२८.८ ॥
此地上所有的财富,诸天与三十三天的至高(荣耀),生主之界,三界天,梵天之界——桑遮耶啊,我不会以不义去求取这些。
5.28.9
धर्मेश्वरः कुशलो नीतिमांश्चा-
प्युपासिता ब्राह्मणानां मनीषी।
नानाविधांश्चैव महाबलांश्च ।
राजन्यभोजाननुशास्ति कृष्णः ॥ ५.२८.९ ॥
克里希那是法的主宰,精通治国之道,受婆罗门敬奉,又极有智慧,统治着各种大力的刹帝利与婆阇人。
5.28.10
यदि ह्यहं विसृजत्साम गर्ह्यो ।
नियुध्यमानो यदि जह्यां स्वधर्मम् ।
महायशाः केशवस्तद्ब्रवीतु ।
वासुदेवस्तूभयोरर्थकामः ॥ ५.२८.१० ॥
若我舍弃和解而变得可受谴责,或在战斗中舍弃自己的本分,请令荣耀的凯沙婆说出来;瓦苏提婆希望双方都得利益。
5.28.11
शैनेयोऽयं चेदयश्चान्धकाश्च ।
वार्ष्णेयभोजाः कुकुराः सृञ्जयाश्च ।
उपासीना वासुदेवस्य बुद्धिं ।
निगृह्य शत्रून्सुहृदो नन्दयन्ति ॥ ५.२८.११ ॥
若这位西尼之子、阿耶人、安陀迦人、婆利尼-婆阇人、俱卢人与斯林遮耶人,依从婆苏提婆的谋略,制服敌人而令朋友欢喜。
5.28.12
वृष्ण्यन्धका ह्युग्रसेनादयो वै ।
कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः ।
मनस्विनः सत्यपरायणाश्च ।
महाबला यादवा भोगवन्तः ॥ ५.२८.१२ ॥
以乌格拉塞那等为首的婆利尼与安陀迦,皆由克里希那引导,都如因陀罗一般;心志高远、恪守真实、大力的耶达瓦人,极为富足。
5.28.13
काश्यो बभ्रुः श्रियमुत्तमां गतो ।
लब्ध्वा कृष्णं भ्रातरमीशितारम् ।
यस्मै कामान्वर्षति वासुदेवो ।
ग्रीष्मात्यये मेघ इव प्रजाऽभ्यः ॥ ५.२८.१३ ॥
迦尸的般睢获得克里希那作为兄长和主君,得到了至上的富足;瓦苏提婆为他降下所愿,如同夏末的云雨降于众生。
5.28.14
ईदृशोऽयं केशवस्तात विद्वान् ।
विद्धि ह्येनं कर्मणां निश्चयज्ञम्।
प्रियश्च नः साधुतमश्च कृष्णो ।
नातिक्रामे वचनं केशवस्य ॥ ५.२८.१४ ॥
亲爱的朋友,这位keśava确是如此智者。应知他通晓行为的必然。黑天对我们亲近且最为善良;我不会违背keśava的话。