Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.29.1

अविनाशं सञ्जय पाण्डवाना-
मिच्छाम्यहं भूतिमेषां प्रियं च।
तथा राज्ञो धृतराष्ट्रस्य सूत ।
समाशंसे बहुपुत्रस्य वृद्धिम् ॥ ५.२९.१ ॥

啊,桑闍耶,我愿般度五子不遭毁灭,愿他们繁荣幸福;同样,我也希望多子之王持国的兴盛。

5.29.2

कामो हि मे सञ्जय नित्यमेव ।
नान्यद्ब्रूयां तान्प्रति शाम्यतेति।
राज्ञश्च हि प्रियमेतच्छृणोमि ।
मन्ये चैतत्पाण्डवानां समक्षम् ॥ ५.२९.२ ॥

啊,桑闍耶,这始终是我的心愿;我对他们所说的,只有'愿和平'。我听说这也是国王所喜爱的,我想在般度五子面前,这也是正确的。

5.29.3

सुदुष्करस्तत्र शमो हि नूनं ।
प्रदर्शितः सञ्जय पाण्डवेन।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः ।
कस्मादेषां कलहो नावमूर्च्छेत् ॥ ५.२९.३ ॥

啊,桑闍耶,在那里求和确实极为艰难;般度之子必定已经表明了这一点。持国与其诸子既然贪婪,他们之间的争斗为何不能平息?

5.29.4

न त्वं धर्मं विचरं सञ्जयेह ।
मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य ।
उत्साहिनः पूरयतः स्वकर्म ॥ ५.२९.४ ॥

啊,桑闍耶,你在此并不思量法;这一点我从你和坚战那里都知道。那么,啊,桑闍耶,你为何这样议论那位热心履行自身本分的般度之子?

5.29.5

यथाख्यातमावमतः कुटुम्बे ।
पुरा कस्मान्साधुविलोपमात्थ।
अस्मिन्विधौ वर्तमाने यथाव-
दुच्चावचा मतयो ब्राह्मणानाम् ॥ ५.२९.५ ॥

正如所说,你在家族中受人轻视,为何先前却说善人的毁灭?当此制度存在之时,婆罗门的意见自然有高有低,各不相同。

5.29.6

कर्मणाऽऽहुः सिद्धिमेके परत्र ।
हिन्वा कर्म विद्यया सिद्धिमेके।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये-
द्विद्वानपीह विहितं ब्राह्मणानाम् ॥ ५.२९.६ ॥

有人说,来世的成就由行动而来;也有人舍弃行动,以智慧而成就。然而即使智者在此,若不食用可食可享的食物,也不会满足;这是为婆罗门所规定的。

5.29.7

या वै विद्याः साधयन्तीह कर्म ।
तासां फलं विद्यते नेतरासाम्।
तत्रेह वै दृष्टफलं तु कर्म ।
पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥ ५.२९.७ ॥

凡此处由行动所成就的学问,才有其果;其他的则没有。此处行动之果是显而易见的,正如被渴所苦之人饮水后便得平息。

5.29.8

सोऽयं विधिर्विहितः कर्मणैव ।
संवर्तते सञ्जय तत्र कर्म।
तत्र योऽन्यत्कर्मणः साधु मन्ये-
न्मोघं तस्यालपितं दुर्बलस्य ॥ ५.२९.८ ॥

此规则唯由行动所定,桑阳,行动便在其中展开。那个软弱者以为行动之外另有更好的,他的言论是徒劳的。

5.29.9

कर्मणाऽमी भान्ति देवाः परत्र ।
कर्मणैवेह प्लवते मातरिश्वा।
अहोरात्रे विदधत्कर्मणैव ।
अतन्द्रितो नित्यमुदेति सूर्यः ॥ ५.२९.९ ॥

这些神祇凭借行动在来世放光;风亦凭借行动在此吹拂。仅凭行动造成昼夜,不知疲倦的太阳永远升起。

5.29.10

मासार्धमासानथ नक्षत्रयोगा-
नतन्द्रितश्चन्द्रमाश्चाभ्युपैति।
अतन्द्रितो दहते जातवेदाः ।
समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ ५.२९.१० ॥

不知疲倦的月亮接近月、半月以及星宿的会合。不知疲倦的遍知之火燃烧着,被点燃并为众生而作业。

5.29.11

अतन्द्रिता भारमिमं महान्तं ।
बिभर्ति देवी पृथिवी वलेन।
अतन्द्रिताः शीघ्रसपो वहन्ति ।
सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥ ५.२९.११ ॥

大地女神以其力量毫不疲倦地承载这巨大的重负;迅疾不息的河流奔流,滋养一切众生。

5.29.12

अतन्द्रितो वर्षति भूरितेजाः ।
सन्नादयन्नन्तरिक्षं दिशश्च।
अतन्द्रितो ब्रह्मचर्यं चचार ।
श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ ५.२९.१२ ॥

他毫不疲倦,光辉无比,降下甘雨,以雷声充满天空与四方;他不知疲倦地修持梵行,渴望在诸神中居于首位——他便是摧毁伐罗的因陀罗。

5.29.13

हित्वा सुखं मनसश्च प्रियाणि ।
तेन शक्रः कर्मणा श्रैष्ठ्यमाप।
सत्यं धर्मं पालयन्नप्रमत्तो ।
दमं तितिक्षां समतां प्रियं च ॥ ५.२९.१३ ॥

舍弃心中的欢乐与所爱之物,凭借此行,帝释(因陀罗)获得了至上之位;持守真理与法,保持警觉,修习克制、忍耐、平等与慈爱。

5.29.14

एतानि सर्वाण्युपसेवमानो ।
यो देवराज्यं मघवान्प्राप मुख्यम्।
बृहस्पतिर्ब्रह्मचर्यं चचार ।
समीहितः संशिमात्मा यथावत् ॥ ५.२९.१४ ॥

因践行这一切,摩伽婆(因陀罗)获得了诸神的主要王位;brhaspati 亦修持梵行,意志坚定,心性善加约束,如法行持。

5.29.15

हित्वा सुख प्रतिरुध्येन्द्रियाणि ।
तेन देवानामगमद्गौरवं सः।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति ।
रुद्रादित्या वसवोऽथापि विश्वे ॥ ५.२९.१५ ॥

舍弃欢乐、制伏诸根,凭借此行他获得了诸神的尊荣;同样,星宿凭其业行在彼岸界放光,楼陀罗、阿提亚、婆苏以及众人神亦是如此。

5.29.16

यमो राजा वैश्रवणः कुबेरो ।
गन्धर्वयक्षाप्सरसश्च सूत।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च ।
निपेवमाणा ऋषयोऽमुत्र भान्ति ॥ ५.२९.१६ ॥

阎摩王、毗舍罗婆那俱毗罗、乾闼婆、夜叉与阿普萨拉斯,以及,御者啊,专注于梵智、梵行与祭仪的仙人,在彼世闪耀。

5.29.17

जानन्निमं सर्वलोकस्य धर्मं ।
विप्रेन्द्राणां क्षत्रियाणां विशां च।
स कस्मात्त्वं जानतां ज्ञानवान्सन् ।
व्यायच्छसेक सञ्जय कौरवार्थे ॥ ५.२९.१७ ॥

你明知众世界的此法,明知婆罗门之最、刹帝利与吠舍之法,身为智者,且处于智者之中,哦,桑阁耶,你为何为俱卢族而努力?

5.29.18

आम्नायेषु नित्यसंयोगमस्य ।
तथाऽश्वमेधे राजसूये च विद्धि।
संयुज्यते धनुपा वर्मणा च ।
हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥ ५.२९.१८ ॥

在吠陀传统中它有恒常的联系;也要知道,在马祭与王灌顶中同样如此。它又与弓、铠甲、象、马等,以及战车与兵器相连。

5.29.19

ते चेदिमे कौरवाणाम्रुपाय-
मवगच्छेयुवधेनैव पार्थाः।
धर्मत्राणं पुण्यमेषां कृतं स्या-
दार्ये वृत्ते भीमसेनं निगृह्य ॥ ५.२९.१९ ॥

若这些普利塔之子只能以杀戮来理解俱卢族的手段,那对他们而言,这将是护持法的功德之事——在高贵的行为中制止毗摩先那。

5.29.20

ते चेत्पित्र्ये कर्मणि वर्तमाना ।
आपद्येरन्दिष्टवशेन मृत्युम्।
यथाशक्त्यापूरयन्तः स्वकर्म ।
तदप्येषां निधनं स्यात्प्रशस्तम् ॥ ५.२९.२० ॥

若他们从事祖先之祭,因天命而遭遇死亡,并依其力量完成自己的本分,那么他们的死亡也是值得称赞的。

5.29.21

उताहो त्वं मन्यसे शाम्यमेव ।
राज्ञां युद्धे वर्तते धर्मतन्त्रम्।
अयुद्धे वा वर्तते धर्मतन्त्रं ।
तथैव ते वाचमिमां श्रृणोमि ॥ ५.२९.२१ ॥

还是你认为只有和平才是好的?对于国王而言,即使在战争中,法的秩序仍然存在;即使没有战争,法的秩序也依然存在。我正这样听着你的话。

5.29.22

चातुर्वर्ण्यस्य प्रथमं संविभाग-
मवेक्ष्य त्वं सञ्जय स्वं च कर्म।
निशम्याथो पाण्डवानां च कर्म ।
प्रशंस वा निन्द वा या मतिस्ते ॥ ५.२९.२२ ॥

桑闪耶啊,考虑了四种姓的首要区分和你自己的本分,又听了般度之子的所作所为,你依你的看法加以赞扬或谴责吧。

5.29.23

अधीयीत ब्राह्मणो वै यजेत ।
दद्यादीयात्तीर्थमुख्यानि चैव।
अध्याप्रयेद्याजयेच्चापि याज्यान् ।
प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥ ५.२९.२३ ॥

婆罗门应当学习、祭祀;应当布施,前往主要的圣地。他应当教授,使他人祭祀,并接受规定的供奉。

5.29.24

अधीयीत क्षत्रियोऽथो यजेत ।
दद्याद्धनं न तु याचेत किंचित्।
न याजयेन्न तु चाध्यापयीत ।
एवं स्मृतः क्षत्रधर्मः पुराणः ॥ ५.२९.२४ ॥

刹帝利应当学习、祭祀;应当布施财物,但不应乞求任何东西。他不应使他人祭祀,也不应教授。这便是古老的刹帝利法所宣说的。

5.29.25

तथा राजन्यो रक्षणं वै प्रजानां ।
कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य ।
दारान्कृवा पुण्यकृदावसेद्गृहान् ॥ ५.२९.२५ ॥

同样,国王保护臣民,依法谨慎,布施,以祭祀供奉,学习一切吠陀,娶妻,行功德,应居住于家中。

5.29.26

स धर्मात्मा धर्ममधीत्य पुण्यं ।
यदृच्छया व्रजति ब्रह्मलोकम्।
वैश्योऽधीत्य कृषिगोरक्षपण्यै-
र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥ ५.२९.२६ ॥

那位正直之人学习法,凭功德随意前往梵天世界。吠舍学习后,应以农耕、牧牛和贸易积聚财富,并谨慎守护。

5.29.27

देवं स्मृतः शूद्रधर्मः पुराणः ॥ ५.२९.२७ ॥

侍奉诸神被称为首陀罗古老的法。

5.29.28

एतान्राजा पालयन्नप्रमत्तो ।
नियोजयन्सर्ववर्णान्स्वधर्मे।
अकामात्मा समवृत्तिः प्रजासु ।
नाधार्मिकाननुरुध्येत कामात् ॥ ५.२९.२८ ॥

国王应谨慎保护这些种姓,使各种姓各守其法,心无贪欲,对臣民一视同仁;不应因贪欲而迎合不法之人。

5.29.29

श्रेयांस्तस्माद्यदि विद्येत कश्चि-
दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां ।
न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥ ५.२९.२९ ॥

因此,若有一位声名卓著、具备一切法的人,他便更为优越。国王应寻访他,教导臣民;若不明此理,那便是他的过失。

5.29.30

उत्पादितं वर्म शस्त्रं धनुश्च ॥ ५.२९.३० ॥

盔甲、兵器与弓被制造出来。

5.29.31

तत्र पुण्यं दस्युवधेन लभ्यते ।
सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः ।
प्रादुर्भूतः सञ्जय साधु तन्न ॥ ५.२९.३१ ॥

在那里,诛杀盗贼可以获得功德。这严重的过失出自不知法、不明法的俱卢族人。桑迦耶,这并不好。

5.29.32

तत्र राजा धृतराष्ट्रः सपुत्रो ।
धर्म्यं हरेत्पाण्डवानामकस्मात्।
नावेक्षन्ते राजधर्मं पुराणं ।
तदन्वयाः कुरवः सर्व एव ॥ ५.२९.३२ ॥

在那里,国王持国与他的儿子们会突然夺走般度之子的正当份额。这一族的所有俱卢人都不顾古老的王道。

5.29.33

स्तेनो हरेद्यत्र धनं ह्यदृष्टः ।
प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ ।
किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥ ५.२९.३३ ॥

盗贼暗中窃取财物,或者公然以强力夺取,桑迦耶,这两者都应受谴责。在持国之子身上,二者有何区别?

5.29.34

सोऽयं लोभान्मन्यते धर्ममेतं ।
यमिच्छति क्रोधवशानुगामी।
भागः पुनः पाण्डवानां निविष्ट-
स्तं नः कस्मादाददीरन्परे वै ॥ ५.२९.३४ ॥

他出于贪婪,把自己所欲之物当作法,随着愤怒的驱使而行。般度之子的份额已经再次确定;那份额为何要由别人从我们这里夺去?

5.29.35

अस्मिन्पदे युध्यतां नो वधोऽपि ।
श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्।
एतान्धर्मान्कौरवाणां पुराणा-
नाचक्षीथाः सञ्जय राजमध्ये ॥ ५.२९.३५ ॥

在这种局面下,对我们这些作战的人而言,即便战死也值得称颂,胜过祖先的败绩。桑迦耶,请在诸王之中讲述俱卢族这些古老的法。

5.29.36

एते मदान्मृत्युवशाभिपन्नाः ।
समानीता धार्तराष्ट्रेण मूढाः।
इदं पुनः कर्म पापीय एव ।
सभामध्ये पश्य वत्तं कुरूणाम् ॥ ५.२९.३६ ॥

这些因骄狂而落入死亡掌控的愚人,被持国之子带到此处。而这一行为最为罪恶。请看众俱卢在会堂中央的所作所为。

5.29.37

प्रियं भार्यां द्रौपदीं पाण्डवानां ।
यशस्विनीं शीलवृत्तोपपन्नाम्।
यदुपैक्षन्त कुरवो भीष्ममुख्याः ।
कामानिगेनोपरुद्धां व्रजन्तीम् ॥ ५.२९.३७ ॥

当般度五子心爱的妻子、光荣的德罗波蒂——品行端正、德操兼备——被一个受欲望驱使之人抓住拖拽时,以毗湿摩为首的俱卢人却冷漠地袖手旁观。

5.29.38

तां चेत्तदा ते सकुमारवृद्धा ।
अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत् ।
पुत्राणां च कृतमस्याभविष्यत् ॥ ५.२९.३८ ॥

若当时俱卢人,无论老少,聚集起来阻止她,持国便会做我所喜欢的事,而这对他的儿子们也会有好处。

5.29.39

दुःशासनः प्रतिलोम्यान्निनाय ।
सभामध्ये श्वशुराणां च कृष्णाम्।
सा तत्र नीता करुणं व्यपेक्ष्य ।
नान्यं क्षत्तुर्नाथमवाप किंचित् ॥ ५.२९.३९ ॥

难敌之弟兴主不义地将她拖到会堂中央,在公公们面前拉扯克利希那。她在那里悲切地四处张望,除了御者之子维杜罗,竟找不到任何保护者。

5.29.40

कार्पण्यादेव सहितास्तत्र भूपा ।
नाशक्नुवन्प्रतिवक्तुं सभायाम्।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो ।
धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥ ५.२९.४० ॥

只因怯懦,聚集在那里的国王们无法在朝会上作答。唯有管家(毗睿多罗)说出合乎法义的话,以法心回答了那个愚昧之人。

5.29.41

अबुद्ध्वा त्वं धर्ममेतं सभाया-
अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं ।
सुदुष्करं तत्र सभां समेत्य ॥ ५.२९.४१ ॥

你不懂这个朝会的法,却想教导般度之子。然而黑公主进入朝会,做了这件纯洁而极为艰难的事。

5.29.42

येन कृच्छ्रात्पाण्डवानुज्जहार ।
तथाऽऽत्मानं नौरिव सागरौघात्।
यत्राब्रवीत्सूतपुत्रः सभायां ।
कृष्णां स्थितां श्वशुराणां समीपे ॥ ५.२९.४२ ॥

她以此行为救出了般度之子于危难,又如船只从大海的波涛中保全自身一般,也保全了自己。就在那里,御者之子在朝会中对站在公公们身旁的黑公主说话。

5.29.43

न ते गतिर्विद्यते याज्ञसेनि ।
प्रपद्येथा धार्तराष्ट्रस्य वेश्म।
पराजितास्ते पतयो न सन्ति ।
पतिं चान्यं भामिनि त्वं वृणीष्व ॥ ५.२९.४३ ॥

你没有庇护之所,耶阇娑那之女啊!去往持国之子的宫中吧。你的丈夫们已被击败,已不复存在。啊,光彩照人的女子,另选一个丈夫吧。

5.29.44

यो बीभत्सोर्हृदये प्रोत आसी-
दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः ।
प्रतिष्ठितो हृदये फाल्गुनस्य ॥ ५.२९.४४ ॥

那支刺入毗婆咧苏之心、切割骨骼、击中要害、极为可怖的言辞之箭——自耳而来、锋利炽热——已停留在法尔古那的心中。

5.29.45

कृष्णाजिनानि परिधित्समानान् ।
दुःशासनः कटुकान्यभ्यभाषत्।
एते सर्वे षण्डतिला विनष्टाः ।
क्षयं गता नरकं दीर्घकालम् ॥ ५.२९.४५ ॥

对身披黑羚羊皮的人,难敌之弟难降(Duḥśāsana)说了刻薄的话:“这些阉人般的芝麻全都毁灭了,走向灭亡,长久地堕入地狱。”

5.29.46

द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥ ५.२९.४६ ॥

赌局中,如前所述,那些可受谴责的话语便这样说出了。

5.29.47

स्वयं त्वहं प्रार्थये तत्र गन्तुं ।
समाधातुं कार्यमेतद्विपन्नम् ।
जानासि त्वं धार्तराष्ट्रस्य मोहं ।
दुरात्मनः पापवशानुगस्य ॥ ५.२९.४७ ॥

我自己愿意前往那里,以挽回这已坏的事务。你了解持国之子的迷妄——那个心术不正、受罪孽驱使之人的迷妄。

5.29.48

अहापयित्वा यदि पाण्डवार्थं ।
शमं कुरूणामपि चेच्छकेयम्।
पुण्यं च मे स्याच्चरितं महोदयं ।
मुच्येरंश्च कुरवो मृत्युपाशात् ॥ ५.२९.४८ ॥

若我不违背般度之子的事业,还能在俱卢之间建立和平,那便是我的功德,将带来巨大的善果,俱卢族也将从死亡的绳索中解脱。

5.29.49

अपि मे वाचं भाषमाणस्य काव्यां ।
धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं ।
मां च प्राप्तं कुरवः पूजयेयुः ॥ ५.२९.४९ ॥

若我说出这番智慧之言,如法之园,充满意义而不伤害,持国之子们会在我面前倾听吗?我到来时,俱卢们会尊敬我吗?

5.29.50

अतोऽन्यथा रथिना फाल्गुनेन ।
भीमेन चैवाहवदंशितेन।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि ।
प्रदह्यमानान्कर्मणा स्वेन पापान् ॥ ५.२९.५० ॥

否则,你当知道,持国的罪恶之子们因力量的傲慢而膨胀,正因自己的行为而焚烧,被车夫法尔古那与备战的毗摩所击。

5.29.51

पराजितान्पाण्डवेयांस्तु वाचो ।
रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो ।
दुर्योधनं स्मारयिता हि काले ॥ ५.२९.५१ ॥

关于被击败的般度之子,持国之子说出凶狠而粗暴的话语;但手持金刚杵、保持警觉的毗摩萨那,将在适当的时候提醒难敌。

5.29.52

सुयोधनो मन्युमयो महाद्रुमः ।
स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे ।
मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ५.२९.५२ ॥

难敌是由愤怒构成的一棵大树;迦尔纳是它的树干,沙恭尼是它的枝条,难降是它繁盛的花果,而无智的国王持国则是它的根。

5.29.53

युधिष्ठिरो धर्ममयो महाद्रुमः ।
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे ।
मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ ५.२९.५३ ॥

坚战是由法构成的大树。阿周那是其干,怖军是其枝。摩德里的两子是其繁盛的花与果。而其根乃是我、梵与婆罗门。

5.29.54

वनं राजा धृतराष्ट्रः सपुत्रः ।
सिंहा वने सञ्जय पाण्डवेयाः।
सिंहाभिगुप्तं न वनं विनश्येत् ।
सिंहो न नश्येत वनाभिगुप्तः ॥ ५.२९.५४ ॥

国王持国与其诸子是一片森林。桑闍耶啊,般度之子是那森林中的狮子。受狮子守护的森林不会毁灭,受森林守护的狮子也不会毁灭。

5.29.55

निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम् ।
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥ ५.२९.५५ ॥

没有森林的狮子会被杀死,没有狮子的森林会被毁灭。因此,狮子应当守护森林,森林也应当保护狮子。

5.29.56

वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः ।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना ॥ ५.२९.५६ ॥

国王持国是森林,而在那森林中般度五子是老虎。不要连同老虎一起砍伐森林;没有森林,老虎将会灭亡。

5.29.57

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥ ५.२९.५७ ॥

没有森林的老虎会被杀死,没有老虎的森林会被砍伐。因此,老虎应当守护森林,我们也应当保护老虎。

5.29.58

लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५.२९.५८ ॥

桑闍耶啊,持国的诸子如同藤蔓,般度之子如同娑罗树。藤蔓若不依附大树,绝不会生长。

5.29.59

स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ ५.२९.५९ ॥

能制服敌人的般度之子,既准备侍奉,也准备作战。持国所应尽的职责,就让那位人主去做吧。

5.29.60

स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ५.२९.६० ॥

心胸广大、奉行法道的般度五子安于和平,同时也是有能力的战士。博学者啊,不要照实地说出来。