Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.3.1

यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते ।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते ॥ ५.३.१ ॥

人之自我如何,其言便如何;你的内在自我如何,你便如此言说。

5.3.2

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥ ५.३.२ ॥

人中确有勇士,也有懦夫;这两种品性在人身上都清楚可见。

5.3.3

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥ ५.३.३ ॥

同一家族中既生出软弱者,也生出大力者,正如同一棵树上既有结满果实的枝条。

5.3.4

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥ ५.३.४ ॥

持犁旗者啊,你所说的话我并不因此而怨恨;但是,摩陀婆啊,那些听从你言语的人,我却要责备他们。

5.3.5

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥ ५.३.५ ॥

在众人之中,若有人指出法王哪怕一点小过,他又怎能无所畏惧地在会上发言呢?

5.3.6

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः ।
अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः। ॥ ५.३.६ ॥

精通骰戏者召来不通骰戏的大德,并战胜了他;在这些毫无信念的人之中,法的胜利又从何而来?

5.3.7

यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥ ५.३.७ ॥

若他们在库提之子与兄弟们在家中游戏时前去将其击败,那对他们而言便合乎法度。

5.3.8

समाहूय तु राजानं क्षत्रधर्मरतं सदा ।
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥ ५.३.८ ॥

召来那位始终献身于刹帝利之法的国王,他们以欺诈将其击败。对他们而言,还有什么比这更大的吉祥呢?

5.3.9

कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।
वनवासाद्विमुक्तरतु प्राप्तः पैतामहं पदम् ॥ ५.३.९ ॥

他既以如此重大的赌注置于此地,怎会俯首称臣?他既已从林中流放归来,便已获得祖先的地位。

5.3.10

यद्ययं परवित्तानि कामयेत युधिष्ठिरः ।
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥ ५.३.१० ॥

即便坚战渴望他人的财富,他也绝不配向他人乞讨食物。

5.3.11

कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।
निवृत्तवनवासांस्तान्य आहुर्विदिता इति ॥ ५.३.११ ॥

他们具足法德,并不想夺取王国;那些从林中流放归来的人,人们怎能称他们为“名声显赫者”?

5.3.12

अनुनीता हि भीष्मेण द्रोणेन विदुरेण च ।
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥ ५.३.१२ ॥

尽管毗湿摩、德罗纳和维杜罗一再恳请,他们仍不决定将祖传的财富交给般度子孙。

5.3.13

अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात् ।
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥ ५.३.१३ ॥

我将以锐利的箭矢在战场上强行制服他们,使他们跪倒在伟大的昆蒂之子脚下。

5.3.14

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥ ५.३.१४ ॥

若他们不决心向那位智者俯首称臣,便将与大臣们一同前往阎摩之所。

5.3.15

न हि ते युयुधानस्य संरब्धस्य युयुत्सतः ।
वेगं समर्थाः संसोद्धुं वज्रस्येव महीधराः ॥ ५.३.१५ ॥

他们确实无法承受愤怒而渴望战斗的尤尤达那的冲击,正如群山无法承受金刚雷的力量。

5.3.16

को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।
मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ॥ ५.३.१६ ॥

谁能在战场上承受执持甘狄拔弓的人?谁能承受执轮的克利希那?谁能承受愤怒的我?又有谁能承受难以接近的怖军?

5.3.17

यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।
विराटद्रुपदौ वीरौ यमकालोपमद्युती ॥ ५.३.१७ ॥

那对孪生兄弟,坚固的弓手,如阎摩般,光辉耀眼;还有英雄毗罗吒与德鲁帕达,光辉如阎摩与时间。

5.3.18

को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम् ।
पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ॥ ५.३.१८ ॥

谁愿求生,会去接近普利沙塔之子德里斯塔笃奴?又有谁会去接近这五位增添德罗波蒂荣誉的般度之子?

5.3.19

समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ।
सौभद्रं च महेष्वासममरैरपि दुःसहम् ॥ ५.३.१९ ॥

般度之子身材相当,力量相等,骄傲自负;而善贤之子、大弓手阿毗曼尤,即使诸天也难以抵挡。

5.3.20

गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान् ।
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ॥ ५.३.२० ॥

迦陀、普拉杜姆纳与萨姆巴,如时间、太阳与火一般;我们将与沙恭尼一同摧毁持国之子。

5.3.21

कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽऽततायिनः ॥ ५.३.२१ ॥

在战场上杀死迦尔纳之后,我们将为般度之子(坚战)行灌顶之礼。杀害作恶的敌人,并无任何不法。

5.3.22

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ।
हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ॥ ५.३.२२ ॥

向敌人乞求既不义又可耻。应不懈地满足他们心中所欲。

5.3.23

धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति ।
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः।
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥ ५.३.२३ ॥

持国之子不愿不战而让出王国。今日让般度之子坚战得到王国——否则,众人皆战死,将长眠于大地之上。