Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.30.1

आमन्त्रये त्वां नरदेवदेव ।
गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु।
कच्चिन्न वाचा वृजिनं हि किंचि-
दुच्चारितं मे मनसोऽभिषङ्गात् ॥ ५.३०.१ ॥

人主之神啊,我向你告辞。般度之子啊,我要走了,愿你平安。若因心中的激动,我口中说出了什么不当的话……

5.30.2

जनार्दनं भीमसेनार्जुनौ च ।
माद्रीसुतौ सात्यकिं चेकितानम् ।
आमन्त्र्य गच्छामि शिवं सुखं वः ।
सौम्येन मां पश्यत चक्षुषा नृपाः ॥ ५.३०.२ ॥

向黑天、怖军、阿周那、摩德利的两个儿子、萨蒂耶基和车基坦告别之后,我即将离去。愿你们平安喜乐。诸王啊,请以温和的目光看我。

5.30.3

अनुज्ञातः सञ्जय स्वस्ति गच्छ ।
न नः स्मरस्यप्रियं जातु विद्वन्।
विद्मश्च त्वां ते च वयं च सर्वे ।
शुद्धात्मानं मध्यगतं सभास्थम् ॥ ५.३०.३ ॥

サンジャヤよ,你已获准告辞;平安地去吧。博学的人啊,你从不记着关于我们的任何不快之事。我们认识你,你也认识我们,我们都知道。心地纯净的人啊,你站在会堂之中。

5.30.4

आप्तो दूतः सञ्जय सुप्रियोऽसि ।
कल्याणवाक् शीलवांस्तृप्तिमांश्च।
न मुह्येस्त्वं सञ्जय जातु मत्या ।
न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ॥ ५.३०.४ ॥

你是可信赖的使者,萨蒂耶,也是我们十分亲爱的人;你说吉祥的话,品行端正,知足常乐。萨蒂耶啊,你的判断永远不要迷惑;即使有人对你说出真相,也不要生气。

5.30.5

न मर्मगां जातु वक्ताऽसि रूक्षां ।
नोपश्रुतिं कटुकां नोति शुष्काम्।
धर्मारामामर्थवतीमहिंस्रा-
मेतां वाचं तव जानीम सूत ॥ ५.३०.५ ॥

你从不说刺痛要害、粗暴、诽谤、苦涩或干枯的话。御者啊,我们知道你的话是法的花园,充满意义,且不伤害他人。

5.30.6

त्वमेव नः प्रियतमोऽसि दूत ।
इहागच्छेद्विदुरो वा द्वितीयः।
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं ।
धनञ्जयस्यात्मसमः सखाऽसि ॥ ५.३०.६ ॥

啊使者,你是我们最亲爱的人。愿维杜罗或另一位来到这里。你时常被见到,你是古老的人;你是达那因耶的如己之友。

5.30.7

इतो गत्वा सञ्जय क्षिप्रमेव ।
उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः।
विशुद्धवीर्याश्चरणोपपन्नाः ।
कुले जाताः सर्वधर्मापपन्नाः ॥ ५.३०.७ ॥

啊桑遮耶,从此处去,迅速前往那些配得上此事的婆罗门那里:他们有纯净的勇力,品行端正,出身高贵,具备一切法。

5.30.8

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च ।
तपस्विनो ये च नित्या वनेषु ।
अभिवाद्य तान्मद्वचनेन वृद्धां-
स्तथैव तान्कुशलं तात पृच्छेः ॥ ५.३०.८ ॥

代我向研习吠陀的婆罗门、乞食者以及常住森林的苦行者恭敬致意,亲爱的,也同样向长者们问候平安。

5.30.9

पुरोहितं धृतराष्ट्रस्य राज्ञ-
स्तथाचार्यानृत्विजो ये च तस्य।
तांश्चैवत्वं सहितान्वै यथावत् ।
सङ्गच्छेथाः कुशलेनैव सूत ॥ ५.३०.९ ॥

请如理拜见持国王的家族祭司,同样也拜见隶属于他的师傅和祭司,将他们一并见到。啊御者,务必在平安之中相见。

5.30.10

अश्रोत्रिया ये च वसन्ति वृद्धा ।
मनस्विनः शीलबलोपपन्नाः ।
आशंसन्तोऽस्माकमनुस्मरन्तो ।
यथाशक्ति धर्ममात्रां चरन्तः ॥ ५.३०.१० ॥

住在那里的老人虽不精通吠陀,却心志高远,品德与力量兼备;他们期望我们、思念我们,依各自的能力奉行一点法。

5.30.11

तेषां सर्वषां कुशलं स्म पृच्छेः ॥ ५.३०.११ ॥

务必询问他们所有人的安好。

5.30.12

आचार्य इष्टो नयगो विधेयो ।
वेदानभीप्सन्ब्रह्मचर्यं चचार।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे ।
द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ॥ ५.३०.१२ ॥

那位可敬的老师,值得听从的引导者,为求吠陀而修持梵行,又重新掌握了四支箭术——你应当向心满意足的德罗纳致敬。

5.30.13

अधीतविद्यश्चरणोपपन्नो ।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे।
गन्धर्वपुत्रप्रतिमं तरस्विनं ।
तमश्वत्थामानं कुशलं स्म पृच्छेः ॥ ५.३०.१३ ॥

精通学问、品行端正,重新掌握四支箭术,敏捷如乾闼婆之子的那位阿湿婆塔曼——你务必询问他的安好。

5.30.14

शारद्वतस्यावसथं स्म गत्वा ।
महारथस्यात्मविदां वरस्य।
त्वं मामभीक्ष्णं परिकीर्तयन्वै ।
कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥ ५.३०.१४ ॥

桑闍耶,你前往沙罗陀之子克利巴的住处,常常向这位大车将、真知自我者中的最优者提起我,并以手触摸克利巴的双足。

5.30.15

यस्मिन्शौर्यमानृशंस्यं तपश्च ।
प्रज्ञा शीलं श्रुतरूपे धृतिश्च।
पादौ गृहीत्वा कुरुसत्तमस्य ।
भीष्मस्य मां तत्र निवेदयेथाः ॥ ५.३०.१५ ॥

凡具备勇武、仁慈、苦行、智慧、德行、博学、容貌与坚定者,即库鲁最优者,你当握住毗湿摩的双足,在那里向他禀告我的话。

5.30.16

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां ।
बहुश्रुतो वृद्धसेवी मनीषी।
तस्मै राज्ञे स्थविरायाभिवाद्य ।
आचक्षीथाः सञ्जय मामरोगम् ॥ ५.३०.१६ ॥

对那位以智慧为眼、库鲁之领袖、博学、侍奉长者、有智慧的老王,恭敬问候后,告诉他,桑闍耶,我无病无恙。

5.30.17

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो ।
मूर्खः शठः सञ्जय पापशीलः।
यस्यापवादः पृथिवीं याति सर्वां ।
सुयोधनं कुशलं तात पृच्छेः ॥ ५.३०.१७ ॥

持国之长子愚钝、无知、狡诈、行为邪恶,其恶名传遍大地。桑闍耶,亲爱的,请问苏耶陀那是否安好。

5.30.18

भ्राता कनीयानपि तस्य मन्द-
स्तथाशीलः सञ्जय सोपि शश्वत्।
महेष्वासः शूरतमः कुरूणां ।
दुःशासनः कुशलं तात वाच्यः ॥ ५.३०.१८ ॥

他的弟弟也愚钝,性情相同。桑闍耶,那位经常是库鲁中大弓手、最勇敢者的难降,亲爱的,请对他传达我的安好。

5.30.19

यस्य कामो वर्तते नित्यमेव ।
नान्यः शमाद्भारतानामिति स्म।
स बाह्लिकानामृषभो मनीषी ।
पुनर्यथा माऽभिवदेत्प्रसन्नः ॥ ५.३०.१९ ॥

其常愿于婆罗多人之间除平和外别无所求,他是巴赫利卡人中的雄牛、智者。愿他欢喜地再次向我致意。

5.30.20

भूरिश्रवास्तात निपातयोधी ।
महेष्वासो रथिनामुत्तमोऽग्र्यः ।
गत्वा स्म तं मद्वचनेन ब्रूयाः ।
शल्यं तथा मद्वचनात्प्रतीतः ॥ ५.३०.२० ॥

亲爱的,婆利舍罗婆斯,近身作战的勇士,伟大的弓箭手,战车武士中最优秀、最卓越的人:你去见他,以我的话告诉他;同样也以我的话告诉因我的言语而欢喜的沙利耶。

5.30.21

स्तेषां सर्वेषां कुशलं तात पृच्छेः ॥ ५.३०.२१ ॥

亲爱的,请问候他们所有人的平安。

5.30.22

गुणैरनेकैः प्रवरैश्च युक्तो ।
विज्ञानवान्नैव च निष्ठुरो यः।
स्नेहादमर्षं सहते सदैव ।
स सोमदत्तः पूजनीयो मतो मे ॥ ५.३०.२२ ॥

具备许多卓越品德,有辨别力而不严苛,因怀着情谊总能忍受愤怒的索摩达多,在我看来值得尊敬。

5.30.23

अर्हत्तमः कुरुषु सौमदत्तिः ।
स नो भ्राता संजय मत्सखा च।
महेष्वासो रथिनामुत्तमोऽर्हः ।
सहामात्यः कुशलं तस्य पृच्छेः ॥ ५.३०.२३ ॥

索摩达多之子,在俱卢族中最值得尊敬,他是我们的兄弟,也是我的朋友。桑闪耶,请问候他——这位伟大的弓箭手、战车武士中最优秀最值得敬重的人——以及他的大臣们的平安。

5.30.24

ये चैवान्ये कुरुमुख्या युवानः ।
पुत्राः पौत्रा भ्रातरश्चैव ये नः।
यंयमेषां मन्यसे येन योग्यं ।
तत्तत्प्रोच्यानामयं सूत वाच्याः ॥ ५.३०.२४ ॥

至于俱卢族其他年轻的首领、我们的儿子、孙子和兄弟,你认为合适的人,就向他说适当的话;御者啊,也请把他们平安的消息带给他们。

5.30.25

ये राजानः पाण्डवायोधनाय ।
समानीता धार्तराष्ट्रेण केचित्।
वशातयः साल्वकाः केकयाश्च ।
तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥ ५.३०.२५ ॥

那些被持国之子召集来与般度之子作战的诸王——某些瓦沙提人、萨尔瓦人、克迦耶人,以及安跋塔人和主要的特里伽尔塔人。

5.30.26

प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा-
स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे।
अनृशंसाः शीलवृत्तोपुन्ना-
स्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥ ५.३०.२६ ॥

东方、北方、南方的英雄,以及西方和山区的所有人——那些不残酷、品行端正的人,御者啊,请问候他们所有人的平安。

5.30.27

हस्त्यारोहा रथिनः सादिनश्च ।
पदातयश्चार्यसङ्घा महान्तः।
आख्याय मां कुशलिनं स्म नित्य-
मनामयं परिपृच्छेः समग्रान् ॥ ५.३०.२७ ॥

象兵、车兵、骑兵和步兵,以及庞大的贵族军团——告诉我他们安好、始终康健,然后问候他们每一个人。

5.30.28

तथा राज्ञो ह्यर्थयुक्तानमात्यान् ।
दौवारिकान्ये च सेनां नयन्ति।
आयव्ययं ये गमयन्ति नित्य-
मर्थांश्च ये महतश्चिन्तयन्ति ॥ ५.३०.२८ ॥

同样,还有参与国王事务的大臣、门卫、统率军队的人、每日管理收支的人,以及思虑大事的人——请问候他们所有人。

5.30.29

वृन्दारकं कुरुमध्येष्वमूढं ।
महाप्रज्ञं सर्वधर्मोपपन्नम् ।
न तस्य युद्धं रोचते वै कदाचि-
द्वैश्यापुत्रं कुशलं तात पृच्छेः ॥ ५.३०.२९ ॥

毗都罗是吠舍女子之子,在俱卢族中最为杰出,头脑清明,智慧广大,具备一切德行,从不喜欢战争。亲爱的,请问候他的安好。

5.30.30

निकर्तने देवने योऽद्वितीय-
श्छन्नोपधः साधुदेवी मताक्षः।
यो दुर्जयो देवरथेन सङ्ख्ये ।
स चित्रसेनः कुशलं तात वाच्यः ॥ ५.३०.३० ॥

请向在掷骰游戏中无人能及、熟知隐秘诡计、精通骰子、在战斗中以神车无人能敌的赤军那(Citrasena)问候,亲爱的,请告诉他你的近况。

5.30.31

गान्धारराजः शकुनिः पार्वतीयो ।
निकर्तने योऽद्वितीयोऽक्षदेवी।
मानं कुर्वन्धार्तराष्ट्रस्य सूत ।
मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥ ५.३०.३१ ॥

犍陀罗王沙恭尼,生于山中,在掷骰游戏中无人能及,精于骰子,并对持国之子表示敬重。御者啊,亲爱的,请问候那心术不正之人的安好。

5.30.32

यः पाण्डवानेकरथेन वीरः ।
समुत्सहत्यप्रधृप्यान्विजेतुम् ।
यो मुह्यतां मोहयिताऽद्वितीयो ।
वैकर्तनः कुशलं तस्य पृच्छेः ॥ ५.३०.३२ ॥

请问候毗迦尔丹那(迦尔纳)的安好。他是勇士,敢以一辆战车征服不可战胜的般度五子,能迷惑那些迷惑之人,无人能与之相比。

5.30.33

स एव भक्तः स गुरुः स भर्ता ।
स वै पिता स च माता सुहृच्च।
अगाधबुद्धिर्विदुरो दीर्घदर्शी ।
स नो मन्त्री कुशलं तं स्म पृच्छेः ॥ ५.३०.३३ ॥

他既是我们的忠仆,也是我们的师长、君主、父亲、母亲与朋友。毗都罗智慧深不可测、目光长远,是我们的谋臣,你务必问候他的安好。

5.30.34

वृद्धाः स्त्रियो याश्च गुणोपपन्ना ।
ज्ञायन्ते नः सञ्जय मातरस्ताः।
ताभिः सर्वाभिः सहिताभिः समेत्य ।
स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥ ५.३०.३४ ॥

桑闍耶啊,去拜见所有具备美德、我们视为母亲的年长女性,与这些年长的妇人一道,向她们致以问候。

5.30.35

कच्चित्पुत्रा जीवपुत्राः सुसम्य-
ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः ।
इति स्मोत्का सञ्जय ब्रूहि पश्चा-
दजातशत्रुः कुशली सपुत्रः ॥ ५.३०.३५ ॥

你的儿子们,拥有存活的儿子者,是否以仁慈之性情善行其道?桑闍耶啊,问过此事之后,再告诉他们:未敌王与其诸子平安。

5.30.36

राज्ञो भार्याः सञ्जय वेत्थ तत्र ।
तासां सर्वासां कुशलं तात पृच्छेः ।
सुसंगुप्ताः सुरभयोऽनवद्याः ।
कच्चिद्गृहानावसथाप्रमत्ताः ॥ ५.३०.३६ ॥

桑闍耶啊,你在那里认识国王的妻子们。亲爱的,请询问她们每一位的平安。她们受到良好的守护,无所畏惧,无可指摘,是否在各自的家中谨慎地居住?

5.30.37

कच्चिद्वृत्तिं श्वशुरेषु भद्राः ।
कल्याणीं वर्तध्वमनृशंसरूपाम्।
यथा च वः स्युः पतयोऽनुकूला-
स्तथा वृत्तिमात्मनः स्थापयध्वम् ॥ ५.३०.३७ ॥

吉祥的妇人们,你们对公公们是否以良善、仁慈的态度行事?请端正你们的行为,使你们的丈夫对你们和顺。

5.30.38

या नः स्नुषाः सञ्जय वेत्थ तत्र ।
प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः।
प्रजावत्यो ब्रूहि समेत्य ताश्च ।
युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥ ५.३०.३८ ॥

ṣañjaya,请告诉那里的我们的儿媳们——她们出身高贵家族,具备美德,且已有子嗣——仁慈的坚战在与她们相见时向你致意。

5.30.39

कन्याः स्वजेथाः सदनेषु सञ्जय ।
अनामयं मद्वचनेन पृष्ट्वा।
कल्याणा वः सन्तु पतयोऽनुकूला ।
यूयं पतीनां भवतानुकूलाः ॥ ५.३०.३९ ॥

ṣañjaya,请以我的名义问候家中的少女,询问她们安好:愿你们的丈夫吉祥而和善,你们也要顺从丈夫。

5.30.40

अलङ्कृता वस्त्रवत्यः सुगन्धा ।
अबीभत्साः सुखिता भोगवत्यः।
लघु यासां दर्शनं वाक्व लघ्वी ।
वेशस्त्रियः कुशलं तात पृच्छेः ॥ ५.३०.४० ॥

她们盛装华服、芬芳馥郁、不令人厌恶、快乐而享受富足;她们的容貌与言辞轻浮。亲爱的,你应当问候那些伎女的安好。

5.30.41

दास्यः स्युर्या ये च दासाः कुरूणां ।
तदाश्रया बहवः कुब्जखञ्जाः।
आख्याय मां कुशलिनं स्म तेभ्यो-
ऽप्यनामयं परिपृच्छेर्जघन्यम् । ॥ ५.३०.४१ ॥

库卢族的婢女和仆人,以及依靠他们生活的许多驼背和跛足之人——告诉他们我安好,也请问候那些卑微者的安好。

5.30.42

कच्चिद्वृत्तिं वर्तते वै पुराणीं ।
कच्चिद्भोगान्दार्तराष्ट्रो ददाति।
अङ्गहीनान्कृपणान्वामनान्वा ।
यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ॥ ५.३०.४२ ॥

难敌是否仍按旧制维持生计?他是否向残废者、贫穷者、侏儒,或出于怜悯而供养的人给予享用?

5.30.43

अन्धाश्च सर्वे बधिरास्तथैव ।
हस्ताजीवा बहवो येऽत्र सन्ति।
आख्याय मां कुशलिनं स्म तेभ्यो-
ऽप्यनामयं परिपृच्छेर्जघन्यम् ॥ ५.३०.४३ ॥

所有盲人和聋人,以及此地许多以手艺谋生的人——先告诉他们我安好,再向那些最卑微的人问候他们的安康。

5.30.44

मा भैष्ट दुःखेन कुजीवितेन ।
नूनं कृतं परलोकेषु पापम्।
निगृह्य शत्रून्सुहृदोऽनुगृह्य ।
वासोभिरन्नेन च वो भरिष्ये ॥ ५.३०.४४ ॥

不要畏惧悲痛与困苦的生活。想必在他世之中已有罪业。待我制伏敌人、眷顾友人之后,我将以衣物和食物供养你们。

5.30.45

त्वयोच्यमानां श्रृणुयुक्तथा कुरु ॥ ५.३०.४५ ॥

聆听你所说的话,并依其所宜而行。

5.30.46

सन्त्येव मे ब्राह्मणेभ्यः कृतानि ।
भावीन्यथो नो बत वर्तयन्ति ।
तान्पश्यामि युक्तरूपांस्तथैव ।
तामेव सिद्धिं श्रावयेथा नृपं तम् ॥ ५.३०.४६ ॥

我已为婆罗门布施,也将有未来的布施,它们养育着我们;我看到它们处于恰当的形态。请把这成就告诉那位国王。

5.30.47

ये चानाथा दुर्बलाः सर्वकाल-
मात्मन्येव प्रयतन्तेऽथ मूढाः।
तांश्चापि त्वं कृपणान्सर्वथैव ।
ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ॥ ५.३०.४७ ॥

也请替我们问候那些无依无靠、软弱、且总是只为自己而奔忙的愚人,问他们的安好,亲爱的朋友,务必一切都问到。

5.30.48

ये चाप्यन्ये संश्रिता धार्तराष्ट्रा-
न्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा-
न्संपृच्छेथाः कुशलं चाव्ययं च ॥ ५.३०.४८ ॥

御者之子啊,凡是投靠持国之子、从四方而来的其他人,你见到他们之后,都要问候他们的平安与永久的福祉,也要问候那些受人尊敬的人。

5.30.49

एवं सर्वानागताभ्यागतांश्च ।
राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् ।
पृष्ट्वा सर्वान्कुशलं तांश्च सूत ।
पश्चादहं कुशली तेषु वाच्यः ॥ ५.३०.४९ ॥

御者啊,把所有来的人、来访的宾客,以及从四方到达的国王使者的安好都问遍之后,然后告诉他们,我很好。

5.30.50

न हीदृशाः सन्त्यपरे पृथिव्यां ।
ये योधका धार्तराष्ट्रेण लब्धाः।
धर्मस्तु नित्यो मम धर्म एव ।
महाबलः शत्रुनिबर्हणाय ॥ ५.३०.५० ॥

大地上没有像持国之子所获得的那样的其他战士。然而我的职责是永恒的,而我的职责,就是这位大力者去消灭敌人。

5.30.51

इदं पुनर्वचनं धार्तराष्ट्रं ।
सुयोधनं सञ्जय श्रावयेथाः ।
यस्ते शरीरे हृदयं दुनोति ।
कामः कुरूनसपत्नोऽनुशिष्याम् ॥ ५.३०.५१ ॥

僧阇耶,请再把这些话告诉持国之子难敌:折磨你心的,正是这个愿望——我想无敌地统治俱卢族。

5.30.52

न विद्यते युक्तिरेतस्य काचि-
न्नैवं विधास्यामि यथा प्रियं ते।
ददस्व वा शक्रपुरीं ममैव ।
युध्वस्व वा भारतमुख्यवीर ॥ ५.३०.५२ ॥

此事毫无道理可言;我不会去做让你高兴的事。把因陀罗之城还给我,或者应战,婆罗多族中最杰出的英雄啊。