摩诃婆罗多 · 章 5.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.32.1
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा ।
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥ ५.३२.१ ॥
获得般度之子的允许后,桑闍耶便启程了,他完成了伟大的持国王交付的全部使命。
5.32.2
सम्प्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह ।
अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् ॥ ५.३२.२ ॥
抵达象城后,他迅速进入,走到内宫,对守门人说道。
5.32.3
आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ उपागतं पाण्डवानां सकाशात् ।
जागर्ति चेदभिवदेस्त्वं हि क्षत्तः प्रविशेयं विदितो भूमिपस्य ॥ ५.३२.३ ॥
守门人啊,请向持国王通报,说我从般度之子那里来。如果他醒着,御者啊,你就告诉他,让我这为国王所知的人能够入内。
5.32.4
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते ।
प्राप्तो दूतः पाण्डवानां सकाशा त्प्रशाधि राजन्किमयं करोतु ॥ ५.३२.४ ॥
这是桑闍耶,大地之主啊,向您致敬。他因想见您而来到您的门前。般度之子派来的使者已到。国王啊,请下令,他该如何做?
5.32.5
आचक्ष्व मां सुखिनं काल्यमस्मै प्रवेश्यतां स्वागतं सञ्जयाय ।
न चाहमेतस्य भवाम्यकाल्यः स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ॥ ५.३२.५ ॥
请告诉他我安好,明早我将接见他。欢迎桑闍耶,让他进来。对他而言我并非不便见面。御者啊,他为何要站在我的门前?
5.32.6
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् ।
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥ ५.३२.६ ॥
于是,在国王的允许下,他进入了由智者、勇士和贵族守卫的大殿,合掌的御者之子走近坐在狮子宝座上的毗奇德拉维里雅之子。
5.32.7
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् ।
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ ५.३२.७ ॥
桑闪耶:大地之主啊,向您致敬。我已前往般度之子处并归来。般度之子心志高远的坚战向您致礼后,问候了您的安好。
5.32.8
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च ।
तथा सुहृद्भिः सचिवैश्च राज न्ये चापि त्वामुपजीवन्ति तैश्च ॥ ५.३२.८ ॥
他满怀喜悦地询问您的儿子们:您是否因儿子和孙子而欣慰?国王啊,您是否也因朋友、大臣以及依靠您的其他人而欣慰?
5.32.9
अभ्येत्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम् ।
कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥ ५.३२.९ ॥
持国:亲爱的桑闪耶,走近些,我要说话。普利塔之子、不可征服的坚战快乐吗?那位国王,连同他的儿子、大臣和弟弟们,是否安好?他是考拉瓦之王。
5.32.10
सहामात्यः कुशली पाण्डुपुत्रो भूयश्चातो यच्च तेऽग्रे मनोऽभूत् ।
निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ ५.३२.१० ॥
与大臣们在一起的潘度之子安好。并且,如你先前心中所想:那位在实践中净化法与财富、心智明达、博学多闻、目光远大、品行端正的人,也安好。
5.32.11
परं धर्मात्पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य ।
सुखप्रिये धर्महीने न पार्थो ऽनुरुध्यते भारत तस्य विद्धि ॥ ५.३२.११ ॥
对于般度族而言,仁慈(ānṛśaṃsya)高于法,法被视为高于积聚财富。婆罗多之子啊,要知道:贪图享乐、缺乏法的人,阿周那不会顺从。
5.32.12
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा ।
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ ५.३२.१२ ॥
受他人驱使的人,行动如同穿在线上的木偶。看到般度之子的这种克制,我认为天命(daiva)的作用高于人的作为。
5.32.13
इमं च दृष्ट्वा तव कर्मदोषं पादोदर्कं घोरमवर्णरूपम् ।
यावन्नरः कामयतेऽतिकाल्यं तावन्नरोऽयं लभते प्रशंसाम् ॥ ५.३२.१३ ॥
再看你行为的过失,它以落于脚下而告终,可怕而形貌丑陋——只要人想要比别人更早崛起,这个人便能获得赞誉。
5.32.14
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् ।
विरोचतेऽहार्यवृत्तेन धीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥ ५.३२.१४ ॥
然而,无敌者(Ajātaśatru)坚定的 Yudhiṣṭhira 舍弃罪恶,如蛇蜕去它陈旧无用的皮,以不动摇的品行而光耀;摒弃你身上的罪恶,坚毅的 Yudhiṣṭhira 便光彩照人。
5.32.15
अङ्गात्मनः कर्म निबोध राज न्धर्मार्थयुक्तादार्यवृत्तादपेतम् ।
उपक्रोशं चेह गतोऽसि राज न्नोहेश्च पापं प्रसजेदमुत्र ॥ ५.३२.१५ ॥
大王啊,请听你自己的行为,它已离开了与法和利相结合的高尚行为。大王啊,你在此已招致诋毁;罪恶甚至在来世也会缠绕不去。
5.32.16
स त्वमर्थं संशयितं विना तै राशंससे पुत्रवशानुगोऽद्य ।
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥ ५.३२.१६ ॥
那目标是可疑的;没有他们,你今日却依从儿子的意志而抱有此望。大地上有巨大的不义之名;婆罗多中最优秀的人啊,这种行为与你不相称。
5.32.17
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घवैरी क्षत्रविद्यास्वधीरः ।
एवन्धर्मा नापदः सन्तितीर्षे द्धीनवीर्यो यश्च भवेदशिष्टः ॥ ५.३२.१७ ॥
缺乏智慧、出身卑贱、残忍、长期的仇敌、在武士之学中不坚定的人——这样性情的人不会想要渡过灾难;而缺乏智慧与勇力、变得粗鄙无礼的人也是如此。
5.32.18
कुले जातो धर्मवान्यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा ।
धर्मार्थयोर्ग्रथितयोर्बिभर्ति नान्यत्र दिष्टस्य वशादुपैति ॥ ५.३२.१८ ॥
出身良好、有德、有名望、博学、生活安逸、自我克制的人,能承担彼此交织的法与利;否则,受命运支配,他便无法得到它们。
5.32.19
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता ।
एवंयुक्तः सर्वमन्त्रैरहीनो अनानृशंस्यं कर्म कुर्यादमूढः ॥ ५.३२.१९ ॥
持有最上乘谋略、在灾难中引导法与利的智者,如此具备一切谋略而无所欠缺,怎会不做无残酷之事呢?不迷惑的人应当这样做。
5.32.20
तवापीमे मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः ।
तेषामयं बलवान्निश्चयश्च कुरुक्षयार्थे निरयो व्यपादि ॥ ५.३२.२० ॥
你的谋士们也聚集一起,始终忙于各自的事务。他们强大的决心为库鲁族的毁灭带来了地狱般的灾难。
5.32.21
अकालिकं कुरवो नाभविष्य न्पापेन चेत्पापमजातशत्रुः ।
इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥ ५.३२.२१ ॥
若阿阇多设特以恶报恶,库鲁族便不会遭受不合时宜的毁灭;若你也舍弃恶念而有所求,这份谴责便不会落在你身上于世间。
5.32.22
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं ददर्श ।
अत्यक्रामत्स तथा संमतः स्या न्न संशयो नास्ति मनुष्यकारः ॥ ५.३२.२२ ॥
除了诸感官的对象,对于主宰者还有什么?正是在那里,帕尔塔见到了彼岸世界。如此超越之后,他必会受到尊敬——毫无疑问,这正是人力所为。
5.32.23
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ ।
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥ ५.३२.२३ ॥
观察这些由行为所生的属性,以及无常的有与无,国王钵利未能找到那彼岸,便认为那里除时间之外别无其他原因。
5.32.24
चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः ।
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥ ५.३२.२४ ॥
眼、耳、鼻、皮肤与舌,是众生智慧的所依。待渴爱断尽之时,它们确已喜悦;人应不为其所扰,无忧无苦,将其推开。
5.32.25
न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥ ५.३२.२५ ॥
我不认为人的行为若按其应有之法妥善完成会徒劳无功。人因父母之行为而生,依礼法以饮食而成长。
5.32.26
प्रियाप्रिये सुखदुःखे च राज न्निन्दाप्रशंसे च भजेत एनम् ।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ ५.३२.२६ ॥
大王啊,可意与不可意、苦与乐、毁与誉都归于此人。他人因其过失而责备他,却称赞行为善良的人。
5.32.27
स त्वा गर्हे भारतानां विरोधा दन्तो नूनं भवितायं प्रजानाम् ।
नो चेदिदं तव कर्मापराधा त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥ ५.३२.२७ ॥
我责备你,因为由于婆罗多族的敌对,他必将成为制服众生的人。否则,由于你行为的过失,他会像黑色火焰焚烧干草一样烧毁俱卢族。
5.32.28
त्वमेवैको जातपुत्रेषु राज न्वशं गन्ता सर्वलोके नरेन्द्र ।
कामात्मनां श्लाघसे द्यूतकाले नान्यच्छमात्पश्य विपाकमस्य ॥ ५.३२.२८ ॥
大王啊,在有子嗣的人中,唯独你会在全世界被制服。人主啊,在赌博之时,你赞美那些以欲望为自我之人。看看其结果吧,除了和平,别无他物。
5.32.29
अनाप्तानां प्रग्रहात्त्वं नरेन्द्र तथाप्तानां निग्रहाच्चैव राजन् ।
भूमिं स्फीतां दुर्बलत्वादनन्तां न शक्तस्त्वं रक्षितुं कौरवेय ॥ ५.३२.२९ ॥
人主啊,因为你采纳不可信者的意见,同时又压制可信之人,大王啊,由于软弱,你无法守护这广阔无边的大地,俱卢的后裔啊。
5.32.30
अनुज्ञातो रथवेगावधूतः श्रान्तो निपद्ये शयनं नृसिंह ।
प्रातः श्रोतारः कुरवः सभाया मजातशत्रोर्वचनं समेताः ॥ ५.३२.३० ॥
人中之狮啊,我已获准,因战车疾驰而颠簸疲惫,现在便去躺下休息。清晨,俱卢族人将聚集在议会中,聆听阿阇多设咄鲁的话语。