Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.36.1

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ ५.३६.१ ॥

在此人们讲述这古老的故事——阿特雷耶与萨地亚诸神的对话,我们曾如此听闻。

5.36.2

चरन्तं हंसरूपेण महर्षिं संशितव्रतम् ।
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ ५.३६.२ ॥

那位持守严格誓愿、化作天鹅游行的大仙,大智慧者,萨地亚诸神在往昔向他提出了问题。

5.36.3

साध्या देवा वयमेते महर्षे ।
दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्।
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः ।
काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ५.३६.३ ॥

大仙啊,我们萨地亚诸神见到您,却无法揣测您是谁。凭借学问,我们认为您坚定而智慧;您应当说出高尚的诗意之言。

5.36.4

एतत्कार्यममराः संश्रुतं मे ।
धृतिः शमः सत्यधर्मानुवृत्तिः।
ग्रन्थिं विनीय हृदयस्य सर्वं ।
प्रियाप्रिये चात्मसमं नयीत ॥ ५.३६.४ ॥

诸位不死者,我所听闻的正是此责:坚定、平静、遵循真实的法。解开心中所有的结,应将喜爱与厌恶视同自身。

5.36.5

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ५.३६.५ ॥

受辱时不应以辱还辱;忍耐者的愤怒会烧毁辱骂者,并获得他的善业。

5.36.6

नाक्रोशी स्यान्नावमानी परस्य ।
मित्रद्रोही नोत नीचोपसेवी।
न चाभिमानी न च हीनवृत्तो ।
रूक्षां वाचं रुशतीं वर्जयीत ॥ ५.३६.६ ॥

不应辱骂他人,也不应轻慢他人;不应背叛朋友,也不应侍奉卑劣之人。不应傲慢,也不应行为低劣;应当避免粗暴伤人的言语。

5.36.7

मर्माण्यस्थीनि हृदयं तथासू-
न्रूक्षा वाचो निर्दहन्तीह पुंसाम्।
तस्माद्वाचमुशतीं रूक्षरूपां ।
धर्मारामो नित्यशो वर्जयीत ॥ ५.३६.७ ॥

粗暴的言语在此焚烧人的要害、骨骼、心脏乃至气息。因此,乐于法义者应当永远避免粗暴伤人的言语。

5.36.8

अरुन्तुदं परुषं रूक्षवाचं ।
वाक्कण्टकैर्वितुदन्तं मनुष्यान्।
विद्यादलक्ष्मीकतमं जननां ।
मुखे निबद्धां निर्ऋतिं वै वहन्तम् ॥ ५.३६.८ ॥

以粗暴、苦涩、刺耳的言语如荆棘刺伤人者,应被视为众人中最不吉祥的;他口中所含的,正是毁灭。

5.36.9

परश्चेदेनमभिविद्ध्येत बाणै-
र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।
विरिच्यमानोऽप्यतिरिच्यमानो ।
विद्यात्कविः सुकृतं मे दधाति ॥ ५.३६.९ ॥

若有人以如火如日般炽烈的锐利箭矢猛烈射穿他,而他虽受伤,却更加坚定不移,智者应当知道,他承载着我的功德。

5.36.10

यदि सन्तं सेवति यद्यसन्तं ।
तपस्विनं यदि वा स्तेनमेव।
वासो यथा रङ्गवशं प्रयाति ।
तथा स तेषां वशमभ्युपैति ॥ ५.३६.१० ॥

无论侍奉善人、恶人、苦行者,还是盗贼,他都会落入其支配之中,正如布料受染料所支配一样。

5.36.11

अतिवादं न प्रवदेन्न वादये-
द्यो नाहतः प्रतिहन्यान्न घातयेत् ।
हन्तुं च यो नेच्छति पापकं वै ।
तस्मै देवाः स्पृहयन्त्यागताय ॥ ५.३६.११ ॥

不出恶言、不挑衅,被打也不还手、不让人还手,且不愿作恶的人,诸神都渴望他。

5.36.12

अव्याहृतं व्याहृताच्छ्रेय आहुः ।
सत्यं वदेद्व्याहृतं तद्द्वितीयम्।
प्रियं वदेद्व्याहृतं तत्तृतीयं ।
धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ ५.३६.१२ ॥

人们说,沉默胜于言语。若必须说话,就应说真话——这是第二;应说悦耳之言——这是第三;应说合乎法的话——这是第四。

5.36.13

यादृशैः सन्निविशते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ ५.३६.१३ ॥

人会变得像他所结交、所侍奉的人,也会变成他所愿望成为的样子。

5.36.14

यतो यतो निवर्तते ततस्ततो विमुच्यते ।
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि
न जीयते चानुजिगीषतेऽन्या-
न्न वैरकृच्चाप्रतिघातकश्च। ॥ ५.३६.१४ ॥

他从何处转身离去,便从何处得到解脱;因为从四面八方转身离开,他便连一丝痛苦也不知。他不会被征服,也不想去征服他人;不制造仇恨,也不以牙还牙。

5.36.15

निन्दाप्रशंसासु समस्वभावो ।
न शोचते हृष्यति नैव चायम् ॥ ५.३६.१५ ॥

在毁谤与赞誉中保持平等本性的人,既不悲伤,也不欢喜。

5.36.16

भावमिच्छति सर्वस्य नाभावे कुरुते मनः ।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ ५.३६.१६ ॥

希望一切众生安好、不将心思放在恶事上,说真话、温和而自制的人,便是最上等的人。

5.36.17

नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च ।
रन्ध्रं परस्य जानाति यः स मध्यमपूरुषः ॥ ५.३६.१७ ॥

不徒然安慰、许诺而兑现、又能洞察他人弱点的人,是中等之人(中士)。

5.36.19

निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥ ५.३६.१९ ॥

驱逐朋友的人,正是下等之人(下士)。

5.36.20

उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः ॥ ५.३६.२० ॥

只应侍奉上等之人,适时侍奉中等之人;不应侍奉下等之人——若人欲求自身的兴旺。

5.36.21

प्राग्नोति वै वित्तमसद्बलेन ।
नित्योत्थानात्प्रज्ञया पौरुषेण।
न त्वेव सम्यग्लभते प्रशंसां ।
न वृत्तमाप्नोति महाकुलानाम् ॥ ५.३६.२१ ॥

借助不正之力可得财富,持续努力、智慧与勇气也能得财富;然而却不能真正获得赞誉,也无法达到大家族的品行。

5.36.22

महाकुलेभ्यः स्पृहयन्ति देवा ।
धर्मार्थनित्याश्च बहुश्रुताश्च।
पृच्छामि त्वां विदुरं प्रश्नमेतं ।
भवन्ति वै कानि महाकुलानि ॥ ५.३६.२२ ॥

连诸神也羡慕大家族;恒守法与利、博学多闻之人亦然。维杜罗啊,我问你这个问题:哪些是大家族?

5.36.23

तपो दमो ब्रह्मवित्त्वं तितिक्षा ।
इज्या विवाहाः सान्त्वनं चान्नदानम्।
अष्टावेते नित्यमेवं भवन्ति ।
सतां गुणास्तानि महाकुलानि ॥ ५.३६.२३ ॥

苦行、克己、梵知、忍耐、祭祀、婚姻、安慰与施食——这八者恒常如此;善人的这些德性便是大家族。

5.36.24

येषां न वृत्तं व्यथते न योनि-
श्चित्तप्रसादेन चरन्ति धर्मम्।
ये कीर्तिमिच्छन्ति कुले विशिष्टां ।
त्यक्तानृतास्तानि महाकुलानि ॥ ५.३६.२४ ॥

行为与出身不动摇、以澄明之心践行法(dharma)、愿在本族中获得卓越声名、弃绝虚妄者——这些便是大族(mahākulāni)。

5.36.25

अनिज्यया कुविवाहैर्वेदस्योत्सादनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ५.३६.२५ ॥

因废弃祭祀、不当婚姻、毁灭吠陀以及冒犯婆罗门,诸族便陷入无族(akulatā)之境。

5.36.26

देवद्रव्यनिनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ५.३६.२६ ॥

毁坏神明之财、夺取婆罗门之财,以及冒犯婆罗门,诸族便陷入无族(akulatā)之境。

5.36.27

ब्राह्मणानां परिभवात्परिवादाच्च भारत ।
कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ ५.३६.२७ ॥

婆罗摩陀,因轻慢与诽谤婆罗门,以及侵吞所托之物(nyāsa),诸族便陷入无族(akulatā)之境。

5.36.28

कुलानि समुपेताननि गोभिः पुरुषतोऽर्थतः ।
कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ ५.३६.२८ ॥

虽拥有牛群、人丁与财富,但行为有亏的诸族,不得列入族数之中(kula-saṃkhyā)。

5.36.29

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ५.३६.२९ ॥

然而行为无亏的诸族,即便财富微薄,也能列入族数之中,并赢得巨大的声名(yaśas)。

5.36.30

वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ ५.३६.३० ॥

应当努力守护品行;财富来来去去。财富未减而品行衰败者,已然毁灭,已然毁灭。

5.36.31

गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया ।
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः ॥ ५.३६.३१ ॥

即便有牛、牲畜、马匹和极为兴旺的农业,品行有缺的家族也不能兴盛。

5.36.32

मा नः कुले वैरकृत्कश्चिदस्तु ।
राजा बद्धो मा परस्वापहारी ।
मित्रद्रोही नैकृतिकोऽनृती वा ।
पूर्वाशी वा पितृदेवातिथिभ्यः ॥ ५.३६.३२ ॥

愿我族中无人挑起仇怨;愿君王不被囚禁。愿无掠夺他人财物者,无背叛朋友者,无欺诈、说谎者,也无在祖先、诸神与客人之前先行进食者。

5.36.33

यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत् ।
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ ५.३६.३३ ॥

杀害我们婆罗门者,憎恨我们婆罗门者,不应来到我们的集会;不耕种我们田地者,也不应来。

5.36.34

तृणानि भूमिरुदकं वाक्व्रतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ ५.३६.३४ ॥

草、地、水,第四是温和的真言——这些在善人的家中永不匮乏。

5.36.35

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम् ॥ ५.३६.३५ ॥

大王啊,以至诚之心奉上的这些敬意,大智者啊,是由正直而行善的人所施予的。

5.36.36

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै ।
शक्तो वोढुं न तथाऽन्ये महीजाः ।
एवं युक्ता भारसहा भवन्ति ।
महाकुलीना न तथान्ये मनुष्याः ॥ ५.३६.३६ ॥

大王啊,即使小小的战车也无法承载重物,地上生长的其他生灵也是如此。如此被套上轭的,便能承受重担;但出身高贵的人却不同于他人。

5.36.37

न तन्मित्रं यस्य कोपाद्बिभेति ।
यद्वा मित्रं शङ्कितेनोपचर्यम्।
यस्मिन्मित्रे पितरीवाश्वसीत ।
तद्वै मित्रं सङ्गतानीतराणि ॥ ५.३६.३७ ॥

令人畏惧其愤怒、或需带着疑虑侍奉的人,不是朋友。能像父亲一样让人安心依靠的人,才是真正的朋友;其余的只是交往罢了。

5.36.38

यः कश्चिदप्यसंबद्धो मित्रसावेन वर्तते ।
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ५.३६.३८ ॥

无论是否有血缘关系,只要以友爱之心待人,便是亲人;他是朋友,是依靠,是最终的支撑。

5.36.39

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ॥ ५.३६.३९ ॥

心意浮动、不侍奉长者、心志常常游移的人,所聚集的朋友也总是不稳固。

5.36.40

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।
अर्थाः समभिवर्तते हंसाः शुष्कं सरो यथा ॥ ५.३६.४० ॥

心意浮动、缺乏自制、受感官支配的人,财富便会远离他,正如天鹅离开干涸的湖泊。

5.36.41

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ ५.३६.४१ ॥

恶人会无故突然发怒,又无故欢喜;这便是恶人的本性,如浮云般不定。

5.36.42

सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ५.३६.४२ ॥

那些受到朋友尊敬、目的已达成却不忠于朋友的人,即使死后,食肉的动物也不会吃他们。

5.36.43

अर्थयेदेव मित्राणि सति वाऽसति वा धने ।
नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम् ॥ ५.३६.४३ ॥

无论是否有财富,都应向朋友求助;不求助的人,无法知道朋友的真实价值与虚浮。

5.36.44

सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् ।
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥ ५.३६.४४ ॥

因忧愁而失去容颜,因忧愁而失去力量,因忧愁而失去智慧;因忧愁而染上疾病。

5.36.45

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ५.३६.४५ ॥

因悲伤得不到应当得到的,身体也受煎熬;敌人欢喜。所以不要让心沉溺于悲伤。

5.36.46

पुनर्नरो म्रियते जायते च ।
पुनर्नरो हीयते वर्धते च।
पुनर्नरो याचति याच्यते च ।
पुनर्नरः शोचति शोच्यते च ॥ ५.३६.४६ ॥

人又死去,又再出生;人又衰减,又再增长;人又乞求,又被人乞求;人又悲伤,又为他悲伤。

5.36.47

सुखं च दुःखं च भवाभवौ च ।
लाभालाभौ मरणं जीवितं च।
पर्यायशः सर्वमेते स्पृशन्ति ।
तस्माद्धीरो न च हृष्येन्न सोचेत् ॥ ५.३६.४७ ॥

苦乐、有无、得失、生死,这一切轮流降临。所以坚定的人不应欢喜,也不应悲伤。

5.36.48

चलानि हीमानि षडिन्द्रियाणि ।
तेषां यद्यद्वर्धते यत्रयत्र।
ततस्ततः स्रवते बुद्धिरस्य ।
च्छिद्रोदकुम्भादिव नित्यमम्भः ॥ ५.३६.४८ ॥

这六根确实不稳定。它们在何处增长,他的智慧便从何处流失,如同有孔的水罐中的水不断漏出。

5.36.49

तनुरुद्धः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ५.३६.४९ ॥

我曾虚假侍奉的国王丹努鲁陀与尸危,将以战争终结我愚笨的儿子们。

5.36.50

नित्योद्विग्नमिदं सर्वं नित्योद्विग्रमिदं मनः ।
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ५.३६.५० ॥

这一切以及这心意总是不安。请告诉我那无不安的境界,大智者啊。

5.36.51

नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ॥ ५.३६.५१ ॥

我看到,对你而言,平静唯有通过知识与苦行,唯有通过克制诸根,唯有通过真正舍弃贪婪才能获得,无罪者啊。

5.36.52

बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ज्ञानं शान्तिं भोगेन विन्दति ॥ ५.३६.५२ ॥

以智慧驱除恐惧;以苦行获得伟大;以事奉师长获得知识;以享受获得寂静。

5.36.53

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५.३६.५३ ॥

不依赖布施之功德,也不依赖吠陀之功德,脱离贪爱与憎恶,在此游行,寻求解脱。

5.36.54

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५.३६.५४ ॥

善学、善战、善行之业与善修之苦行,其果实最终增长为幸福。

5.36.55

स्वास्तीर्णानि शयनानि प्रपन्ना ।
न वै भिन्ना जातु निद्रां लभन्ते।
न स्त्रीषु राजन्रतिमाप्नुवन्ति ।
न मागधैः स्तूयमाना न सूतैः ॥ ५.३६.५५ ॥

纵然卧于铺设妥当的床榻,分裂之人,大王,终不得安眠;不能在女子中获得欢愉,也不被赞者和御者赞颂。

5.36.56

न वै भिन्ना जातु चरन्ति धर्मं ।
न वै सुखं प्राप्नुवन्तीह भिन्नाः ।
न वै भिन्ना गौरवं प्राप्नुवन्ति ।
न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५.३६.५६ ॥

分裂之人从不行法;分裂之人在此不得幸福;分裂之人不得尊荣;分裂之人不喜爱寂静。

5.36.57

न वै तेषां स्वदते पथ्यमुक्तं ।
योगक्षेमं कल्पते नैव तेषाम्।
भिन्नानां वै मनुजेन्द्र परायणं ।
न विद्यते किञ्चिदन्यद्विनाशात् ॥ ५.३६.५७ ॥

有益的劝告不合他们的心意,他们也无安稳与福祉可言。人主啊,分裂之人没有依靠,除了毁灭之外别无所有。

5.36.58

संपन्नं गोषु संभाव्यं संभाव्यं ब्राह्मणे तपः ।
संभाव्यं चापलं स्त्रीषु संभाव्यं ज्ञातितो भयं ॥ ५.३६.५८ ॥

于牛当期其丰足,于婆罗门当期其苦修,于女子当期其轻浮,于亲族当期其恐惧。

5.36.60

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ ५.३६.६० ॥

分散的亲族冒着烟,而聚在一起的亲族则像火把一样燃烧。婆罗多之雄啊,持国,亲族正是如此。

5.36.61

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५.३६.६१ ॥

在婆罗门、妇女、亲族和牛群之中的英雄,持国啊,他们如同熟透的果实从果柄上坠落。

5.36.62

महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः ।
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥ ५.३६.६२ ॥

即使是一棵孤立生长、高大强壮、根基牢固的大树,一旦被狂风猛烈吹袭,也会连同树干在一瞬间被摧折。

5.36.63

अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः ।
ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात् ॥ ५.३६.६३ ॥

然而成群站立、根基牢固的树木,因彼此依托,能承受最迅猛的狂风。

5.36.64

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥ ५.३६.६४ ॥

同样,一个人即便具备美德,仇敌也会认为他容易被制服,正如风吹倒独自生长的树木。

5.36.65

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ ५.३६.६५ ॥

凭借彼此的扶持与相互依靠,亲族繁荣昌盛,正如湖中的青莲繁盛生长。

5.36.66

अवध्या ब्राह्मणा गावो ज्ञातयः शिशिवः स्त्रियः ।
येषां चान्नानि भुञ्जीत ये च स्युःक शरणागताः।
महत्यप्यपराधेऽपि तेषां दण्डो विसर्जनम् ॥ ५.३६.६६ ॥

婆罗门、牛、亲属、孩童和妇女不可被杀;对于那些曾食其食、前来求庇护的人,即使犯下大罪,所施的惩罚也只是放逐,而非处死。

5.36.67

न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते ।
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ५.३६.६७ ॥

国王啊,人若无财富便无任何德行;愿你吉祥。因为病人在痊愈之前,实与死人无异。

5.36.68

अव्याधिजं कटुकं शीर्षरोगि ।
पापानुबन्धं परुषं तीक्ष्णमुष्णम् ।
सतां पेयं यन्न पिबन्त्यसन्तो ।
मन्युं महाराज पिब प्रशाम्य ॥ ५.३६.६८ ॥

那愤怒并非由疾病而生,苦涩,令人头痛,与罪恶相连,粗暴、尖锐而灼热;善人饮之,恶人不饮。大王啊,平息它,然后饮下。

5.36.69

तन्तवोऽप्यायता नित्यं तनवो बहुलाः समाः ।
बहून्बहुत्वादायासान्सहन्तीत्सुपमा सताम्
रोगार्दिता न फलान्याद्रियन्ते ।
न वै लभन्ते विषयेषु तत्त्वम्।
दुःखोपेता रोगिणो नित्यमेव ।
न बुध्यन्ते धनभोगान्नसौख्यम् ॥ ५.३६.६९ ॥

即便是丝线,总是拉长、细薄、众多而均等,因其繁多而承受许多劳苦——这对善人而言是恰当的比喻。被疾病折磨的人不顾果实,在感官对象中找不到真理;满怀苦恼的病人,始终不能体会享受财富的快乐。

5.36.70

पुरा ह्युक्तं नाकरोस्त्वं वचो मे ।
द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्।
दुर्योधनं वारयेत्यक्षवत्यां ।
कितवत्वं पण्डिता वर्जयन्ति ॥ ५.३६.७० ॥

从前我曾对你说过,你却不听我的话。国王啊,看到德罗波蒂在赌局中被赢走,请阻止难敌。智者远离赌博。

5.36.71

न तद्बलं यन्मृदुना विरुध्यते ।
सूक्ष्मो धर्मस्तरसा सेवितव्यः।
प्रध्वंसिनी क्रूरसमाहिता श्री-
र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ५.३६.७१ ॥

与柔和相抗的不是力量。精微的法应当顺其自然地奉行,而非以力强求。以残忍获得的财富会消亡;以温和成熟的财富则传给子孙。

5.36.72

धार्तराष्ट्राः पाण्डवान्पालयन्तु ।
पाण्डोः सुतास्तव पुत्रांश्च पान्तु।
एकारिमित्राः कुरवो ह्येककार्या ।
जीवन्तु राजन्सुखिनः समृद्धाः ॥ ५.३६.७२ ॥

愿持国之子保护般度之子,愿般度之子保护你的儿子。愿俱卢族同有一个朋友、一个敌人、一个目标。国王啊,愿他们幸福而昌盛地生活。

5.36.73

मेढीभूतः कौरवाणां त्वमद्य ।
त्वय्याधीनं कुरुकुलमाजमीढ।
पार्थान्बालान्वनवासप्रतप्ता-
न्गोपायस्व स्वं यशस्तात रक्षन् ॥ ५.३६.७३ ॥

今日你是俱卢族的支柱,俱卢家族依靠于你。阿遮密陀的后裔啊,请保护被林中流放烤灼的普利塔之子们。亲爱的,在保护他们的同时也守护你自己的名声。

5.36.74

सन्धत्स्व त्वं कौरव पाण्डुपुत्रै-
र्मा नेऽन्तरं रिपवः प्रार्थयन्तु।
सत्ये स्थितास्ते नरदेव सर्वे ।
दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ५.३६.७४ ॥

俱卢之子啊,你要与般度之子和好。愿敌人不要寻找我们的破绽。人主啊,他们都安住于真理之中。人主啊,你要让难敌保持其位。