摩诃婆罗多 · 章 5.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.37.1
सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् ।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ ५.३७.१ ॥
诸王之王啊!自生之子摩奴说过这十七种人,他们用拳头击打天空。毗奇德拉婆利耶之子啊!
5.37.2
तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत् ।
अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥ ५.३७.२ ॥
关于他们,他说起那能拉开因陀罗不可弯之弓的人,同样也说起那抓住不可抓之摩利支之足的人。
5.37.3
यश्चाशिष्यं शास्ति वै यश्च तुष्ये-
द्यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च यो रक्षति भद्रमश्रुते ।
यश्चायाच्यं याचते कत्थते वा ॥ ५.३७.३ ॥
教导非弟子者,无故欢喜者,过度侍奉仇敌者,护卫妇女而得福者,求取不该求取之物者,或自夸者。
5.37.4
यश्चाभिजातः प्रकरोत्यकार्यं ।
यश्चाबलो बलिना नित्यवैरी।
अश्रद्दधानाय च यो ब्रवीति ।
यश्चाकाम्यं कामयते नरेन्द्र । ॥ ५.३७.४ ॥
出身高贵却做不该做之事者,身弱却常与强者结怨者,对不信任者说话者,贪求不该贪求之物者,人主啊!
5.37.5
वध्वाऽवहासं श्वशुरो मन्यते यो ।
वध्वाऽवसन्नभयो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं ।
स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५.३७.५ ॥
视与儿媳玩笑为寻常之事的公公;与儿媳无所畏惧而求尊敬者;在他人田地播种者;过分诋毁女人者。
5.37.6
यश्चापि लब्ध्वा न स्मरामीति वादी ।
दत्त्वा च यः कत्थति याच्यमानः।
यश्चासतः सान्त्वमुपानयीत ।
एतान्नयन्ति निरयं पाशहस्ताः ॥ ५.३७.६ ॥
受恩之后说“我不记得”的人;施舍之后被人请求时却夸耀的人;以及安慰恶人的人——手持绳索者将他们带往地狱。
5.37.7
यस्मिन्यथा वर्तते यो मनुष्य-
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया वर्तितव्यः ।
साध्वाचारः साधुना प्रत्युपेयः ॥ ५.३७.७ ॥
人如何对待他人,就应当如何对待他——这就是法。行欺诈者应以欺诈对待,行善者应以善相报。
5.37.8
जरा रूपं हरति हि धैर्यमाशा ।
मृत्युः प्राणान्धर्मचर्यामसूया
कामो ह्रियं वृत्तमनार्यसेवा ।
क्रोधः श्रियं सर्वमेवाभिमानः ॥ ५.३७.८ ॥
衰老夺走容貌,希望夺走坚定,死亡夺走生命之气,嫉妒夺走法行,欲望夺走羞耻,侍奉不善之人夺走善行,愤怒夺走吉祥,骄慢夺走一切。
5.37.9
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ५.३७.९ ॥
既然在一切吠陀中都说人可活一百岁,那么人为何在此世不能得到这完整的寿命?究竟是何原因?
5.37.10
अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप ।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥ ५.३७.१० ॥
人主啊,过度的傲慢、过度的言辞、不肯舍弃、愤怒、欲害自身,以及背叛朋友——这六者即是。
5.37.11
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते ॥ ५.३७.११ ॥
这些正是锐利的毒箭,切断有形众生的寿命。杀害人的正是它们,而非死亡。愿你吉祥。
5.37.12
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः ।
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ ५.३७.१२ ॥
与信任他的人之妻私通者,玷污师尊床榻者,做低贱女子丈夫的再生族,以及,婆罗多啊,饮酒者。
5.37.13
आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः ।
शरणागतहा चैव सर्वे ब्रह्महणः समाः।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ ५.३७.१३ ॥
充当中间人者,毁坏再生族生计者,驱遣他们者,以及杀害求庇护者——这些人都与杀害婆罗门者相同。与他们交往者必须行赎罪,典籍如是说。
5.37.14
गृहीतवाक्यो नयविद्वदान्यः ।
शेषान्नभोक्ता ह्यविहिंसकश्च।
नानर्थकृत्याकुलितः कृतज्ञः ।
सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ ५.३७.१४ ॥
言语被人听从、通晓正道、慷慨、只食剩余之食、真正不害生、不因行恶而慌乱、知恩、诚实而温和——这样的智者得以升天。
5.37.15
सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ५.३७.१५ ॥
君王啊,说悦耳之言的人总是容易找到;但说不悦耳却有益之言的人,以及愿意听的人,却很稀少。
5.37.16
यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ ५.३७.१६ ॥
依托正法、舍弃主人的喜与恶,说不悦耳却有益之言的人,由他,国王便有了助手。
5.37.17
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ५.३७.१७ ॥
为了家族应当舍弃一人;为了村庄应当舍弃家族。为了国土应当舍弃村庄;为了自身应当舍弃大地。
5.37.18
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ५.३७.१८ ॥
为了灾难应当保护财物,并以财物保护妻子。应当时常保护自己,即使以妻子,也即使以财物。
5.37.19
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम् ।
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ ५.३७.१९ ॥
此赌博在往昔时代已被看到会在人们之间引起仇恨;因此智者即使为了嬉戏也不应沉迷赌博。
5.37.20
उक्तं मया द्यूतकालेऽपि राज-
न्नेदं युक्तं वचनं प्रातिपेय।
तदौषधं पथ्यमिवातुरस्य ।
न रोचते तव वैचित्रवीर्य ॥ ५.३७.२० ॥
大王,我在掷骰之时便已说过;此言甚为恰当。如同对病人有益的良药,你却不喜欢,毗지트拉Vīrya之子啊。
5.37.21
काकैरिमांश्चित्रबर्हान्मयूरान् ।
पराजयेथाः पाण्डवान्धार्तराष्ट्रैः ।
हित्वा सिंहान्क्रोष्टुकान्गूहमानः ।
प्राप्ते काले शोचिता त्वं नरेन्द्रः ॥ ५.३७.२१ ॥
你将以乌鸦之流取胜之方式,把这些羽色斑斓的孔雀——般度五子——输给持国之子。舍弃狮子而掩藏豺狼,待时机来临,人主啊,你必将悲伤。
5.37.22
यस्तात न क्रुध्यति सर्वकालं ।
भृत्यस्य भक्तस्य हिते रतस्य।
तस्मिन्भृत्या भर्तरि विश्वसन्ति ।
न चैनमापत्सु परित्यजन्ति ॥ ५.३७.२२ ॥
亲爱的,那位始终不向忠诚尽力于其利益的仆人发怒的主人,仆人们信任他,即使在患难中也不会离弃他。
5.37.23
न भृत्यानां वृत्तिसंरोधनेन ।
राज्यं धनं सञ्जिघृक्षेदपूर्वम्।
त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः ।
स्निग्धा ह्यमात्या परिहीनभोगाः ॥ ५.३७.२३ ॥
不应断绝仆人的生计,以前所未有的方式夺取王国或财富;受欺骗而转为敌对的仆人会离弃他,失去享受的亲近大臣也会离去。
5.37.24
कृत्यानि पूर्वं परिसङ्ख्याय सर्वा-
ण्यायव्यये चानुरूपां च वृत्तिम्।
सङ्गृह्णीयादनुरूपान्सहायान् ।
सहायसाध्यानि हि दुष्कराणि ॥ ५.३७.२४ ॥
先盘算好所有事务,使生计与收支相称,然后应当聚集合适的助手,因为艰难之事只有借助助手才能完成。
5.37.25
अभिप्रायं यो विदित्वा तु भर्तुः ।
सर्वाणि कार्याणि करोत्यतन्द्री।
वक्ता हितानामनुरक्त आर्यः ।
शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ ५.३७.२५ ॥
能领会主人的意图,不知疲倦地完成一切事务,直言有益之事,忠诚而高尚,且知晓自己能力的人,应当像爱护自己的身体一样爱护他。
5.37.26
वाक्यं तु यो नाद्रियतेऽनुशिष्टः ।
प्रत्याह यश्चापि नियुज्यमानः।
प्रज्ञाभिमानी प्रतिकूलवादी ।
त्याज्यः स तादृक् त्वरयैव भृत्यः ॥ ५.३७.२६ ॥
对于接受教导却不听从、受命时反而顶嘴、自恃聪明而说反话的仆人,应当立即将其舍弃。
5.37.27
अस्तब्धमक्लीबमदीर्घसूत्रं ।
सानुक्रोशं श्लक्ष्णमहार्यमन्यैः।
अरोगजातीयमुदारवाक्यं ।
दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ५.३७.२७ ॥
具备八种品德的使者,指不骄傲、不怯懦、不拖延、有慈悲心、言语温和、不被他人收买、性情健全、言辞高尚的人。
5.37.28
न विश्वासाञ्जातु परस्य गेहे ।
गच्छेन्नरश्चेतयानो विकाले।
न चत्वरे निशि तिष्ठेन्निगूढो ।
न राजकाम्यां योषितं प्रार्थयीत ॥ ५.३७.२८ ॥
谨慎之人不可因信任而擅入他人之家,不可在不适当的时候前往;夜间不可在十字路口隐藏站立,也不可去追求国王所喜爱的女子。
5.37.29
न निह्नवं मन्त्रगतस्य गच्छे-
त्संसृष्टमन्त्रस्य कुसङ्गतस्य।
न च ब्रूयान्नाश्वसिमि त्वयीति ।
सकारणं व्यपदेशं तु कुर्यात् ॥ ५.३७.२९ ॥
对参与谋议的人不可隐瞒,也不可与参与密议而交友不良的人同行;不可说“我不信任你”,而应以合理的理由推托。
5.37.30
घृणी राजा पुंश्चली राजभृत्यः ।
पुत्रो भ्राता विधवा बालपुत्रा।
सेनाजीवी चोद्धृतभूरिरेव ।
व्यवहारेषु वर्जनीयाः स्युरेते ॥ ५.३७.३० ॥
残忍的国王、淫荡的女子、王室仆人、儿子、兄弟、有幼子的寡妇、靠军队谋生的人以及掠夺大量财富的人——这些人在交往中应当回避。
5.37.31
अष्टौ गुणाः पुरुषं दीपयन्ति ।
प्रज्ञा च कौल्यं च श्रुतं दमश्च।
पराक्रमश्चाबहुभाषिता च ।
दानं यथाशक्ति कृतज्ञता च ॥ ५.३७.३१ ॥
八种美德使人光彩照人:智慧、良好的出身、学识、克制、勇力、少言、量力布施,以及感恩。
5.37.32
एतान्गुणांस्तात महानुभावा-
नेको गुणः संश्रयते प्रसह्य।
राजा यदा सत्कुरुते मनुष्यं ।
सर्वान्गुणनेष गुणो बिभर्ति ॥ ५.३७.३२ ॥
亲爱的,这些德性属于大德之人;然而当国王尊重某人时,那单一的德性便强力地依附于他,并承载所有德性。
5.37.33
गुणा दश स्नानशीलं भजन्ते ।
बलं रूपं स्वरवर्णप्रशुद्धिः।
स्पर्शश्च गन्धश्च विशुद्धता च ।
श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ ५.३७.३३ ॥
养成沐浴习惯的人会具备十种品质:力量、容貌、声音与肤色的纯净、触感与香气、洁净、光彩、柔美,以及优秀的女子。
5.37.34
गुणाश्च षण्मितभुक्तं भजन्ते ।
आरोग्यमायुश्च बलं सुखं च।
अनाविलं चास्य भवत्यपत्यं ।
न चैनमाद्यून इति क्षिपन्ति ॥ ५.३७.३४ ॥
进食适度、分为六份的人会得到这些品质:健康、长寿、力量与快乐;他的子孙清净无扰,也无人以贪食斥责他。
5.37.35
अकर्मशीलं च महाशनं च ।
लोकद्विष्टं बहुमायं नृशंसम्।
अदेशकालज्ञममिष्टवेष-
मेतान्गृहे न प्रतिवासयेत ॥ ५.३७.३५ ॥
懒惰不务正业、贪食无度、为民众所憎、满腹诡诈、残忍、不知时地、相貌可厌之人,这些人不可让他们住在家里。
5.37.36
कदर्यमाक्रोशकमश्रुतं च ।
वनौकसं धूर्तममान्यमानिनम्।
निष्ठूरिणं कृतवैरं कृतघ्न-
मेतान्भृशार्तोपि न जातु याचेत् ॥ ५.३७.३६ ॥
即使极度困苦,也绝不可向这些人求助:吝啬者、辱骂者、无学者、如野人般粗鲁者、狡诈者、不配却求尊重者、言辞严厉者、结下仇怨者,以及忘恩负义者。
5.37.37
संक्लिष्टकर्माणमतिप्रमादं ।
नित्यानृतं चादृढभक्तिकं च।
विसृष्टरागं पटुमानिनं चा-
प्येतान्न सेवेत नराधमान्षट् ॥ ५.३७.३७ ॥
不应侍奉这六种卑劣之人:行为败坏者、极度疏忽者、常常说谎者、信仰不坚者、放纵情欲者,以及自以为聪明者。
5.37.38
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः ॥ ५.३७.३८ ॥
目标依赖于盟友,盟友也依赖于目标;二者相互依存,缺一不能成功。
5.37.39
उत्पाद्य पुत्राननृणांश्च कृत्वा ।
वृत्तिं च तेभ्योऽनुविधाय कांचित्।
स्थाने कुमारीः प्रतिपाद्य सर्वा ।
अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥ ५.३७.३९ ॥
生育儿子、还清债务,为他们安排生计,并将所有女儿嫁到合适的人家之后,然后才应立志成为居于森林中的苦行者。
5.37.40
हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।
तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ॥ ५.३७.४० ॥
应当做对一切众生有益、也为自己带来快乐的事。君主更应如此,因为这是成就一切目的的根本。
5.37.41
वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥ ५.३७.४१ ॥
凡具备增长、威势、光彩、勇气、进取与坚定决心的人,又何来失势之忧呢?
5.37.42
पश्य दोषान्पाण्डवैर्विग्रहे त्वं ।
यत्र व्यथेयुरपि देवाः सशक्रा।
पुत्रैर्वैरं नित्यमुद्विग्नवासो ।
यशःप्रणाशो द्विषतश्च हर्षः ॥ ५.३७.४२ ॥
请看与般度之子交战的过失,即使因陀罗及诸神也会因此痛苦:与你的儿子们永远结仇,居于忧惧之中,失去名声,敌人却因此欢喜。
5.37.43
भीष्मस्य कोपस्तव चैवेन्द्रकल्प ।
द्रोणस्य राज्ञश्च युधिष्ठिरस्य।
उत्सादयेल्लोकमिमं प्रवृद्धः ।
श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ५.३७.४३ ॥
毗湿摩的愤怒、你的愤怒、如因陀罗般者的愤怒,以及德罗纳与国王坚战的愤怒,将毁灭这个世界,如同一颗巨大的白色星辰斜斜地坠落于天空。
5.37.44
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ५.३७.४४ ॥
你的一百个儿子、迦尔纳和五位般度之子,本可以统治被大海环绕的整个大地。
5.37.45
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ॥ ५.३७.४५ ॥
大王啊,持国之子是森林,般度之子被视为老虎。不要连同老虎砍伐森林;不要让老虎从森林中消失。
5.37.46
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ५.३७.४६ ॥
没有森林就没有老虎,没有老虎也没有森林。森林由老虎守护,老虎保护林莽。
5.37.47
न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान् ।
यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ ५.३७.४७ ॥
心怀恶念的人想知道他人的优点,远不如想知道他人的缺点那样热切。
5.37.48
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् ।
नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ५.३७.४८ ॥
渴望最高财富成就的人,应从一开始就奉行法;财富不会离开法,正如甘露不会离开天界。
5.37.49
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥ ५.३७.४९ ॥
自我远离罪恶、安住于善的人,已领悟这一切:何者为本然,何者为变异。
5.37.50
यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥ ५.३७.५० ॥
能按时奉行法、利与欲的人,将在今世和来世获得法、利、欲的结合。
5.37.51
सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ५.३७.५१ ॥
能克制从愤怒与喜悦中升起的冲动的人,啊国王,才是吉祥的容器;他即使遭遇灾难也不会迷惑。
5.37.52
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे ।
यत्तु बाहुबलं नाम प्रथमं वलमुच्यते ॥ ५.३७.५२ ॥
人的力量常有五种,请听我讲。所谓臂力,被称为第一种力量。
5.37.53
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ॥ ५.३७.५३ ॥
愿你吉祥。获得良臣被称为第二种力量;智者称获得财富为第三种力量。
5.37.54
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५.३७.५४ ॥
大王,他与生俱来的、从父祖传下的力量,名为贵族之力,被认为是第四种力量。
5.37.55
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥ ५.३७.५५ ॥
婆罗多之子啊,凭借它这一切得以聚集,在诸力量中最为殊胜的,名为智慧之力。
5.37.56
महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५.३७.५६ ॥
若人有能力伤害一位大人物,与之结怨之后,不应因想着"我身在远方"而安心。
5.37.57
स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु ।
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ ५.३७.५७ ॥
对于女人、君王、蛇、自己的师长、主人和敌人,对于享乐和生命,哪位智者会值得去信任?
5.37.58
प्रज्ञाशरेणाभिहतस्य जन्तो-
श्चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि ।
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५.३७.५८ ॥
对于被智慧之箭所射中的众生,既无医者,也无药物;无火祭咒语,无吉祥仪式,无阿闼婆咒,也无配制妥善的解毒剂。
5.37.59
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ॥ ५.३७.५९ ॥
婆罗多啊,蛇、火、狮子与出身高贵的儿子,都具有极大的威力;人不应轻视它们。
5.37.60
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥ ५.३७.६० ॥
世间火的大威力隐藏于木柴之中;在他人点燃之前,那木柴并不会运用它。
5.37.61
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५.३७.६१ ॥
这同一团火,当从木头中钻取点燃后,便以其威力迅速焚毁那木柴和另一片森林。
5.37.62
एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५.३७.६२ ॥
同样,出身于高贵家族、威力如火、能忍耐且形貌不显的人,就像木中之火一样潜伏着。
5.37.63
लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५.३७.६३ ॥
你和你的儿子们如同藤蔓的本性,而般度之子被视为娑罗树;藤蔓若不依附,便永远不会在大树上生长。
5.37.64
वनं राजंस्तव पुत्रोऽम्बिकेय ।
सिंहान्वने पाण्डवांस्तात विद्धि।
सिंहैर्विहीनं हि वनं विनश्येत् ।
सिंहा विनश्येयुर्ऋते वनेन ॥ ५.३७.६४ ॥
大王,您的儿子,阿难比迦之子,就是森林;亲爱的,要知道般度五子是森林中的狮子。没有狮子的森林会毁灭,没有森林,狮子也会灭亡。