Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.39.1

अनीश्वरोऽयं पुरुषो भवाभवे ।
सूत्रप्रोता दारुमयीव योषा।
धात्रा तु दिष्टस्य वशे कृतोऽयं ।
तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ ५.३९.१ ॥

人并非自身兴衰的主宰;如同被线牵着的木偶,他受造物主所定之命运支配。所以你说吧,我正专心聆听。

5.39.2

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुध्द्यवज्ञानमवमानं च भारत ॥ ५.३९.२ ॥

不合时宜的话语,即便出自布利哈斯帕蒂之口,也只会招致对智慧的轻视与羞辱,婆罗多之后。

5.39.3

प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ ५.३९.३ ॥

有人因施舍而受人喜爱,有人因甜言蜜语,有人因谋略之力;受人喜爱者,便是真正被喜爱的人。

5.39.4

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः ।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ ५.३९.४ ॥

被人憎恶者不会变得善良、聪慧或博学;对于所爱者,人们行善事,而对于所恶者,则只行恶事。

5.39.5

उक्तं मया जातमात्रेऽपि राजन् ।
दुर्योधनं त्यज पुत्रं त्वमेकम्।
तस्य त्यागात्पुत्रशतस्य वृद्धि-
रस्यात्यागात्पुत्रशतस्य नाशः ॥ ५.३९.५ ॥

国王啊,我在他出生时就对你说过:舍弃你的一个儿子难敌吧。舍弃他,便能使百子兴旺;不舍弃他,便会使百子覆灭。

5.39.6

न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत् ।
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ ५.३९.६ ॥

带来衰败的增长不值得大加珍视;而带来增长的衰败才值得大加珍视。

5.39.7

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ ५.३९.७ ॥

大王啊,能带来增长的损失不是损失。这里应当视为损失的,是那种得到之后使人毁灭许多的东西。

5.39.8

समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे ।
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ॥ ५.३९.८ ॥

有些人因德行而兴盛,另一些人因财富而兴盛。持国啊,那些因财富而增长却缺乏德行的人,你应当远离。

5.39.9

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् ।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ ५.३९.९ ॥

你所说的一切都适合将来,为智者所认可,但我不能舍弃儿子。哪里有法,哪里就有胜利。

5.39.10

अतीव गुणसंपन्नो न जातुः विनयान्वितः ।
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ ५.३९.१० ॥

德行圆满、谦逊有礼的人,从不忽视对众生哪怕最细微的伤害。

5.39.11

परापवादनिरताः परदुःखोदयेषु च ।
परस्परविरोधे च यतन्ते सततोत्थिताः ॥ ५.३९.११ ॥

那些以诽谤他人为乐、致力于制造他人痛苦、并总是准备互相敌对的人,不停地努力着。

5.39.12

सदोषं दर्शनं येषां संवासे सुमहद्भयम् ।
अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ ५.३९.१२ ॥

那些连看一眼都带着过失的人,与之共处有极大的恐惧。接受财物有大过失,给予财物也有大恐惧。

5.39.13

ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः ।
ये पापा इति विख्याताः संवासे पिरिगर्हिताः ॥ ५.३९.१३ ॥

那些喜欢离间、充满欲望、无耻、狡诈,被称为罪人的人,与他们共处是应受非议的。

5.39.14

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ॥ ५.३९.१४ ॥

应当远离那些带有其他重大过失的人;友情退却时,对卑劣之人的爱便消失了。

5.39.15

या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् ।
यतते चापवादाय यत्नमारभते क्षये ॥ ५.३९.१५ ॥

友情中所带来的满足之果与其中的快乐;那些为诽谤而努力、为毁灭而着手行动的人……

5.39.16

अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति ।
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः ।
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ ५.३९.१६ ॥

即便只是稍受冒犯,他也因迷惑而得不到安宁。智者应以智慧仔细审察与这些卑劣、残忍、心未修炼之人的交往,并从远处加以避开。

5.39.17

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।
स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ॥ ५.३९.१७ ॥

凡怜恤亲族、贫穷、困苦和受病痛之人的,便会因子嗣和牲畜而兴旺,并获得无尽的福祉。

5.39.18

ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ॥ ५.३९.१८ ॥

希望自身安好的人,应当扶养自己的亲族。

5.39.19

कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचरं ।
श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियां ॥ ५.३९.१९ ॥

王中之王啊,因此要为家族的兴旺而善行。国王啊,敬待亲族者必与福祉相连。

5.39.20

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ।
किंपुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ॥ ५.३९.२० ॥

婆罗多的雄牛啊,即使缺乏德行的亲族也应加以保护;何况那些有德行、渴望你恩惠的人呢!

5.39.21

प्रसादं कुरु वीराणां पाण्डवानां विशांपते ।
दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ॥ ५.३९.२१ ॥

人民的主人啊,请向英勇的般度五子施恩;主啊,请赐予他们若干村庄以维持生计。

5.39.22

एवं लोके यशः प्राप्तं भविष्यति नराधिप ।
वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ॥ ५.३९.२२ ॥

人主啊,这样在世间便能获得美名。亲爱的,你作为长者,应当约束你的儿子们。

5.39.23

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ।
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ ५.३९.२३ ॥

我的有益之言你也应当听取;请视我为你的挚友。亲爱的,寻求福祉的人不应与亲族争斗。婆罗多的雄牛啊,应当与亲族共享快乐。

5.39.24

संभोजनं संकथनं संप्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ ५.३९.२४ ॥

应与亲族共餐、交谈、彼此相爱;绝不可有敌对。

5.39.25

ज्ञातयस्तारयन्तीह ज्ञातयो मञ्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मञ्जयन्ति च ॥ ५.३९.२५ ॥

在此世,亲族能救人,亲族也能使人沉沦。品行端正者在此救人,品行恶劣者使人沉沦。

5.39.26

सुवृत्तो भव राजेन्द्र पाण्जवान्प्रति मानद ।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यति ॥ ५.३९.२६ ॥

王中之王啊,授人尊荣者,对般度之子保持良好的品行吧。这样你便不会受敌人侵犯,并将被他们拥戴环绕。

5.39.27

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ ५.३९.२७ ॥

投靠富有亲族却仍然困顿的亲人,便会承受那人的过失,正如手上沾了毒的鹿。

5.39.28

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ ५.३९.२८ ॥

人中之最,你日后也必定痛苦。听闻他们被杀,或你的儿子被杀之后,请好好思量此事。

5.39.29

येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेन न तत्कुर्यादध्रुवे जीविते सति ॥ ५.३९.२९ ॥

人若因某事在病榻上受苦,便不应在一开始就去做那件事,因为生命无常。

5.39.30

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ ५.३९.३० ॥

除了婆利伽婆(Bhārgava)之外,无人能逃脱自己行为的后果。然而行为所余的果报,只停留在智者身上。

5.39.31

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ ५.३९.३१ ॥

人主啊,若难敌先前对他们犯下此罪,你作为家族长辈,应当予以弥补。

5.39.32

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ ५.३९.३२ ॥

人中之最啊,若使他们回到应有的位置,你将在世间无污,受智者敬重。

5.39.33

सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ ५.३९.३३ ॥

若能依其结果审思坚定智者的善言,然后在行事上定夺,便能长久留名于世。

5.39.34

असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ॥ ५.३९.३४ ॥

即便是极有才能之人,若知识运用不当,虽得之亦如不知;已知而不践行,便无用处。

5.39.35

पापोदयफलं विद्वान्यो नारभति वर्धते ॥ ५.३९.३५ ॥

智者若不去做会招致罪业之果的事,便会昌盛。

5.39.36

यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते ।
अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ॥ ५.३९.३६ ॥

愚昧之人若不审思而继续过去所造之罪,便会坠入无底泥沼,陷于险地。

5.39.37

मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत् ।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ ५.३९.३७ ॥

智者应当识别泄露密谋的六个门户;希望财富源源不断的人应当时时守护它们。

5.39.38

मदं स्वप्नपविज्ञानमाकारं चात्मसंभवम् ।
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ॥ ५.३९.३८ ॥

醉意、睡眠、疏忽、从内心自然流露的神色,对邪恶大臣的信任,以及对不善的使者的信任。

5.39.39

द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप ।
त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ॥ ५.३९.३९ ॥

君王啊,知晓这些门户并时时将其关闭、专心践行三目标的人,能够战胜敌人。

5.39.40

नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा ।
धर्मार्थौ वेदुतुं शक्यौ बृहस्पतिसमैरपि ॥ ५.३९.४० ॥

若不学习经典,不侍奉长者,即使与布利哈斯帕蒂相当的人,也无法通晓法与利。

5.39.41

नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति ।
अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ॥ ५.३९.४१ ॥

落入大海的东西便失去了;对不听的人说的话便白费了;无自制者所听的便白费了;没有火的供奉便白费了。

5.39.42

मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत् ।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ ५.३९.४२ ॥

智者应以判断力审察,以智慧反复确认,听闻、见到并了知之后,再与智者结交。

5.39.43

अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ५.३९.४३ ॥

谦逊消除恶名,勇武消除灾祸。忍耐永远消除愤怒,良好的行为消除不祥之兆。

5.39.44

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया ।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ ५.३९.४४ ॥

大王,应当通过随从、田地、住宅、侍奉,以及饮食和衣着来考察一个家族。

5.39.45

उपस्थितसय कामस्य प्रतिवादो न विद्यते ।
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ ५.३९.४५ ॥

面对降临的欲望,没有抵抗之法;即使对已脱离身体者也是如此——何况是沉溺于欲望之人呢?

5.39.46

प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् ।
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ॥ ५.३९.४६ ॥

应当守护那侍奉智者的、有学识的、正直的、相貌可亲的、有朋友的、言语动听的、以及友善的人。

5.39.47

दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत् ।
धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ॥ ५.३९.४७ ॥

无论出身卑微还是高贵,只要不逾越礼法,注重正法,温和且知羞耻,他便胜过百位出身高贵之人。

5.39.48

ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा ।
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ॥ ५.३९.४८ ॥

两人之心与心相契,内心与内心相通,智慧与智慧相合——他们的友谊永不衰败。

5.39.49

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव ।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ५.३९.४९ ॥

智者应当远离心智低劣、见识未开的人,如同被草掩盖的井;与他的友谊便会毁灭。

5.39.50

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ ५.३९.५० ॥

智者不应与傲慢者、愚人、残暴而鲁莽者结交,也不应与舍弃法者结交。

5.39.51

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।
जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ॥ ५.३९.५१ ॥

应当希望以那样的人为友:他感恩、守法、诚实、不狭隘、忠诚坚定、克制感官,且行为端正稳定。

5.39.52

इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ॥ ५.३९.५२ ॥

不约束感官,甚至比死亡更糟;而过度放纵,即便是诸神也会被毁掉。

5.39.53

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ ५.३९.५३ ॥

对一切众生温和,不嫉妒,宽恕,坚定,不轻慢朋友——智者说,这些是延长寿命的品德。

5.39.54

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीपते ।
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ ५.३९.५४ ॥

人主啊,若有人凭借善策,依靠极坚定的判断,夺回被夺走的东西——这便是不怯懦者的誓愿。

5.39.55

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ ५.३९.५५ ॥

知晓未来补救之道、对当下决心坚定、明白过去遗留之事的人,不会失去他的目的。

5.39.56

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ ५.३९.५६ ॥

人以行为、思想和言语所经常实践的,正是那东西将他带走;因此应当践行善行。

5.39.57

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् ।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ ५.३९.५७ ॥

触摸吉祥之物、修行、学问、努力、正直,以及时常拜见善人——这些带来兴盛。

5.39.58

अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च ।
महान्भवत्यनिर्विष्णः सुखं चानन्त्यमश्नुते ॥ ५.३९.५८ ॥

不气馁是福运、利益与善的根本;不沮丧的人会变得伟大,并获得无尽的快乐。

5.39.59

नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं मतम् ।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ ५.३९.५९ ॥

孩子啊,没有比宽恕更尊贵、更有益的了,有权势者应当随处、时时施行宽恕。

5.39.60

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् ।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ ५.३९.६० ॥

弱者应当宽恕,强者也应为了法而宽恕;对于得失同等看待的人而言,宽恕永远有益。

5.39.61

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ ५.३९.६१ ॥

若享受快乐而不失法与利,便可随意受用;不应奉行愚人的誓愿。

5.39.62

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥ ५.३९.६२ ॥

吉祥天女不居于悲苦者、放逸者、无信者、懒惰者、不自制者以及缺乏进取心者之中。

5.39.63

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् ।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥ ५.३९.६३ ॥

恶意之人见人性情正直而知羞,便以为其无能,从而加以侮辱。

5.39.64

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ ५.३९.६४ ॥

吉祥天女因畏惧,不亲近过于高尚、过于慷慨、过于勇猛、过于持守誓愿,或自负智慧之人。

5.39.65

न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च ।
नेषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते।
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ ५.३९.६५ ॥

此吉祥天女既不长居于过于有德之人,也不全然停留在毫无德行之人身上;她不贪求德行,也不眷恋无德。如同发狂的盲牛,吉祥只偶尔停驻于某处。

5.39.66

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥ ५.३९.६६ ॥

吠陀的果实是火祭;所闻之学的果实是品行与德行;女子的果实是欢愉与子嗣;财富的果实是布施与享用。

5.39.67

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् ।
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ ५.३९.६७ ॥

以非法所得之财行祭祀亡者之礼者,死后不享其果报,因为不正当得来的财物是不善之得。

5.39.68

कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ॥ ५.३९.६८ ॥

在荒野、林中险隘、困厄、灾祸与慌乱之中,即便刀兵已举,有刚毅之德的人也无所畏惧。

5.39.69

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ॥ ५.३९.६९ ॥

奋发、克制、能干、不放逸、坚定、记忆,以及经过周密考虑后再行动——应知这些才是兴旺的根本。

5.39.70

तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् ।
हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥ ५.३९.७० ॥

苦行是苦修者的力量,梵(吠陀)是通晓梵者的力量,暴力是不善之人的力量,忍让是有德之人的力量。

5.39.71

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ ५.३९.७१ ॥

有八事能消除违背誓愿之过:水、根、果、乳、祭品、婆罗门之所愿,以及作为良药的师长之言。

5.39.72

न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः ।
सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ॥ ५.३९.७२ ॥

自己所厌恶的,不可施于他人。简言之,这便是法;此外的一切,都由欲望所驱动。

5.39.73

अक्रोधेन जयेत्क्रोधमसाधुं नाधुना जयेत् ।
जयेत्कदर्यं दानेन जयेन्मत्येन चानृतम् ॥ ५.३९.७३ ॥

以不怒胜怒,以善胜恶,以施舍胜吝啬,以真实胜虚妄。

5.39.74

स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि ।
चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ ५.३९.७४ ॥

不可信任女人或狡诈之人、懒惰者、怯懦者、暴躁者、自负于男子气概者、盗贼、忘恩者,以及无神论者。

5.39.75

अभिवादनशीलप्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम् ॥ ५.३९.७५ ॥

对于常常恭敬行礼、侍奉长辈的人,四样东西会增长:名声、寿命、荣誉与力量。

5.39.76

अतिक्लेशेन येऽथोः स्वधर्मस्यानिक्रमेण वा ।
अरेर्वा प्रणिपातेन मा तेषु मनः कृथाः ॥ ५.३९.७६ ॥

不要把心放在那些以极大苦难、或不违背自身本分、或向敌人俯首而获得它们的人身上。

5.39.77

अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ॥ ५.३९.७७ ॥

无知之人值得怜悯;无子嗣的结合值得哀叹;没有食物的臣民值得怜悯;没有国王的国家值得哀叹。

5.39.78

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा ॥ ५.३९.७८ ॥

对于有身之人,道路即是衰老;对于山岳,水即是衰老;对于女子,缺乏欢愉即是衰老;对于心意,刺人的言语即是衰老。

5.39.79

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाह्लीकाः पुरुषस्यानृतं मलम् ॥ ५.३९.७९ ॥

不诵读是吠陀的污垢,不持戒是婆罗门的污垢。Vāhlīka人是大地的污垢,虚妄是人的污垢。

5.39.80

कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ ५.३९.८० ॥

好奇是贤妻的污垢,离家远居是妇女的污垢。

5.39.81

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।
ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ॥ ५.३९.८१ ॥

金的污垢是银,银的污垢是锡。应知锡的污垢是铅,铅的污垢也是污垢。

5.39.82

न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः ।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ ५.३९.८२ ॥

不应以睡眠战胜睡眠,不应以欲望战胜女人。不应以柴薪战胜火,不应以饮酒战胜酒。

5.39.83

यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ ५.३९.८३ ॥

凭布施赢得朋友,在战场上战胜敌人,以饮食赢得妻子的人,他的生命是有成果的。

5.39.84

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥ ५.३९.८४ ॥

拥有千人的人也活着,拥有百人的人也活着。持国啊,请舍弃欲望;无论如何,都无法这样生活。

5.39.85

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ ५.३९.८५ ॥

地上的稻麦、黄金、牲畜与女人,即使全归一人也不足够;见此而不迷惑者,即为智者。

5.39.86

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ॥ ५.३९.८६ ॥

大王啊,我再次对你说:对待你的儿子们要一视同仁。大王啊,若你对自己的儿子与般度之子都能平等相待(那才是最好的)。