Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.4.1

एवमेतन्महाबाहो भविष्यति न संशयः ।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥ ५.४.१ ॥

大臂者啊,事情必将如此,毫无疑问。难敌不会因甜言蜜语而交出王国。

5.4.2

अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥ ५.४.२ ॥

爱子的持国王也将追随他;毗湿摩与德罗纳出于怯懦,迦尔纳与沙恭尼出于愚昧。

5.4.3

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥ ५.४.३ ॥

然而,大力罗摩的这番话与我的见识不合。想要善策的人,首先应当如此行事。

5.4.4

न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन ।
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥ ५.४.४ ॥

对持国王之子,无论如何都不应说温和的话;我认为他心怀恶念,不能以温和来制服。

5.4.5

गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥ ५.४.५ ॥

对驴应温和,对牛应严厉。对心怀恶念的难敌说温和之言的人,是愚人。

5.4.6

मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् ।
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति ॥ ५.४.६ ॥

恶人以为说话温和的人软弱。当温和之时,愚昧之人便不知自己的利益所在。

5.4.7

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥ ५.४.७ ॥

我们就这样做,这里也应当努力。派遣使者去见盟友,让他们调动我们的军队。

5.4.8

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ ५.४.८ ॥

啊,威猛者!愿快速的使者前往沙利耶、德立什塔克图、耶雅特塞那以及所有的柯迦耶人那里。

5.4.9

स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम् ॥ ५.४.९ ॥

难敌必定会向各方派遣使者;那些早已归顺他的人,遵从他先前的命令。

5.4.10

तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥ ५.४.१० ॥

因此,请先迅速地派遣使者去见诸王。这是一件必须完成的大事,这是我的想法。

5.4.11

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ ५.४.११ ॥

应迅速派遣使者去见沙利耶、追随他的诸王,以及居住在东海之滨的薄伽达多王。

5.4.12

अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च ।
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो ॥ ५.४.१२ ॥

也去见无限威力者、猛烈者、心底者、暗迦,以及远见的英雄和光耀者,啊,威猛者!

5.4.13

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
सेनजित्प्रतिबिन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥ ५.४.१३ ॥

请召来布利汉塔、国王森那宾杜、森那吉特、普拉提宾底耶、奇特拉跋摩和苏跋斯图卡。

5.4.14

बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥ ५.४.१४ ॥

跋利迦、文遮刻舍、遮提王、苏跋利婆、苏跋忽、补卢婆,以及大战车武士。

5.4.15

शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ।
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ॥ ५.४.१५ ॥

诸释迦与帕拉婆的国王迦尔纳吠什吒、苏罗利、那提遮,以及再一位国王迦尔纳吠什吒。

5.4.16

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ।
दुर्जयो दन्तवक्रश्च रुक्मी च जनमेजयः ॥ ५.४.१६ ॥

那罗与勇法、护地者、大力者、难胜、牙嘴、鲁克弥,以及遮那陀耶。

5.4.17

आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ।
भूरितेजा देवकश्च एकलव्यः सहात्मजैः ॥ ५.४.१७ ॥

阿沙陀、风速、东守王、大光明的提婆迦,以及伊迦罗婆耶,与他们的儿子们一同。

5.4.18

कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ।
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥ ५.४.१८ ॥

迦鲁沙迦诸王、有力的刹玛陀尔提、憍萨罗之人、利先迦,以及居于西方河岸之地的人们。

5.4.19

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।
जानकिश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥ ५.४.१९ ॥

耆耶特塞那与迦尸王,以及五河之王,不可战胜的闍那吉,以及居于山中的诸王。

5.4.20

जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः ।
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥ ५.४.२० ॥

闍那吉与苏沙尔曼、摩尼曼与耆提摩特萨迦、般舒国之主,以及勇猛的德立斯塔柯图。

5.4.21

तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥ ५.४.२१ ॥

图达与檀陀陀罗,勇猛的布利哈特塞那,阿帕拉吉多与尼沙陀王,斯雷尼曼与婆苏曼亦在其列。

5.4.22

बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥ ५.४.२२ ॥

广力、大力者巴护,攻破敌城者;还有国王海军与其子,勇猛者。

5.4.23

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान् ॥ ५.४.२३ ॥

生起与安隐,王者瓦塔陀那;闻寿与坚寿,勇猛的萨尔瓦之子。

5.4.24

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥ ५.४.२४ ॥

羯陵伽之主俱摩罗,醉于战斗之傲,此诸人都应速派遣,这正是我所愿。

5.4.25

अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः ।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम् ॥ ५.४.२५ ॥

啊,国王,这位有学问的婆罗门是我的御用祭司。让他被派往持国王那里,并通过他把话传给他。

5.4.26

यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः ॥ ५.४.२६ ॥

应当如何对难敌说话,如何对山度王之子那位国王说话,如何对持国说话,如何对战车武士中最优秀的德罗纳说话,就应当如何传达此言。