Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.41.1

अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते ।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ ५.४१.१ ॥

维杜罗啊,如果你的言语中还有未说出的内容,请在我倾听时告诉我;你所说的确是奇妙之事。

5.41.2

धृतराष्ट्र कुमारो वै यः पुराणः सनातनः ।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ ५.४१.२ ॥

德利塔拉施特罗啊,那位古老而永恒的少年——萨纳特苏加塔——宣说了没有死亡,婆罗多的后裔啊。

5.41.3

स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् ।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ ५.४१.३ ॥

大王啊,他将为你讲说所有藏于心中的秘密与显明之事;他是一切智者中的至上者。

5.41.4

किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः ।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ ५.४१.४ ॥

那永恒者再次对我所说的,你难道不知道吗?维杜罗啊,若你的智慧中还有所余,那就由你自己来说。

5.41.5

शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे ।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ ५.४१.५ ॥

我生于首陀罗之胎,因此不敢再说别的;但那少年永恒的智慧,我是知道的。

5.41.6

ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् ।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ ५.४१.६ ॥

若生于婆罗门之胎,即便说出秘密之事,也不会被诸神责备;所以我才对你说这些。

5.41.7

ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ॥ ५.४१.७ ॥

维杜罗啊,请把那古老永恒的(知识)告诉我。此身之中,如何能在此处与之相合?

5.41.8

चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ ५.४१.८ ॥

维杜罗念想那位誓行被称赞的仙人。仙人知其所思,便现身显示,婆罗多啊。

5.41.9

स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ ५.४१.९ ॥

他(维杜罗)依照规定之礼接待了他。待其安坐休息之后,维杜罗便对他说道。

5.41.10

भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ ५.४१.१० ॥

尊者啊,持国心中有一疑惑,我不能说出;您应当向他说明。

5.41.11

यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥ ५.४१.११ ॥

闻此之后,这位人主便可超越一切苦难。

5.41.12

लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ ।
विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ५.४१.१२ ॥

得与失、爱与憎、衰老与死亡,愿它们不扰乱他;恐惧与愤怒、饥渴、由醉而生的(扰乱)、厌倦与昏沉、欲望与愤怒、衰败与兴盛。