Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.42.1

ततो राजा धृतराष्ट्रो मनीषी ।
संपूज्य वाक्यं विदुरेरितं तत्।
सनत्सुजातं रहिते महात्मा ।
पप्रच्छ बुद्धिं परमां बुभूषन् ॥ ५.४२.१ ॥

于是智慧的国王持国,敬重维杜罗所说的话,在私下里向大德的萨那特苏遮陀请教,渴望至高的智慧。

5.42.2

सनत्सुजात यदिमं शृणोमि ।
न मृत्युरस्तीति तवोपदेशम्।
देवासुरा ह्याचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥ ५.४२.२ ॥

萨那特苏遮陀啊,我听闻依您的教导死亡并不存在。诸神与阿修罗为求不死而修持梵行。那么,二者之中何者为真?

5.42.3

अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ५.४२.३ ॥

有人借行动得到不死,另有人说没有死亡。大王,请听我说,不要怀疑它的真实情况。

5.42.4

उभे सत्ये क्षत्रियाद्य प्रवृत्ते ।
मोहो मृत्युः संमतोऽयं कवीनाम्।
प्रमादं वै मृत्युमहं ब्रवीमि ।
तथाऽप्रमादममृतत्वं ब्रवीमि ॥ ५.४२.४ ॥

刹帝利啊,两种真理都已显现。智者认为迷惑即是死亡。我说放逸即是死亡,而不放逸即是不死。

5.42.5

प्रमादाद्वै असुराः पराभव-
न्नप्रमादाद्ब्रह्मभूताः सुराश्च।
नैव मृत्युर्व्याघ्र इवात्ति जन्तू-
न्न ह्यस्य रूपमुपलभ्यते हि ॥ ५.४२.५ ॥

阿修罗因放逸而败亡,诸神因不放逸而成为梵,并获胜利。死亡如老虎般吞噬众生,然而它的形体却无法看见。

5.42.6

यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम्।
पितृलोके राज्यमनुशास्ति देवः ।
शिवः शिवानामशिवोऽशिवानाम् ॥ ५.४२.६ ॥

有人说阎摩不同于死亡:他是自我的居所、不死者、梵行。在祖先之界,神主宰;在吉者中他是湿婆,在不吉者中他是不湿婆。

5.42.7

अस्यादेशान्निःसरते नराणां ।
क्रोधः प्रमादो लोभरूपश्च मृत्युः।
अहं गतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति कश्चित् ॥ ५.४२.७ ॥

依其命令,人中生出愤怒、放逸和贪欲形式的死亡。在歧途中流浪,仿佛我自己已经去了,无人能与自己的自我相合。

5.42.8

ते मोहितास्तद्वशे वर्तमाना ।
इतः प्रेतास्तत्र पुनः पतन्ति।
ततस्तान्देवा अनुविप्लवन्ते ।
अतो मृत्युर्मरणादभ्युपैति ॥ ५.४२.८ ॥

他们被迷惑,处于其权势之下。从此处化为鬼魂离去,又在彼处再次坠落。于是诸神折磨他们。因此死亡由死亡而来。

5.42.9

कर्मोदये कर्मफलानुरागा-
स्तत्रानु ते यान्ति न तरन्ति मृत्युम् ।
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगभोगेन देही ॥ ५.४२.९ ॥

业报生起时,贪著业果者随之前往彼处,无法度过死亡。因不明白与真实目标相合,有身者四面八方为享乐所驱使。

5.42.10

तद्वै महामोहनमिन्द्रियाणां ।
मिथ्यार्थयोगस्य गतिर्हि नित्या।
मिथ्यार्थयोगाभिहतान्तरात्मा ।
स्मरन्नुपास्ते विषयान्समन्तात् ॥ ५.४२.१० ॥

这是诸根的大迷惑,因为与虚妄对象相合的途径是恒常的。内我被与虚妄对象相合所伤,四面八方忆念诸境,不断地依恋它们。

5.42.11

अभिध्या वै प्रथमं हन्ति लोकान् ।
कामक्रोधावनुगृह्याशु पश्चात्।
एते बालान्मृत्यवे प्रापयन्ति ।
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ ५.४२.११ ॥

贪欲首先毁灭世界。它与欲望和愤怒相随,很快便跟随而来。这些把愚人引向死亡,而坚定者以坚忍渡过死亡。

5.42.12

सोऽभिध्यायन्नुत्पतिष्णन्निहन्या-
दनादरेणाप्रतिबुध्यमानः।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा ।
एवं विद्वान्यो विनिहन्ति कामान् ॥ ५.४२.१२ ॥

若有人沉思欲望而起身,因疏忽而未觉醒便被击倒,死亡不会以死亡的面目吞噬他。如此,智者彻底摧毁欲望。

5.42.13

कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ ५.४२.१३ ॥

随从欲望的人会随着欲望而灭亡。抛弃欲望之后,人便抖落一切尘垢。

5.42.14

तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ५.४२.१४ ॥

这地狱,即众生中显现的黑暗,可以看见。他们仿佛迷惑,奔跑着,迫不及待地走向深坑。

5.42.15

अमूढवृत्तेः पुरुषस्येह कुर्या-
त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः ।
अमन्यमानः क्षत्रिय किञ्चिदन्य-
न्नाधीयते तार्ण इवास्य सर्पः ॥ ५.४२.१५ ॥

对于行为不迷惑的人,死亡在此能做什么呢?对他而言,死亡如草,正如草之于老虎。刹帝利啊,他不以他物为念,把死亡视作草,正如草之于蛇。

5.42.16

र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ ५.४२.१६ ॥

如凡人抵达死亡的范围(…)

5.42.17

यानेवाहुरिज्यया साधुलोकान् ।
द्विजातीनां पुण्यतमान्सनातनात्।
तेषां परार्थं कथयन्तीह वेदा ।
एतद्विद्वान्नैति कथं नु कर्म ॥ ५.४२.१७ ॥

据说婆罗门凭祭祀所得的那些永恒、最为功德的善人之界,吠陀在此描述其至高目的。知此之人怎会不趋向行动呢?

5.42.18

एवं ह्यविद्वानुपयाति तत्र ।
तत्रार्थजातं च वदन्ति वेदाः।
सवेह आयाति परं परात्मा ।
प्रयाति मार्गेण निहत्य मार्गान् ॥ ५.४२.१८ ॥

如此,无知者前往彼处;吠陀讲述彼处的诸般目标。他来到此处;至上自我舍弃诸道,循一条路而行。

5.42.19

कोऽसौ नियुङ्क्ते तमजं पुराणं ।
स चेदिदं सर्वमनुक्रमेण।
किं वास्य कार्यमथवा सुखं च ।
तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ ५.४२.१९ ॥

是谁驱使那不生的古老者?若他依次安排这一切,那么他的职责是什么,或他的喜乐是什么?博学者啊,请将一切如实告诉我。

5.42.20

दोषो महानत्र विभेदयोगे ।
ह्यनादियोगेन भवन्ति नित्याः।
तथास्य नाधिक्यमपैति किञ्चि-
दनादियोगेन भवन्ति पुंसः ॥ ५.४२.२० ॥

在此分离的结合中有大过;由于无始的结合,它们成为永恒。同样,其中没有什么会过度或离去;由于无始的结合,它们在人身上生起。

5.42.21

य एतद्वा भगवान्स नित्यो ।
विकारयोगेन करोति विश्वम्।
तथाच तच्छक्तिरिति स्म मन्यते ।
तथार्थयोगेन भवन्ति वेदाः ॥ ५.४२.२१ ॥

这位世尊永恒不变,借变化之结合而造作世界。人们认为这便是他的力量;同样,借目的之结合,吠陀得以成立。

5.42.22

यस्माद्धर्मान्नाचरन्तीह केचि-
त्तथा धर्मान्केचिदिहाचरन्ति।
धर्मः पापेन प्रतिहन्यते स्वि-
दुताहो धर्मः प्रतिहन्ति पापम् ॥ ५.४२.२२ ॥

因为在这里,有些人不奉行法,有些人奉行法。法是被罪恶所击败呢,还是法击败罪恶呢?

5.42.23

तस्मिन्स्थितौ वाप्युभयं हि नित्यं ।
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्।
तथान्यथा पुण्यमुपैति देही ।
तथागतं पापमुपैति सिद्धम् ॥ ५.४२.२३ ॥

在那种状态中,两者始终并存。智者凭借知识战胜成就者。同样,反之,有身者获得功德;同样,到来的罪恶也会降临到成就者身上。

5.42.24

गत्वोभयं कर्मणा युज्यते स्थिरं ।
शुभस्य पापस्य स चापि कर्मणा।
धर्मेण पापं प्रणुदतीह विद्वान् ।
धर्मो बलीयानिति तत्र विद्धिः ॥ ५.४२.२४ ॥

通过行动获得两者,人便牢固地与善和罪相连;这也是通过行动。在此,智者以法驱除罪恶。应知在此事中法更为强大。

5.42.25

यानिहाहुः स्वस्य धर्मस्य लोका-
न्द्विजातीनां पुण्यकृतां सनातनान्।
तेषां क्रमान्कथय ततोऽपि चान्या-
न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ ५.४२.२५ ॥

请告诉我这些永恒之界的次第:人们在此所称的自法之界、再生者之界以及行功德者之界;然后也请说其他的界。智者啊,我想知道此业。

5.42.26

येषां व्रतेऽथ विस्पर्धा बले बलवतामिव ।
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ ५.४२.२६ ॥

那些在誓戒中如强者之力般相互竞争的婆罗门,死后离开此处,前往天界放光明。

5.42.27

येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम् ।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ ५.४२.२७ ॥

对于在法上有竞争之人,这便是获得智慧的途径。那些婆罗门自此解脱,升往三界之天。

5.42.28

तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः ।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ ५.४२.२८ ॥

通晓吠陀之人称赞他的正行为善。无论外在还是内在之人,都不应过分尊重。

5.42.29

यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् ।
अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ ५.४२.२९ ॥

若婆罗门的饮食被视为丰足,如雨季之草与水,则众生因此再度焕发光明。

5.42.30

यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ ५.४२.३० ॥

若对不言者施以不祥之恐惧,并使他如同多余,那人才是更好的,而非他人。

5.42.31

यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत् ।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम्।
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ ५.४२.३१ ॥

若自身不因说话者而烦恼之人,不应享用婆罗门的财物;那食物为善人所认可。瑜伽士知道,吉祥草、树皮、衣物等皆是婆罗门之财。

5.42.32

यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ ५.४२.३२ ॥

正如狗总是吃自己呕吐之物,这对它毫无益处,他们也因侍奉自身之力而食其所吐。

5.42.33

नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ ५.४२.३३ ॥

婆罗门应常想自己的行为无人知晓;然而若居于亲族之中,便不会如此得到任何东西。

5.42.34

कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति ।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ ५.४२.३४ ॥

哪位婆罗门能如此伤害内在的自我?它无相、不动、清净,超越一切对立。

5.42.35

योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ५.४२.३५ ॥

那把真实的自我示人以别样的人,那偷窃自我的盗贼,有哪一桩罪孽没有做过?

5.42.36

अश्रान्तः स्यादनादाता संमतो निरुपद्रवः ।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ ५.४२.३६ ॥

他应不知疲倦,不受施舍,受人尊敬,远离纷扰;虽然品行端正,也不应假装成品行端正之人。这样的婆罗门是梵的知者、智慧的诗人。

5.42.37

अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ ।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ ५.४२.३७ ॥

在人间财富上贫穷,却在神明与祭祀中富有的人——他们难以攻破,难以动摇;应当将他们视为梵的身体。

5.42.38

सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन ।
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ ५.४२.३८ ॥

凡在此视诸神皆为有过之人者,对婆罗门没有敬意;他自己正是在那婆罗门之中努力。

5.42.39

यमप्रयतमानं तु मानयन्ति समाहिताः ।
न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ ५.४२.३९ ॥

心志专一的人敬重那不追求荣誉的人。受到尊敬时,不应自以为受尊敬;遭受侮辱时,不应过度激动。

5.42.40

लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा ।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ ५.४२.४० ॥

世界依其本性常常变化,犹如眨眼开合。想到这里是智者在尊敬人,受尊敬者应当知足。

5.42.41

अधर्मनिपुणा मुढा लोके मायाविशारदाः ।
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ ५.४२.४१ ॥

世间那些精通不义、愚昧、善于欺诈的人,不会尊敬值得尊敬的人。如此想来,受尊敬者应当知足。

5.42.42

न वै मानं च मौनं च सहितौ वसतः सदा ।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ ५.४२.४२ ॥

荣誉与沉默不会总是共处。此世属于荣誉,彼世属于沉默——智者如此知道。

5.42.43

श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ ५.४२.४३ ॥

吉祥(śrī)与荣誉和财富同居,而它本身也是障碍。婆罗门之吉祥极难获得;啊刹帝利,对于缺乏智慧的人来说更是难上加难。

5.42.44

द्वाराणि तस्येह वदन्ति सन्तो ।
बहुप्रकाराणि दुराधराणि।
सत्यार्जवे ह्रीर्दमशौचविद्या ।
षण्मानमोहप्रतिबन्धनानि ॥ ५.४२.४४ ॥

善人在此说,它的门户有许多种,难以把握:真实与正直、羞耻、克制、清净与学问。这六者乃是束缚荣誉与迷妄的枷锁。