Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.43.1

कस्यैष मौनः कतरन्नु मौनं ।
प्रब्रूहि विद्वन्निह मौनभावम्।
मौनेन विद्वानुत याति मौनं ।
कथं मुने मौनमिहाचरन्ति ॥ ५.४३.१ ॥

这是谁的沉默,哪一种才是沉默?博学者啊,请在此解说沉默之境。智者如何以沉默而达到沉默?圣者啊,这里的人们如何修持沉默?

5.43.2

यतो न वेदा मनसा सहैन-
मनुप्रविशन्ति ततोऽथ मौनम्।
यत्रोत्थितो वेदशब्दस्तथायं ।
स तन्मयत्वेन विभाति राजन् ॥ ५.४३.२ ॥

因为诸吠陀不与心一同进入其中,所以那是沉默。吠陀之声响起之处,此境也同样存在。大王啊,他因充满于此而光耀。

5.43.3

ऋचो यजूंषि यो वेद सामवेदं च वेद यः ।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ ५.४३.३ ॥

知晓梨俱诗与夜柔文句、也知晓娑摩吠陀的人,虽造作罪业,为何不被罪所沾染?

5.43.4

नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् ।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ ५.४३.४ ॥

娑摩歌、梨俱诗或夜柔文句,都不能使无智者免于行为之罪。我不妄语。

5.43.5

न च्छन्दांसि वृजिनात्तारयन्ति ।
मायाविनं मायया सर्वमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ५.४३.५ ॥

吠陀不能把以幻术弯折一切的欺诈者渡过罪业。正如禽鸟羽翼长成便离开巢穴,临终之时,吠陀也离弃他。

5.43.6

न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण ।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ५.४३.६ ॥

博学者啊,若吠陀不能庇护通晓吠陀之人,那么婆罗门这永恒的哀叹又是为何?

5.43.7

तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ ५.४३.७ ॥

以他的名称等特殊形相,此世界得以显现,大威德者啊。吠陀正确地指示他,并阐说宇宙的多样性。

5.43.8

तदर्थयुक्तं तप एतदिज्या ।
ताभ्यामसौ पुण्यमुपैति विद्वान्।
पुण्येन पापं विनिहत्य पश्चा-
त्संजायते ज्ञानविदीपितात्मा ॥ ५.४३.८ ॥

此苦行与祭祀正是朝向那一目标。智者借这二者获得功德;以功德消除罪恶之后,他便带着被知识照亮的自我而降生。

5.43.9

ज्ञानेन चात्मानमुपैति विद्वा-
नथान्यथा वर्गफलानुकाङ्क्षी।
अस्मिन्कृतं तत्परिगृह्य सर्व-
ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ ५.४३.९ ॥

智者借知识而得自我;否则便是渴望诸多祭仪果报之人。把此世所作的一切带去,他在彼世享受,然后又回到轮回之道。

5.43.10

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते ।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ ५.४३.१० ॥

在此世所行苦行的果报,在他处享受。婆罗门的这些世界系于成熟的苦行。

5.43.11

ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् ।
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥ ५.४३.११ ॥

婆罗门的苦行十分兴盛;他人的苦行则只是如此。这种完全兴盛的苦行,若再极度兴盛,仍只是苦行而已。

5.43.12

कथं समृद्धमप्यृद्धं तपो भवति केवलम् ।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ५.४३.१२ ॥

苦行虽已兴盛,为何仍只是苦行?萨纳特苏阇多啊,请告诉我们,使我们能够明白。

5.43.13

निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते ।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ ५.४३.१३ ॥

这无垢的苦行才被称为纯粹的苦行。即便是繁盛兴旺的苦行,也唯有凭借它才成为纯粹的苦行。

5.43.14

तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय ।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ ५.४३.१४ ॥

刹帝利啊,你所问的一切都根植于苦行。知晓吠陀的智者正是凭借苦行,获得无上的甘露,即不死。

5.43.15

कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः ।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ ५.४३.१५ ॥

请告诉我苦行的污垢,并说闻学(śruta)即是无垢的苦行。萨那突遮多啊,请告诉我,借由什么才能知晓这秘密而永恒的真理。

5.43.16

क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि दश त्रि राजन्।
धर्मादयो द्वादशैते पितॄणां ।
शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ५.४३.१६ ॥

国王啊,愤怒等十二种是过失,残暴之行有十三种。以法(dharma)为首的这十二种,是祖先的品德,经典中已为再生者所知。

5.43.17

क्रोधः कामो लोभमोहौ विधित्सा-
ऽकृपाऽसूये मानशोकौ स्पृहा च।
ईर्ष्या जुगुप्सा च मनुष्यदोषा ।
वर्ज्याः सदा द्वादशैते नराणाम् ॥ ५.४३.१७ ॥

愤怒、欲望、贪婪与迷惑、加害之念(vidhitsā)、无慈悲、嫉妒、傲慢与悲伤、渴求、妒忌与鄙视——人的这十二种过失,应当时时远离。

5.43.18

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ ५.४३.१८ ॥

国王之主啊,这些过失一一伺候在人身边,渴望在其中寻得空隙,正如猎人伺伏于鹿群之中。

5.43.19

विकत्थनः स्पृहयालुर्मनस्वी ।
बिभ्रत्कोषं चपलो रोषणश्च।
एतान्पापाः षण्णराः पापधर्मान् ।
प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ ५.४३.१९ ॥

夸夸其谈者、贪求者、心高气傲者、持财者、轻浮者与易怒者——这六种有罪之人行恶业,以恐吓使我们在这极难攻破的堡垒中受苦。

5.43.20

संभोगसंविद्विषमोऽतिमानी ।
दत्तानुतापी कृपणो बलीयान्।
वर्गप्रशंसी वनितासु द्वेष्टा ।
एते परे सप्त नृशंसवर्गाः ॥ ५.४३.२० ॥

在享受与约定中不公者、过分傲慢者、对所施予之物后悔者、吝啬者、强者、赞美自己派系者、憎恶女人者——这便是另外七类残忍之人。

5.43.21

धर्मश्च सत्यं च दमस्तपश्च ।
आमात्सर्यं ह्रीस्तितिक्षानसूया।
यज्ञश्च दानं च धृतिः श्रुतं च ।
व्रतानि वै द्वादश ब्राह्मणस्य ॥ ५.४३.२१ ॥

法与真实、克己与苦行、无嫉妒、知耻、忍耐、不挑剔、祭祀与布施、坚定与闻学——这便是婆罗门的十二种誓戒。

5.43.22

यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः ।
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य-
स्तस्य स्वमस्तीति स वेदितव्यः ॥ ५.४३.२२ ॥

若能以这十二者自持,即便统治整个大地,他便是合适之人;而若有三人、二人或一人向他求取财物,他的财富便应被视为属于他自己。

5.43.23

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् ।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ ५.४३.२३ ॥

克己、舍弃与不放逸——甘露安置于其中;有智慧的婆罗门称这些以真实为首要。

5.43.24

दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ ५.४३.२४ ॥

克制有十八种过失,它们在内心以相反的形式出现:虚妄、嫉妒、欲望与求利之念,以及贪求。

5.43.25

क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च ।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ ५.४३.२५ ॥

愤怒、忧愁、渴爱、贪婪、谗毁、嫉妒、残害、懊恼与不乐。

5.43.26

अपस्मारश्चातिवादस्तथा संभावनात्मनि ।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ ५.४३.२६ ॥

若能摆脱这些过失——失念、过分夸耀与自我抬高——者,善人称之为已调伏者。

5.43.27

मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः ।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ ५.४३.२७ ॥

傲慢有十八种过失;舍弃有六种。这些被记为其相反之物,傲慢的过失也已宣说。应当远离前面所说的克制之过失。

5.43.28

श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ ५.४३.२८ ॥

六种舍弃中,更为殊胜;其中第三种最难做到。借此可以渡过苦,在其中有所破开,并在所作(自我)中获得胜利。

5.43.29

श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ ५.४३.२९ ॥

六种舍弃中更为殊胜:得到财富而不欢喜者;第二种是祭祀与公益之事,依恒常离欲之瑜伽而成。

5.43.30

कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ।
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ ५.४३.३० ॥

哦,诸王之主!舍弃欲望被称为第三者。人们甚至称之为不可言说;它被认为是第三种德性。

5.43.31

त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः ।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ ५.४३.३१ ॥

由舍弃的财物所成就者,并非由出于欲望而享用的财物所成就;而不由财物所成就者,也不由出于欲望而享用的财物所成就。

5.43.32

न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् ।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ ५.४३.३२ ॥

事业未成时,你不应悲伤,心也不应沮丧。即使拥有财富的人,也应具备所有这些德性。

5.43.33

अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति ।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ ५.४३.३३ ॥

即使发生令人不快之事,他也绝不陷于痛苦;他也绝不应当求取心爱的儿子与妻子。

5.43.34

अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् ।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ ५.४३.३४ ॥

对请求的有德之人,应当给予;这便成为吉祥。应当在这些事上保持警觉,他也会具备八种德性。

5.43.35

सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च ।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च ॥ ५.४३.३५ ॥

真实、禅修、定心、勤勉、离欲、不偷盗、梵行,以及不积聚。

5.43.36

एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् ।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ ५.४३.३६ ॥

如此已说明了沉醉的过失;应当彻底舍弃这些过失。同样,舍弃与不放逸,这也被认为具有八种德性。

5.43.37

अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् ।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ ५.४३.३७ ॥

放逸有八种过失;应当舍弃这些过失——包括五根与意,啊婆罗多——以及过去与未来之事;具足解脱者便得快乐。

5.43.38

सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः ।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ ५.४३.३८ ॥

啊,诸王之主,应以真实为自性;诸世界建立于真实之中。它们被称为以真实为面,因为不死正安立于真实之中。

5.43.39

निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् ।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ ५.४३.३९ ॥

唯有远离过失者,才应在此修行苦行与誓愿。此行为由造物主所定;唯真实才是善人的誓愿。

5.43.40

दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ ५.४३.४० ॥

远离这些过失,具足这些德性,此苦行便极为丰盛,而成为圆满。

5.43.41

यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते ।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ ५.४३.४१ ॥

啊,诸王之主,你所问的,我简要地告诉你:此能除罪,富有功德,并除去生、死与老。

5.43.42

आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः ।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ ५.४३.४२ ॥

以《往事》为第五的吠陀,人们大多如此说;同样,其他人谈四吠陀、三吠陀,还有别的人也如此。

5.43.43

द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ ५.४३.४३ ॥

精通两部吠陀者、精通一部吠陀者,以及不通颂诗的其他人。其中,我确实所知的那位再生者是哪一位?

5.43.44

एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ ५.४३.४४ ॥

由于对唯一吠陀的无知,许多吠陀被制造出来。啊,王中之王,唯有在那唯一的真理中,才有某人坚定地住立。

5.43.45

एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते ।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ ५.४३.४५ ॥

不如此了解吠陀,却自认为有智慧;布施、学习和祭祀,都只是由贪欲而生起。

5.43.46

सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ ५.४३.४६ ॥

对于那些背离真理的人,他们的决心便成为虚妄;于是,因为没有坚定地持守真理,祭祀便大肆铺张。

5.43.47

मनसान्यस्य भवति वाचान्यस्याथ कर्मणा ।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ ५.४३.४७ ॥

意念中是一样,言语中是另一样,行动中又是另一样;在决心上成就的人,才能主宰自己的决心。

5.43.48

अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् ।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ ५.४३.४८ ॥

应无欺诈地为此奉行受戒之誓。'名'一词源自词根;对于善人而言,真实才是至上。

5.43.49

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ ५.४३.४९ ॥

知识以直接与间接两种方式产生,苦行亦然。应当把多诵的再生者仅视为多诵之人。

5.43.50

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् ।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ ५.४३.५० ॥

因此,刹帝利啊,不要仅凭言语就认为某人是再生者。那从不离开真实的人,才应被你认作婆罗门。

5.43.51

छन्दांसि नाम क्षत्रिय तान्यथर्वा ।
पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा ।
न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ ५.४३.५१ ॥

刹帝利啊,这些被称为韵律;往昔阿塔尔凡与众大仙吟唱了它们。即使未曾学习吠陀的晓韵之人,也确实知道应由吠陀所知的真理。

5.43.52

छन्दांसि नाम द्विपदां वरिष्ठ ।
स्वच्छन्दयोगेन भवन्ति तत्र।
छन्दोविदस्ते न च तानधीत्य ।
गता न वेदस्य न वेद्यमार्याः ॥ ५.४३.५२ ॥

两足者中最优秀的人啊,韵律实则由自主与修习的结合而生。晓韵之人并非通过诵读而知之;雅利安人也未能得到吠陀中应知的真理。

5.43.53

न वेदानां वेदिता कश्चिदस्ति ।
कश्चित्त्वेतान्बुद्ध्यते वापि राजन्।
यो वेद वेदान्न स वेद वेद्यं ।
सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ५.४३.५३ ॥

没有真正通晓吠陀的人。大王啊,又有谁能真正领会它们呢?知晓吠陀者并不知晓所应知之物;安住于真理者,才知晓所应知之物。

5.43.54

न वेदानां वेदिता कश्चिदस्ति ।
वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं ।
यो वेद वेद्यं न स वेद सत्यम् ॥ ५.४३.५४ ॥

没有真正通晓吠陀的人。吠陀不能通过所应知之物而被知晓,所应知之物也不能被知晓。知晓吠陀者知晓所应知之物;知晓所应知之物者,并不知晓真理。

5.43.55

यो वेद वेदान्स च वेद वेद्यं ।
न तं विदुर्वेदविदो न वेदाः।
तथापि वेदेन विदन्ति वेदं ।
ये ब्राह्मणा वेदविदो भवन्ति ॥ ५.४३.५५ ॥

知晓吠陀并知晓所应知之物的人,连吠陀通晓者和吠陀本身都不认识他。然而成为吠陀通晓者的婆罗门,借吠陀而认识吠陀。

5.43.56

धामांशभागस्य तथा हि वेदा ।
यथा च शाखा हि महीरुहस्य।
संवेदने चैव यथामनन्ति ।
तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ ५.४३.५६ ॥

吠陀确实是那部分之居所,正如枝条属于大树。在知识上也同样如此——在那关乎至上我的真理之中。

5.43.57

अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् ।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥ ५.४३.५७ ॥

我认识一位善于阐释的贤明婆罗门。唯有疑惑已断之人,才能阐明一切疑问。

5.43.58

नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम् ।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ ५.४३.५८ ॥

寻找他不应走向东方,也不应走向南方;也不应走向北方。那么怎样才能以任何方式将其引向斜方呢?

5.43.59

तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन ।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ ५.४३.५९ ॥

寻找他不应以任何方式走向对手之间。不在吠陀中寻找他,苦行便能见到那位主宰。

5.43.60

तूष्णींभूत उपासीत न चेष्टेन्मनसापि च ।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ ५.४३.६० ॥

保持沉默而坐,甚至心中也不作任何动念。转向那在内在自我中闻名的梵。

5.43.61

मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ५.४३.६१ ॥

不因沉默而成为圣人,也不因住在森林而成为圣人。然而知道自己本性的人,才被称为最优秀的圣人。

5.43.62

सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ ५.४३.६२ ॥

因为他剖析一切意义,所以被称为语法家。他从根本上阐明语法;事情就是如此。

5.43.63

प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ ५.४३.६३ ॥

直接见到诸世界的人可以成为全知者。安住于真理中的婆罗门,知道这一点,便成为全知者。

5.43.64

धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति ।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ ५.४३.६४ ॥

即使刹帝利安住于法等之中,也如此见到梵。依照吠陀的次第,我以此智慧告诉你。