Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.49.1

समवेतेषु सर्वेषु तेषु राजसु भारत ।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ ५.४९.१ ॥

婆罗多啊,在聚集的那些国王之中,山赡之子毗湿摩对难敌说了这番话。

5.49.2

बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।
मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह ॥ ५.४९.२ ॥

木星与乌舍那在梵天身边侍立;摩录多与因陀罗同在,婆苏与火神同在。

5.49.3

आदित्याश्चैव साध्याश्च ये च सप्तर्पयो दिवि ।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥ ५.४९.३ ॥

诸阿提耶、诸萨地耶,天上的七仙人,乾闼婆毗首婆苏,以及吉祥的阿普萨拉斯群。

5.49.4

नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ ५.४९.४ ॥

他们行礼之后,来到世界中最年长的祖父身边,环绕万有之主而坐。

5.49.5

तेषां मनश्च तेजश्चाप्याददानाविवौजसा ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥ ५.४९.५ ॥

仿佛以自身的威力夺走了他们的心神与光辉,先前的神祇——仙人那罗与那罗衍那——已经经过了。

5.49.6

बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति ।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥ ५.४९.६ ॥

于是木星问梵天道:“这两位是谁,他们不侍奉您?祖父啊,请告诉我们。”

5.49.7

यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥ ५.४९.७ ॥

这两位苦行者照亮大地与天空,燃烧而光辉,遍布一切又超越一切,大力无比。

5.49.8

नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ ॥ ५.४९.८ ॥

这二位那罗与那罗延,从一界游至另一界而住,以自身苦行而强盛,具有伟大的勇气与威力。

5.49.9

एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् ।
द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ ।
असुराणां विनाशाय देवगन्धर्वपूजितौ ॥ ५.४९.९ ॥

这二位确实以其功业使世界欢喜。梵天啊,你要知道,他们分为二身,是大智者,是焚烧敌人的人,为消灭阿修罗而受天神与乾达婆的供奉。

5.49.10

जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥ ५.४९.१० ॥

闻此,帝释天便前往那二位修苦行之处,率领诸天众,以木星为首。

5.49.11

तदा देवासुरे युद्धे भये जाते दिवौकसाम् ।
अयाचत महात्मानौ नरनारायणौ वरम् ॥ ५.४९.११ ॥

当时,天神与阿修罗交战,天界诸神生起恐惧,于是他们向大灵魂那罗与那罗延求一恩典。

5.49.12

तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।
अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति ॥ ५.४९.१२ ॥

于是那二位说:“请求恩典吧。”婆罗多之最,于是帝释天对这二位说:“愿为我们提供援助。”

5.49.13

ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥ ५.४९.१३ ॥

于是二人对因陀罗说:“您想要什么,我们便做什么。”与他们同在的因陀罗战胜了提耶人与檀那婆。

5.49.14

नर इन्द्रस्य संग्रामे हत्वा शत्रून्परन्तपः ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ ५.४९.१४ ॥

在为因陀罗而战的战斗中,灭敌者那罗杀死了波罗摩与迦罗khañja,成千上百之众。

5.49.15

एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः ।
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ॥ ५.४९.१५ ॥

他站在旋转的战车上,用一支薄刃箭斩下了正在吞噬他的遮婆的头颅——这正是阿周那在战斗中所做的。

5.49.16

एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।
हत्वा षष्टिं सहस्राणि निवातकवचान्रणे ॥ ५.४९.१६ ॥

他越过大海攻入金城Hiraṇyapura,并在战斗中杀死了六万名尼婆多迦婆查。

5.49.17

एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः ।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥ ५.४९.१७ ॥

这位攻取敌城的大臂阿周那,与因陀罗一同战胜诸神,使生火者(阿耆尼)得到满足。

5.49.18

नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ।
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ॥ ५.४९.१८ ॥

那罗延(Nārāyaṇa)在此同样又杀死了许多其他人。如此,这两位都具有大力;请看这两位在此相会的英雄。

5.49.19

वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ।
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ॥ ५.४९.१९ ॥

婆苏提婆与阿周那两位英雄大车战士已会合。那罗与那罗延二神,即古之天神,श्रुति如是说。

5.49.20

अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ।
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः।
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥ ५.४९.२० ॥

在人间,此二人即使天神与阿修罗连同因陀罗,也不能征服。这位是那罗延,黑天;而法尔古那被记为那罗。那罗延与那罗实为一体,分而为二。

5.49.21

एतौ हि कर्मणा लोकानश्रुवातेऽक्षयान्ध्रुवान् ।
तत्रतत्रैव जायेते युद्धकाले पुनःपुनः ॥ ५.४९.२१ ॥

此二人凭其业行,得不灭、恒住之界。在战时,他们一再投生,此处彼处。

5.49.22

तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥ ५.४९.२२ ॥

故应行业,那罗陀如是说。此通晓吠陀者,将这一切告诉了毗溼尼族。

5.49.23

शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥ ५.४९.२३ ॥

当你见到手持法螺、轮与杵的羯舍婆,以及执持诸般兵器的可怖神弓阿周那时,

5.49.24

सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ ।
दुर्योधन तदा तात स्मर्तासि वचनं मम ॥ ५.४९.२४ ॥

两位永恒伟大的黑天并立于一车之上。那时,亲爱的难敌啊,你将会想起我的话。

5.49.25

नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः ।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥ ५.४९.२५ ॥

否则,这场毁灭将降临库卢族。亲爱的孩子,你的智慧已被蒙蔽,无论是在财富方面还是在法方面。

5.49.26

न चेद्ग्रहीष्यसे वाक्यं श्रोतामि सुबहून्हतान् ।
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥ ५.४९.२६ ॥

如果你不听从我的话,我将听到许多人被杀的消息。所有库卢人都在等待你的决断。

5.49.27

त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ ५.४९.२७ ॥

只有你一人认同这三人的意见。而且,婆罗多族的雄牛啊,你也只认同被罗摩诅咒的迦尔纳的意见。

5.49.28

दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च ।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥ ५.४९.२८ ॥

出身low贱的御者之子,苏波罗之子沙枯尼,以及同样卑劣邪恶的兄弟难降,他们的意见。

5.49.29

नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥ ५.४९.२९ ॥

祖父啊,您长寿之人,不该这样对我说。我坚守刹帝利之法,从未背离自己的法。

5.49.30

किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे ।
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥ ५.४९.३० ॥

我身上是否还有别的恶行,以致您如此责备我?般度之敌的诸子从未知道我有过任何过失。

5.49.31

नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः ।
अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् ॥ ५.४९.३१ ॥

我从未对持国之子做过任何不义之事。凡在战场上站立的般度诸子,我定会全部杀死。

5.49.32

प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः ।
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥ ५.४९.३२ ॥

与先前敌对之人,善人又怎能再度讲和?国王持国的一切事务于我皆为可贵,难敌之事亦然;他已稳固地立于王国之中。

5.49.33

कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः ।
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥ ५.४९.३३ ॥

闻听迦尔纳之言,商苏之子毗湿摩再次对大王持国说出了这番话。

5.49.34

यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति ।
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥ ५.४९.३४ ॥

此人常自夸说:“我要杀死般度诸子。”然而他连那些大德的般度诸子的一个完整十六分之一也比不上。

5.49.35

अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ ५.४९.३५ ॥

降临在你那些心术不正之子身上的灾祸,正是由此而来;所以你应当看清这个愚昧的御者之子的所作所为。

5.49.36

एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान् ॥ ५.४९.३६ ॥

你那愚钝的儿子难敌依仗此人,轻慢了那些英雄——诸神之子、制服敌人者。

5.49.37

किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम् ।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥ ५.४९.३७ ॥

即使他做了那件极难的事,从前那些般遮罗之子中每一位都曾做过。

5.49.38

दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥ ५.४९.३८ ॥

当他看见心爱的兄弟在毗罗吒城被勇猛作战的持明(阿周那)所杀时,那时他做了什么?

5.49.39

सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥ ५.४९.३९ ॥

他们都精通武器,都是英雄,都获得了大名;即使放弃诸天的全部尊荣,也不会再放弃胜利。

5.49.40

सहितान्हि कुरून्सर्वानभियातो धनञ्जयः ।
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ॥ ५.४९.४० ॥

财富胜(阿周那)冲击了聚集在一起的全体俱卢人,击溃他们,甚至夺走了他们的衣服;那时此人却远行在何处?

5.49.41

गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥ ५.४९.४१ ॥

当你的儿子在牛栏巡游中被乾闼婆掳走时,那现在像公牛般咆哮的御者之子当时身在何处?

5.49.42

ननु तत्रापि भीमेन पार्थेन च महात्मना ।
यमाभ्यामेव संगम्य गन्धर्वास्ते पराजिताः ॥ ५.४९.४२ ॥

在那里,不正是毗摩和高尚的贡蒂之子,与两位双生子联手,击败了那些乾闼婆吗?

5.49.43

एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥ ५.४९.४३ ॥

婆罗多之雄啊,他这些话多半是虚妄的。愿自夸者平安,他总是败坏法与利。

5.49.44

भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः ।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥ ५.४९.४४ ॥

婆罗堕阇之子(德罗纳)大智者听了毗湿摩的话,在诸王之中表示尊重,对持国王说了这番话。

5.49.45

यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममवलिप्तानां वचनं कर्तुमर्हसि ॥ ५.४९.४५ ॥

婆罗多之最的毗湿摩所说,大王啊,应当照办。你不应依从傲慢者的欲望去履行他们的言辞。

5.49.46

पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम् ।
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥ ५.४९.४६ ॥

我认为在战争之前与般度诸子和解为好:这是阿周那所说、由桑阇耶转达的话。

5.49.47

सर्वं तदभिजानामि करिष्यति च पाण्डवः ।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ ५.४९.४७ ॥

这一切我都知道,般度之子也会这样做。三界之中没有能与他相比的射手。

5.49.48

अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान् ॥ ५.४९.४८ ॥

无视德罗纳与毗湿摩那些合乎道理的话,国王便向桑阇耶询问般度诸子的情况。

5.49.49

तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ५.४९.४९ ॥

那时,所有俱卢族人对生命感到绝望,因为国王不肯好好回应毗湿摩和德罗纳。