摩诃婆罗多 · 章 5.50
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.50.1
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः ॥ ५.५०.१ ॥
那位法之子潘度王说了什么?听说这里聚集了许多军队,只为让我们高兴。
5.50.2
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः ।
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो सुखम् ॥ ५.५०.२ ॥
御者啊,那位即将参战的坚战在做什么?他兄弟的儿子们中,谁渴望他的命令,正欢喜地看着他?
5.50.3
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः ।
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥ ५.५०.३ ॥
谁阻止他作战,或者谁又说“愿和平”而阻止他?那位知法、行法的人,被愚人以诡计激怒。
5.50.4
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥ ५.५०.४ ॥
般遮罗人与般度之子们一同凝视国王的面容。愿坚战吉祥;他教导众人。
5.50.5
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥ ५.५०.५ ॥
般度之子与般遮罗人各自分开的战车队列,迎接前来的贡蒂之子坚战。
5.50.6
नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम् ॥ ५.५०.६ ॥
如天空中升起的太阳,般遮罗人也回应欢迎这位光辉炽烈的贡蒂之子,仿佛光明之聚升起。
5.50.7
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् ।
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम् ॥ ५.५०.७ ॥
牧牛人与牧羊人欢欣地迎接坚战;般遮罗、盖耶及摩蹉人也迎接般度之子。
5.50.8
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् ॥ ५.५०.८ ॥
婆罗门妇女、公主和平民之女嬉戏而来,只为看一看披甲的普利塔之子。
5.50.9
सञ्जयाचक्ष्व येनास्मान्पाडवा अभ्ययुञ्जत ।
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च ॥ ५.५०.९ ॥
桑闍耶啊,请告诉我,般度之子如何以持国子的军队与索摩迦的兵力攻击我们。
5.50.10
गवल्गणिस्तु तत्पुष्टः सभायां कुरुसंसदि ।
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥ ५.५०.१० ॥
然而,高婆伽纳之子桑闍耶因此心神不定,在俱卢大会中一再深深长叹,仿佛陷入沉思。
5.50.11
तत्रानिमित्ततो वैवात्सुतं कश्मलमाविशत् ।
तदाचचक्षे विदुरः सभायां राजसंसदि ॥ ५.५०.११ ॥
那时,无缘无故,瓦特萨之子(维杜拉)便昏厥过去;维杜拉在王会中将此事宣告。
5.50.12
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि ।
वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः ॥ ५.५०.१२ ॥
大王啊,这位桑闍耶已昏倒在地;他失去理智、意识微弱,一句话也说不出来。
5.50.13
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् ।
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥ ५.५०.१३ ॥
桑闍耶确实看见了昆蒂之子那些大车战士;那些人中之虎使他的心深受震动。
5.50.14
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदभब्रवीत् ।
धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥ ५.५०.१४ ॥
桑闍耶恢复知觉、平静下来后,在俱卢众的议会上对大王持国说了这些话。
5.50.15
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।
मत्स्यराजगृहावासनिरोधेनावकर्शितान् ॥ ५.५०.१५ ॥
大王啊,我看见了昆蒂之子那些大车战士,他们因居住在摩差王的宫中而受到拘禁,已经憔悴消瘦。
5.50.16
श्रृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ।
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत ॥ ५.५०.१६ ॥
请听,大王:般度之子与那些人联合作战——与英雄德里什塔丹尤姆那一起。Vaste……他们在战斗中结合起来。
5.50.17
यो नैव रोपान्न भयान्न लोभान्नार्थकारणात् ।
न हेतुवादाद्धर्मात्मा सत्यं जाह्यात्कदाचन ॥ ५.५०.१७ ॥
心存正法之人,从不因愤怒、恐惧、贪欲、为财富、或诡辩而舍弃真理。
5.50.18
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ ५.५०.१८ ॥
大王啊,他是正法的准绳,是持法者中最优秀的——般度之子与这位不敌之王联合。
5.50.19
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन ।
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ।
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ॥ ५.५०.१९ ॥
大地之上无人能与他的臂力相比。这位弓手使所有国王臣服于他,并在战斗中征服了迦尸、盎伽、摩揭陀和羯陵伽。
5.50.20
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ।
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः ॥ ५.५०.२० ॥
你们的人与那位毗摩森那交战,凭借他的勇力,大地上的四位般度之子突然(得以保全)。
5.50.21
निःसृत्य जतुगेहाद्वै हिडिम्बात्पुरुषादकात् ।
यश्चैपामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ ५.५०.२१ ॥
从蜡宫和食人魔希丁波中脱身后,成为他们庇护之岛的,是昆蒂之子狼腹。
5.50.22
याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान् ।
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ ५.५०.२२ ॥
信度王将耶阇塞尼(德罗波蒂)拖来的地方,他们的庇护之岛同样是昆蒂之子狼腹。
5.50.23
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते ।
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥ ५.५०.२३ ॥
在婆罗那瓦陀焚烧之中,将聚集在一起的所有般度之子救出的那人——你们的人正是与他作战。
5.50.24
कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः ।
प्रविश्य विषयं घोरं पर्वतं गन्धमादनम् ॥ ५.५०.२४ ॥
他因爱慕黑天女(德罗波蒂)而四处游走,杀死了被愤怒所支配的敌人,并进入了可怕的乾陀摩陀那山区。
5.50.25
यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् ।
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ ५.५०.२५ ॥
与薄伽森那(Bhīmasena)同行,他的双臂蕴藏着万头大象之力,诸般ukas,般度之子们,你们因此而投入战斗。
5.50.26
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् ॥ ५.५०.२६ ॥
昔日,以克里希那为伴,为取悦火神而奋勇作战,在战斗中战胜了正在交战的补兰达罗(因陀罗)的英雄。
5.50.27
यः स साक्षान्महादेवं गिरिशं शृलपाणिनम् ।
तोपयामास युद्धेन देवदेवमुपामपिम् ॥ ५.५०.२७ ॥
他亲自在战斗中使大神湿婆(Śiva)——山之主、持三叉戟者、诸神之神、乌玛之夫——感到欢喜。
5.50.28
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ ५.५०.२८ ॥
那位使诸世界守护者皆臣服于己的弓箭手,凭其胜利,你们在战场上被投入战斗,般度之子们。
5.50.29
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥ ५.५०.२९ ॥
他征服了充满数万蛮族军队的西方,那位战士那库拉,神奇的战士,就站立在那里,严阵以待。
5.50.30
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ ५.५०.३० ॥
与那位英俊的英雄、持大弓的玛德丽之子同行,婆罗多之后,般度之子们,你们被投入战斗。
5.50.31
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ ५.५०.३१ ॥
那位在战斗中征服了迦尸、安伽、摩揭陀和羯陵伽的萨诃提婆,率领般度诸子向你们进攻。
5.50.32
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च ॥ ५.५०.३२ ॥
能与其勇力相当者,世上只有四人:马嘶、驯狐、如克明与普拉优姆那。
5.50.33
तेन वः सहदेवेन युद्धं राजन्महात्ययमअ ।
यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥ ५.५०.३३ ॥
大王啊,你与那位萨诃提婆的战斗已成为巨大危险——他是年幼的人中英雄,是摩德利之子的欢喜。
5.50.34
तपश्चचार या घोरं काशिकन्या पुरा सती ।
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥ ५.५०.३४ ॥
迦尸的公主,那位贞洁的女子,往昔为求毗湿摩之死行了可怕的苦行——即便死后,婆罗多中的雄牛啊。
5.50.35
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।
स्त्रीपुंसीः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥ ५.५०.३५ ॥
般遮罗王生了一个女儿,后来依天命她又成为男子——人中之虎啊,知晓男女优劣之人才能明白此事。
5.50.36
कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः ।
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ ५.५०.३६ ॥
好斗的般遮罗王子抵达羯陵伽;诸位俱卢啊,精通武器的湿铁丁攻击了你们。
5.50.37
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया ।
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ ५.५०.३७ ॥
夜叉为求毕湿摩之死所造之人,般度之子以那位大弓手、凶猛者与之交战。
5.50.38
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।
आमुक्तवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥ ५.५०.३८ ॥
大弓手、王子、凯迦耶的五兄弟,言出必行的英雄——与他们以及婆斯特一同,他被派去对抗(毕湿摩)。
5.50.39
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥ ५.५०.३९ ॥
那长臂、善用速箭、坚定、真正勇武的人——与那位婆利湿尼英雄优优陀那(萨谛奇)之间,将有你们的交战。
5.50.40
य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।
रणे तेन विराटेन भविता वः समागमः ॥ ५.५०.४० ॥
那曾在关键时刻为高尚的般度五子作依靠者——毗罗吒将在战场上与你们相遇。
5.50.41
यः स काशिपती राजा वाराणस्यां महारथः ।
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥ ५.५०.४१ ॥
那位迦尸之王、婆罗奈城的大车将,成为了他们的战士;由他与婆斯特一起,被派去对抗(毕湿摩)。
5.50.42
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः ।
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत ॥ ५.५०.४२ ॥
以在战中不可战胜的少年——德劳帕蒂的高尚诸子,其触碰如同毒蛇——般度五子将他派去对抗(毕湿摩)。
5.50.43
यः कृष्णासदृशो वीर्ये युधिष्ठिरसमो दमे ।
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥ ५.५०.४३ ॥
与在勇力上如同黑天、在自制上如同坚战的阿毗曼宇并肩,般度之子们投入了战斗。
5.50.44
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥ ५.५०.४४ ॥
勇力无双、大名远扬的德里什塔克图,以及在战场上愤怒而难以抵挡的希舒帕拉之子,大战车武士。
5.50.45
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ।
अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः ॥ ५.५०.४५ ॥
那位由一支阿克绍希尼军队簇拥、前来投靠般度之子的车底国王,与般度之子们联手作战。
5.50.46
यः संश्रयः पाण्डवानां देवानामिव वासवः ।
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ ५.५०.४६ ॥
那位如因陀罗之于诸神一般、作为般度之子依靠的婆苏提婆,与般度之子们一同作战。
5.50.47
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥ ५.५०.४७ ॥
婆罗多之牛啊!正如车底之主的兄弟沙罗跋与迦罗迦尔沙同在,他也与那二人一同投入了战斗。
5.50.48
तारासन्धिः सहदेवो जयत्सेनश्च तावुभौ ।
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ ॥ ५.५०.४८ ॥
塔拉森提、萨哈德瓦与贾亚森那二位英雄,在战场上作为对阵的车战武士,为般度之子而坚定屹立。
5.50.49
द्रुपदश्च महातेजा बलेन महता वृतः ।
त्यक्तात्मा पाण्डवार्थाय सोत्स्यमानो व्यवस्थितः ॥ ५.५०.४९ ॥
光辉伟大的德鲁帕达也被庞大的军队环绕,为了般度之子们甘愿舍身,已列阵待战。
5.50.50
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।
शतशो यानुपाश्रिता धर्मराजो व्यवस्थितः ॥ ५.५०.५० ॥
这些人以及东方和北方的许多国王,成百上千地依附于他,与法王一同列阵待战。