マハーバーラタ · 章 5.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.51.1
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥ ५.५१.१ ॥
サンジャヤよ、お前が挙げた大いなる気概の者たちは皆一方に集まっている。しかしビーマは反対側にいる。
5.51.2
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् ।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥ ५.५१.२ ॥
わが子よ、怒りと不寛容のビーマセーナから、私はさらに大きな恐れを抱く。大ルル鹿が虎を恐れるように。
5.51.3
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।
भीतो वृकोदरात्तात सिंहात्पशुरिवापरः ॥ ५.५१.३ ॥
わが子よ、狼腹(ビーマ)を恐れて、私は夜通し眠れず、長く熱い溜息をつく。獅子に怯える別の獣のように。
5.51.4
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥ ५.५१.४ ॥
この軍勢の中に、インドラに等しい輝きを持つあの大腕の者に戦場で耐えられる者は、私には見当たらない。
5.51.5
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥ ५.५१.५ ॥
忍耐を知らぬクンティーの子、固い敵意を抱くパーンダヴァ、冗談にも笑わず、狂ったように、横目で見、大声の者。
5.51.6
महावेगो महोत्साहो महाबाहुर्महाबलः ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ५.५१.६ ॥
大いなる速さ、大いなる気概、大腕、大力の彼は、戦いによって愚かな我が子らに終わりをもたらすだろう。
5.51.7
उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥ ५.५१.७ ॥
腿の締めつけに捕らえられた者にとって、棍棒を持つウリコーダラ、戦場でクル族の雄牛、杖を手にしたアンタカのようだ。
5.51.8
अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् ।
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥ ५.५१.८ ॥
八つの角を持つ、鉄製の恐ろしい、黄金で飾られた棍棒を、私は心で見る。掲げられたブラフマーの杖のようだ。
5.51.9
यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत् ।
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥ ५.५१.९ ॥
力を得た獅子が鹿の群れの中を歩き回るように、ビーマは我が軍の中を駆け巡るだろう。
5.51.10
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा ॥ ५.५१.१० ॥
私のすべての息子の中で、彼だけが残酷な勇猛さを持つ。大食らいで、敵対的で、幼い頃からいつも猛々しい。
5.51.11
उद्वेपते मे हृदयं ये मे दुर्योधनादयः ।
बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः ॥ ५.५१.११ ॥
私の心は震える。ドゥルヨーダナをはじめとする私の息子たちは、幼いころから彼と戦い、象に踏みつぶされたようになった。
5.51.12
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम ।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥ ५.५१.१२ ॥
彼の武勇によって、私の息子たちは常に苦しめられてきた。不和の原因はまさに彼、恐るべき勇猛さのビーマである。
5.51.13
ग्रसमानमनीकानि नरवारणवाजिनाम् ।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥ ५.५१.१३ ॥
戦場で人・象・馬の軍勢を呑み込み、怒りに失神しているビーマが、目の前にいるように見える。
5.51.14
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ॥ ५.५१.१४ ॥
武器ではドローナとアルジュナに等しく、速さでは風に等しく、怒りではマヘーシュヴァラに等しい。そのビーマを戦場で誰が殺せようか。
5.51.15
सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् ।
… येऽहं यत्तेन रिपुघातिना ।
… सर्वे पुत्राः मम मनस्विना ॥ ५.५१.१५ ॥
サンジャヤよ、英雄ビーマセーナ、耐えることのない者について私に語れ……敵を倒す努力家の彼によって、私は……私の息子たち全員は……気高き者によって。
5.51.16
येन भीमबला यक्षा राक्षसाश्च पुरा हताः ।
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥ ५.५१.१६ ॥
かつて恐るべき力の夜叉と羅刹を殺したその者の戦いの猛攻を、どうして人間が耐えられようか。
5.51.17
न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय ।
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥ ५.५१.१७ ॥
サンジャヤよ、彼は私の幼い頃でさえ一度も私の支配下にはなかった。ましてや今、悪しき息子たちに苦しめられるパーンダヴァはどうであろうか。
5.51.18
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत् ।
तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः ॥ ५.५१.१८ ॥
彼は苛烈で極めて怒りっぽく、折れても曲がらない。眉をひそめて横目で見るヴリコーダラは、どうして鎮まるだろうか。
5.51.19
शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः ।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥ ५.५१.१९ ॥
彼は勇者で、力に並ぶ者はなく、色白で棕櫚の木のように高い。背丈ではビーマセーナがアルジュナより一ぺーダ(一span)高い。
5.51.20
जवेन वाजिनोऽत्येति बलेनान्त्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥ ५.५१.२० ॥
速さでは馬を追い越し、力では象をも打ち負かす。言葉のはっきりしない、蜜色の目をした中のパーンドゥの子は力強い。
5.51.21
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा ।
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥ ५.५१.२१ ॥
幼い頃、昔ヴィヤーサの口からこのように聞いた。姿においても勇気においても、パーンドゥの子は実にそのとおりである。
5.51.22
आयसेन स दण्डेन रथन्नागान्नरान्हयान् ।
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ॥ ५.५१.२२ ॥
戦場で怒りに燃え、鉄の棍棒で戦車も象も人も馬も打ち倒すだろう。彼は猛々しく、残忍な武勇の持ち主だ。
5.51.23
अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः ।
मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥ ५.५१.२३ ॥
ビーマは忍耐を欠き、常に怒りに燃え、攻め手の中で最も優れている。わが子よ、以前には私自身が敵対して彼を辱めたのだ。
5.51.24
निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः ॥ ५.५१.२४ ॥
耳のない鉄製の重い、美しい側面をもつ黄金の棍棒と、百人を殺し百度うなる百殺器(シャタグニー)──わが子らはどうしてこれに耐えられようか。
5.51.25
अपारमप्लवागाधं समुद्रं शरवेधनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥ ५.५१.२५ ॥
わが子よ、ビーマセーナからなるその海は果てしなく、舟も底もなく、矢を射通す。それを渡ろうとする愚か者たち。
5.51.26
क्रोशतो मे न श्रृण्वन्ति बालाः पण्डितमानिनः ।
विषमं न हि मन्यन्ते प्रापतं मधुदर्शिनः ॥ ५.५१.२६ ॥
私が叫んでも、自らを賢者と思う愚かな者たちは聞かない。迫りくる危難を危険と考えず、蜜ばかりを見ている。
5.51.27
संयुगे ये गमिष्यन्ति नररूपेण मृत्युना ।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥ ५.५१.२७ ॥
戦いにおいて人の姿をした死へ向かう者たちは、創造主に確かに駆り立てられ、ライオンに追われる大鹿のようだ。
5.51.28
शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम् ।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥ ५.५१.२८ ॥
わが子よ、石でできた、四腕尺の長さで六稜を持ち、無量の威力があり、投げられ、触れるだけで苦痛をもたらすその棍棒を、私の息子たちはどうして耐えられようか。
5.51.29
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥ ५.५१.२९ ॥
棍棒を振り回し、象の頭を砕き、唇を舐め、幾度も涙(血)を流す彼の棍棒。
5.51.30
उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान् ।
प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः ॥ ५.५१.३० ॥
象に向かって打ち下ろし、恐ろしい咆哮をあげ、狂った象の正面に突進し、象どもに吠え立てる彼の棍棒。
5.51.31
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥ ५.५१.३१ ॥
戦車の道へ分け入り、優れた戦士を狙って打ち倒す、燃え盛る火のような彼から、私の民(子孫)でさえ助かるだろうか。
5.51.32
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥ ५.५१.३२ ॥
大きな腕を持つ者は道を切り開き、私の軍勢を追い散らし、手に棍棒を持って舞うように、世界の終わりを示すだろう。
5.51.33
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् ।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥ ५.५१.३३ ॥
発情した象が花咲く木々を折るように、狼腹は戦場で私の息子たちの軍勢へ突入するだろう。
5.51.34
कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् ।
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥ ५.५१.३४ ॥
戦士も御者もいない戦車を、馬や旗もろとも砕き、人中の虎は戦車の戦士や騎兵をも打ち砕くだろう。
5.51.35
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् ।
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ॥ ५.५१.३५ ॥
ガンジスの奔流のように、岸辺の低地や岸に生える様々な木々を根こそぎにして、サンジャヤよ、彼は戦場で私の息子たちの軍勢を打ち砕くだろう。
5.51.36
वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥ ५.५१.३६ ॥
ビーマセーナへの恐怖に苛まれ、私の息子たち、従者、そして王たちは、きっと死に向かうだろう、サンジャヤよ。
5.51.37
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा ।
वासुदेवसहायेन जरासन्धो निपातितः ॥ ५.५१.३७ ॥
かつて内宮に入り、ヴァースデーヴァを伴って、大力の王ジャラーサンダを倒した者。
5.51.38
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता ।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥ ५.५१.३८ ॥
この大地の女神全体は、賢く強力なマガダの王ジャラーサンダによって支配され、苦しめられた。
5.51.39
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ॥ ५.५१.३९ ॥
クル族とアンダカ・ヴリシュニ族が彼の支配に屈しなかったのは、ビーシュマの威力と策略によるもので、それはただ運命であった。
5.51.40
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥ ५.५१.४० ॥
彼はパーンドゥの子のもとへ行き、腕力に優れたその勇士によって、武器もなく力ずくで殺された。これ以上何があろうか。
5.51.41
दीर्घकालसमासक्तं विशमाशीविषो यथा ।
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥ ५.५१.४१ ॥
長く溜めた毒を蛇が放つように、サンジャヤよ、彼は戦いにおいて私の息子たちに自らの怒りを放つであろう。
5.51.42
महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥ ५.५१.४२ ॥
神々の中の最も優れた大インドラが金剛杵で檀那婆を滅ぼすように、棍棒を手にしたビーマセーナは私の息子たちを滅ぼすであろう。
5.51.43
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥ ५.५१.४३ ॥
私には、抗しがたく止めようもない、激しい速さと武勇をもつ、目の極めて赤いヴリコーダラ(狼腹)が襲いかかってくるのが見える。
5.51.44
अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥ ५.५१.४४ ॥
弓も戦車も鎧もなく、ただ両腕で戦う者の前に、たとえ自らは傷ついていなくても、いったい誰が立ち続けられようか。
5.51.45
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।
जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः ॥ ५.५१.४५ ॥
ビーシュマ、ドローナ、このバラモンのクリパ、シャーラドヴァタも、私と同じく、あの賢者の武勇を知っている。
5.51.46
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥ ५.५१.४६ ॥
高貴な誓いを知り、戦いを終わらせようと望む、わが方の人中の雄牛たちは、軍の先頭に立つであろう。
5.51.47
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥ ५.५१.४७ ॥
運命はあらゆる点で強く、とりわけ人にとってそうである。彼らの勝利が見えていても、私は息子たちを引き止めはしない。
5.51.48
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः ।
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥ ५.५१.४८ ॥
あの偉大な弓の名手たちは、古のインドラの道を歩み、王家の名誉を守って、この恐ろしい混乱の中で命を捨てるであろう。
5.51.49
यथैषां मामकास्तात तथैषां पाण्डवा अपि ।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥ ५.५१.४९ ॥
親愛なる者よ、彼らに私の民がいるように、彼らにはパーンダヴァもいる。ビーシュマの孫たち、ドローナとクリパの弟子たちもそうである。
5.51.50
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय ।
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥ ५.५१.५० ॥
サンジャヤよ、我々の庇護のもとで何か布施や善行をした者には、その報いを高貴さゆえに三人の長老がなすであろう。
5.51.51
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।
निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम् ॥ ५.५१.५१ ॥
武器を取り、クシャトリヤの義務を守ろうとする戦士にとって、戦場での死こそ実に最も尊いものである。
5.51.52
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः ।
विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम् ॥ ५.५१.५२ ॥
パーンダヴァと戦おうとする者すべてのために、私は嘆く。ヴィドゥラとドローナのもとで初めに上がった嘆きの声、その恐れがいま到来したのだ。
5.51.53
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय ।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ॥ ५.५१.५३ ॥
サンジャヤよ、苦しみを断つには知識で足りるとは私は思わない。この苦しみは非常に強く、知識さえも破壊するものとなる。
5.51.54
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् ।
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥ ५.५१.५४ ॥
聖者たちも解脱しているが、世界の福祉を見て、喜びに喜び、苦しみに苦しむ。
5.51.55
किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा ।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥ ५.५१.५५ ॥
ましてや、迷妄によって千とおりにも執着している者は、息子たち、王国や妻たち、孫たち、そして親族にさえ執着するのではないか。
5.51.56
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम् ।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन् ॥ ५.५१.५६ ॥
この大いなる疑いの中で、私にふさわしい答えは何であろうか。クル族の滅亡ばかりを思い巡らして見ている。
5.51.57
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् ।
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥ ५.५१.५७ ॥
クル族に降りかかった大いなる災厄は、賭博を筆頭とするもののようだ。権勢を望んだ愚かな者が、貪欲からこの罪を犯したのだ。
5.51.58
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥ ५.५१.५८ ॥
これは絶えず進む時の巡りの法であると私は思う。車輪の縁に取り付けられたもののように、これから逃れることはできない。
5.51.59
किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥ ५.५१.५९ ॥
サンジャヤよ、今わたしはどうすべきか、どう行えばよいか、どこへ行けばよいのか。愚かなクル族は時の力に屈して滅びつつある。
5.51.60
अवशोऽहं तदा तात पुत्राणां निहते शते ।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥ ५.५१.६० ॥
いとしい者よ、わたしの百人の息子たちが殺されるとき、わたしは無力のまま女たちの泣き叫ぶ声を聞くだろう。そのとき死がどうして私に触れずにいられようか。
5.51.61
यथा निदाघे ज्वलनः समद्धो ।
दहेत्कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवो वै तथैव ।
हन्ता मदीयान्सहितोऽर्जुनेन ॥ ५.५१.६१ ॥
夏の暑さの中、風に煽られて燃え上がる火が藪を焼き尽くすように、棍棒を手にしたパーンドゥの子ビーマは、アルジュナと共に私の者たちを殺すだろう。