Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.52.1

यस्य वै नानृता वाचः कदाचिदनुशुश्रुम ।
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥ ५.५२.१ ॥

若有人的言语从未被听闻为虚假,三界也可能归他所有,而他的战士便是财胜(阿周那)。

5.52.2

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः ।
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥ ५.५२.२ ॥

我看不见战场上有谁,即使日夜思虑,也能从战车上与持甘狄拔弓者交锋。

5.52.3

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः ।
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥ ५.५२.३ ॥

放射穿心的带钩箭,战场上没有谁能与持甘狄拔弓者相匹敌作为对手。

5.52.4

द्रोणाकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ ।
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ॥ ५.५२.४ ॥

若德罗纳与迦尔纳这两位英雄——人中之牛、精通武器、强者中最优秀、战场上未曾败北者——能够与他交锋。

5.52.5

महान्स्यात्संशयो लोके न त्वस्ति विजयो मम ।
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ॥ ५.५२.५ ॥

世上将有很大的疑虑,但对我而言并无胜利。迦尔纳慈悲而疏忽;老师年迈,是上师。

5.52.6

समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ।
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥ ५.५२.६ ॥

有能力而强大的 Pārtha(阿周那),弓法坚定,战胜了疲劳:战斗将极其惨烈,而他在各方面都将不败。

5.52.7

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ।
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥ ५.५२.७ ॥

所有这些精通武器的英雄都获得了大名;即使他们放弃诸天不死者的全部权威,也不会再放弃胜利。

5.52.8

वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च ।
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते ॥ ५.५२.८ ॥

杀死他们两人或法尔古那,必定会带来和平;然而,没有能杀死阿周那的人,也找不到能战胜他的人。

5.52.9

मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ।
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च।
एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ॥ ५.५२.९ ॥

他对那些愚人升起的愤怒,怎样才能平息?其他人也懂得武器;他们有时战败,有时获胜。然而人们听说,法尔古那的胜利总是全然的。

5.52.10

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् ।
जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम् ॥ ५.५२.१० ॥

他召集了三十三天神,在康达瓦使火神得到满足;他战胜了所有的天神,我们不知道他有过失败。

5.52.11

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि ।
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥ ५.५२.११ ॥

谁的御者是毗湿奴(Hṛṣīkeśa),他在战斗中在品德与行为上与之相当,亲爱的孩子,他的胜利是确定的,正如因陀罗的胜利一样。

5.52.12

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः ।
युगपत्रीणि तेजांसि समेतान्यनुशुश्रुम ॥ ५.५२.१२ ॥

两位黑天同坐一辆战车,准备就绪,持着上弦的甘狄拔神弓;我们听说三种光辉同时汇聚在一起。

5.52.13

नैवास्ति नो धनुस्तदृङ्व योद्धा न च सारथिः ।
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः । ॥ ५.५२.१३ ॥

我方没有那样的弓,没有那样的战士,也没有那样的御者。服从难敌之命的愚人并不知道这一点。

5.52.14

शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय ।
न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ॥ ५.५२.१४ ॥

桑闍耶啊,正如燃烧的雷电落在头上什么也不留下,亲爱的,戴冠者所射的箭也将什么都不留下。

5.52.15

अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः ।
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥ ५.५२.१५ ॥

财求(阿周那)射箭击打,仿佛以箭雨从身体上拔起头颅。

5.52.16

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः ।
गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी ॥ ५.५२.१६ ॥

那由箭构成、四面燃烧的光焰,从甘狄拔弓升起,必将在战场上焚毁我子的军队。

5.52.17

अपि सा रथघोषेण भयार्ता सव्यसाचिनः ।
वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ॥ ५.५२.१७ ॥

在我看来,那婆罗多军队岂不是因左手神射手战车的轰鸣而恐惧万分,被惊吓得四散纷乱吗?

5.52.18

यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन् ।
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥ ५.५२.१८ ॥

正如大火四处蔓延,焚烧林中枯草,同样,被风吹起的大火焰将焚毁我方之人。

5.52.19

यदोद्वमन्निशितान्बाणसङ्घां-
स्तानाततायी समरे किरीटी।
सृष्टोऽन्तकः सर्वहरो विधात्रा ।
यथा भवेत्तद्वदपारणीयः ॥ ५.५२.१९ ॥

当这位持弓的侵略者、戴冠者在战场上倾泻密集的利箭时,他将如同造物主所放出的毁灭一切的死神般不可抵挡。

5.52.20

यदा हयभीक्ष्णं सुबुहून्प्रकारान् ।
श्रोतास्मि तानावसथे कुरूणाम्।
तेषां समन्ताच्च तथा रणाग्रे ।
क्षयः किलायं भरतानुपैति ॥ ५.५२.२० ॥

当我在住所中不断听到关于库鲁人马匹的种种消息,而在战阵前线,毁灭真的从四面八方降临到婆罗多人身上时。