摩诃婆罗多 · 章 5.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.53.1
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः ।
तथौभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥ ५.५३.१ ॥
正如般度五子个个勇猛、渴望胜利,他们的阿毗娑罗战士也舍弃了性命,坚定地为胜利而战。
5.53.2
…हि पराक्रान्तानाचक्षीथाः परान्मम ।
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥ ५.५३.२ ॥
……请向我描述敌方的勇士——般遮罗人、羯迦耶人、摩室耶人、摩揭陀人以及跋蹉国的诸王。
5.53.3
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली ।
स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः ॥ ५.५३.३ ॥
那强大者若想连同因陀罗一起掌控这些世界,那位创造世界的黑天便支撑着般度五子的胜利。
5.53.4
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् ।
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ ५.५३.४ ॥
萨提亚基迅速从阿周那那里学得了全部的武艺;施尼之后将在战场上屹立,播撒箭矢如种子。
5.53.5
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः ।
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥ ५.५३.५ ॥
般遮罗之子、行事残酷的大车将德里斯塔德尤那,将在我的军队中作战——他精通至高的武器。
5.53.6
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् ।
मयाभ्यां भीमसेनाच्च भयं मे तात जायते ॥ ५.५३.६ ॥
孩儿啊!由于坚战的愤怒、阿周那的勇力,两位摩耶之子(无种与偕天)以及怖军,我心中生出了恐惧。
5.53.7
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा ।
न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय ॥ ५.५३.७ ॥
人主们在中间张开的这张非人之网,我的军队将无法穿越。因此,桑闍耶,我痛哭呼喊。
5.53.8
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी ।
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥ ५.५३.८ ॥
这位般度之子容貌可观,心志高远,光辉灿烂,具梵德之光;他智慧深远,见识端正,是正法之人。
5.53.9
मित्रामात्यैः सुसंपन्नः संपन्नो युद्धयोजकैः ।
भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः ॥ ५.५३.९ ॥
他得到朋友和大臣的充分支持,有善于组织战斗者相助;兄弟、岳父、勇士和大战车武士环绕在他身边。
5.53.10
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः ।
अनुशंसो वदान्यश्च हीमान्सत्यपराक्रमः ॥ ५.५३.१० ॥
以坚毅与谦逊,这位般度子是人中之虎;他慈悲、慷慨、知耻,具真实的勇力。
5.53.11
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः ।
तं सर्वगुणसंपन्नं समिद्धमिव पावकम् ॥ ५.५३.११ ॥
他博学多闻,自制其心,侍奉长者,克制诸根;具备一切美德,如同燃烧的烈火。
5.53.12
तपन्तमभि को मन्दः पतिष्यति पतङ्गवत् ।
पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः ॥ ५.५३.१२ ॥
在这熊熊燃烧、无人能挡的般度之火上,哪个愚人失去理智、求死,会像飞蛾一样扑上去?
5.53.13
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया ।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ५.५३.१३ ॥
我虚假侍奉的那位高大、火焰冠饰的国王,将以战争使我愚蠢的儿子们走向毁灭。
5.53.14
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत ।
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥ ५.५३.१४ ॥
我认为不与他们交战才是好的;诸位俱卢人,请明白这一点。战争中,整个家族必定走向毁灭。
5.53.15
एषा मे परमा बुद्धिर्यया शाम्यति मे मनः ।
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥ ५.५३.१५ ॥
这是我最高的见解,由此我的心得以平静。若你们也不愿交战,我们就为和平而努力。
5.53.16
न तु नः क्लिश्यमानानामुपेक्षेत युधिष्ठिरः ।
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥ ५.५३.१६ ॥
然而,当我们受苦之时,坚战不会置之不理。他因为不义之事,只把我视为根源而憎恶我。