Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.54.1

एवमेतन्महाराज यथावदसि भारत ।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥ ५.५४.१ ॥

大王,婆罗多之后,你所说的确实如此:战场上刹帝利的毁灭将由甘狄拔弓显现。

5.54.2

इदं तु नाभिजानामि तव धीरस्य नित्यशः ।
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥ ५.५४.२ ॥

然而,你向来坚定、通晓真理,我却不明白你为何在萨维亚萨钦之事上受制于儿子们。

5.54.3

नैष कालो महाराज तव शश्वत्कृतागसः ।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥ ५.५४.३ ॥

大王,你一向犯错,如今不是时候。婆罗多的雄牛,你从一开始就欺骗了普利塔之子。

5.54.4

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् ।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥ ५.५४.४ ॥

父亲是最好的,也是善意的人,内心已善加调伏。应当听从他有益的教诲;不背叛者才被称为师长。

5.54.5

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।
द्यूतकाले महाराज स्मरसे स्म कुमारवत् ॥ ५.५४.५ ॥

“此物已胜,此物已得”——听到战败者这样说,大王,在掷骰子的时候你像孩子一样欢喜,你还记得吗?

5.54.6

परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे ।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥ ५.५४.६ ॥

从前,有人对普利塔之子说严厉的话时,你却置之不理。你看不到那覆灭:他们将夺取整个王国。

5.54.7

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः ॥ ५.५४.७ ॥

大王啊,俱卢族拥有祖传的王国及闍安伽罗之地;之后你又重新获得了英雄们所征服的整个大地。

5.54.8

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।
मयेदं कृतमित्येव मन्यसे राजसत्तम ॥ ५.५४.८ ॥

你的土地是凭臂力赢得的,般度之子把它交还给了你。众王之最啊,你以为“这是我做成的”。

5.54.9

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि ।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥ ५.५४.९ ॥

你的儿子们被乾闼婆王抓住,在没有船筏的水中沉没,众王之最啊,般度之子又把他们带了回来。

5.54.10

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ॥ ५.५४.१० ॥

大王啊,你像孩子一样嘲笑般度五子——他们在赌局中被欺骗,一次次被放逐到森林里。

5.54.11

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् ।
अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः ॥ ५.५४.११ ॥

当阿周那降下无数锐利的箭雨时,连海洋都会干涸;何况是由云所生的水呢。

5.54.12

अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ।
केशवः सर्वभूतानामायुधानां सुदर्शनम् ।
वानरो रोचमानश्च केतुः केतुमतां वरः ॥ ५.५४.१२ ॥

在射手中,法尔古那最优秀;在弓中,甘狄拔最上;在一切众生中,克舍婆最上;在兵器中,妙见轮最上;在持旗者中,光耀的猴旗最为殊胜。

5.54.13

एवमेतानि स रथो वहते सह यो रणे ।
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥ ५.५४.१३ ॥

大王啊,那驾车者带着这一切上阵,必会如高举的时轮一般毁灭我们。

5.54.14

तस्याद्य वसुधा राजन्निखिला भरतर्षभ ।
यस्य भीमार्जिनौ योधौ स राजा राजसत्तम ॥ ५.५४.१४ ॥

大王啊,婆罗多中的雄牛,今日整个大地都将属于他——那位以毗摩和阿周那为战士的君王,诸王中最优者啊。

5.54.15

तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् ।
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥ ५.५४.१५ ॥

如此,看到你的大军几乎被毗摩击毁、正在沉没,以难敌为首的俱卢族将走向毁灭。

5.54.16

न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो ।
तव पुत्रा महाराज राजानश्चानुसारिणः ॥ ५.५४.१६ ॥

威严的君主啊,你的儿子们和追随他们的诸王,因畏惧毗摩与阿周那,将得不到胜利,大王啊。

5.54.17

मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः ।
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥ ५.५४.१७ ॥

摩差、般遮罗与甘迦,还有萨尔瓦与首罗森——今日他们无一尊敬你,人人都轻视你。

5.54.18

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ।
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ॥ ५.५४.१८ ॥

这些人都已归附般度之子,因为他们知晓那位智者的勇力;出于对他的虔诚,他们始终与你的儿子们对立。

5.54.19

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा ।
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ॥ ५.५४.१९ ॥

那使持守法义、不应被杀的般度之子因其恶行而受苦之人,至今仍憎恨他们。

5.54.20

सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः ।
तव पुत्रो महाराज नानुशोचितुमर्हसि ॥ ५.५४.२० ॥

大王啊,那恶人及其党羽必须以一切手段加以制服;您不应为您的儿子悲伤。

5.54.21

अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम् ।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥ ५.५४.२१ ॥

大王啊,我毫不隐瞒地直接对他说:在掷骰子的时候,我曾说过,明智的维杜罗也曾说过。

5.54.22

यदिदं ते विलपितं पाण्डवान्प्रति भारत ।
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ ५.५४.२२ ॥

婆罗多的后裔啊,您为般度五子所发的这一切悲叹都是徒劳的,王中之王啊;这是无权者的悲叹。