摩诃婆罗多 · 章 5.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.55.1
न भेतव्यं महाराज न शोच्या भवतां वयम् ।
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ॥ ५.५५.१ ॥
大王,不必畏惧,也不必为我们忧伤。主上,我们在战场上强大,能够战胜敌人。
5.55.2
वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥ ५.५५.२ ॥
摩图苏陀那(克里希那)这位耶达瓦,率领着强大的军队,把被流放到森林中的般度之子带了回来,这支军队能够摧毁外国。
5.55.3
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत ।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥ ५.५५.३ ॥
克迦耶人、德里斯塔盖图,以及普利沙塔之子德里斯塔俱摩,还有许多国王和其他追随者,都跟随着般度之子。
5.55.4
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥ ५.५५.४ ॥
众大车战士在因陀罗普拉斯塔附近会集,与俱卢族人一同与你相见,并责备了你。
5.55.5
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥ ५.५५.५ ॥
婆罗多啊,以克里希那为首的他们聚集在一起,侍奉着身着鹿皮、端坐的坚战。
5.55.6
प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥ ५.५५.६ ॥
诸王谈论收回王国之事,意图彻底消灭你和你的追随者。
5.55.7
श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा ।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥ ५.५५.७ ॥
闻此,毗湿摩、德罗纳与克里帕当时因恐惧亲族灭绝而惊惧,王啊,婆罗多之牛。
5.55.8
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः ।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥ ५.५५.८ ॥
我认为,那时般度之子会在适当时机起身。瓦苏提婆想要彻底消灭我们。
5.55.9
ऋते च विदुरात्सर्वे यूयं वध्या मता मम ।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः ॥ ५.५५.९ ॥
除了维杜罗,我认为你们都该被杀。但通晓正法的、俱卢中最优秀的持国王不该被杀。
5.55.10
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥ ५.५५.१० ॥
父亲啊,阶那尔达那想要彻底灭绝我们,把俱卢的唯一王权交给坚战。
5.55.11
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।
प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान् ॥ ५.५५.११ ॥
那么对我们而言,什么是适时的:屈服还是逃跑?或者舍弃性命,与敌人作战?
5.55.12
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ ५.५५.१२ ॥
若我们抵抗,失败必然无疑,因为所有的王都受坚战的控制。
5.55.13
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥ ५.५५.१३ ॥
我们已被诸国疏远,我们的朋友也对我们愤怒。所有国王和我们自己的族人都从四面八方斥责了我们。
5.55.14
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः ।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥ ५.५५.१४ ॥
俯首屈服并无过失;我们可以与之缔结长久的和约。但我为我的父亲而悲伤,他以智慧为眼,是人主。
5.55.15
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ।
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम ॥ ५.५५.१५ ॥
因为我的缘故,痛苦降临,无尽的困扰已经产生。人中至尊啊,您的儿子们也围困了敌人;这件事在我出发之前您就已经知道了。
5.55.16
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥ ५.५५.१६ ॥
国王持国与其大臣的那些大车勇士般处所的般度之子,将以灭族来报复这份仇怨。
5.55.17
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।
मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं ॥ ५.५५.१७ ॥
于是德罗纳、毗湿摩、克里帕和德罗纳之子说道,婆罗多啊;他们看到我被巨大的忧虑所困,感官已经慌乱。
5.55.18
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप ।
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ॥ ५.५५.१८ ॥
如果敌人已被我们击溃,啊,灼敌者,不必畏惧;敌人无法战胜我们这些在战场上坚定站立的人。
5.55.19
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥ ५.५५.१९ ॥
我们每人都能逐一战胜所有国王。让他们来吧,我们将以利箭挫败他们的傲慢。
5.55.20
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत ॥ ५.५५.२० ॥
往昔,唯有毗湿摩一人便征服了所有国王。婆罗多啊,父亲去世时,他极为愤怒,以一辆战车独自做到了这一切。
5.55.21
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥ ५.५५.२१ ॥
最优秀的俱卢人在愤怒中杀死了他们中的很多人;于是他们因恐惧而投奔这位天誓(毗湿摩)寻求庇护。
5.55.22
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥ ५.५५.२२ ॥
这位毗湿摩与我们并肩作战,完全有能力战胜敌人;因此,婆罗多之牛啊,愿你的恐惧消散。
5.55.23
इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम् ।
पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ॥ ५.५५.२३ ॥
当时,这些光辉无量之人便是如此决断;往昔,整个大地都听从他们的意志。
5.55.24
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥ ५.५५.२४ ॥
今日这些人再也无力在战场上击败我们;今日敌人已折断双翼,般度之子们也失去了力量。
5.55.25
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥ ५.५५.२५ ॥
婆罗多族的雄牛啊,大地依赖于我们。在苦乐之中同心同志的诸王,已被聚集到我们这一方。
5.55.26
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप ।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥ ५.५५.२६ ॥
征服敌人的英雄啊,为了我,这些诸王即使投入火中或大海也在所不惜。库鲁族中最优秀的人啊,你要知道这一点。
5.55.27
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।
विलपन्तं बहुविधं भीतं परविकत्थने ॥ ५.५५.२७ ॥
在这里,人们嘲笑你,仿佛你疯了一般,悲伤,以种种方式哀叹,在敌人的夸耀面前惊惧不安。
5.55.28
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥ ५.५५.२८ ॥
这些诸王中的每一位都认为自己有能力对抗般度族。愿降临到你身上的恐惧消散。
5.55.29
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः ॥ ५.५५.२९ ॥
即使是因陀罗也无法战胜我的整个军队;即使是自生的梵天,也无法消灭这支形态不灭的军队。
5.55.30
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते ।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ॥ ५.५५.३० ॥
坚战舍弃了都城,却请求五个村庄。啊,威力无边者,他确实畏惧我的军队与我的威势。
5.55.31
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥ ५.५५.३१ ॥
你认为鞠底之子狼腹(婆罗多)有能力,这是错误的;婆罗多啊,你并不了解我的全部威力。
5.55.32
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥ ५.५५.३२ ॥
在棍棒战中,大地上没有人能与我相比;从前无人超过我,将来也无人会超过我。
5.55.33
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा ।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥ ५.५५.३३ ॥
我受过训练,经历过艰辛,又精通学问;因此我无论何处都不畏惧怖婆罗多,也不惧怕他人。
5.55.34
दुर्योधनसमो नास्ति गदायामिति निश्चयः ।
सङ्कर्षणस्य भवने यत्तदैनमुपावसम्। ॥ ५.५५.३४ ॥
毫无疑问,在棍棒战中没有人能与难敌相比;我曾住在桑羯沙那(大力罗摩)的府中,便在他那里受教。
5.55.35
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि ।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥ ५.५५.३५ ॥
在战斗中我与桑羯沙那(大力罗摩)相等,在大地上力量更胜过他;在战斗中,怖婆罗多绝不能承受我棍棒的一击。
5.55.36
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।
स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम् ॥ ५.५५.३६ ॥
大王啊,若我愤怒之下给怖婆罗多一击,这一击便会很快将那位英雄送往毗婆薮之子(阎摩)的住所。
5.55.37
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥ ५.५५.३७ ॥
大王啊,我渴望看见手持钵头的狼腹(怖军)。这是我长久以来的祈求,我日夜的心愿。
5.55.38
गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति ॥ ५.५५.३८ ॥
在战场上被我的钵头击倒,普利塔之子狼腹,肢体破碎,失去气息,将倒卧于大地。
5.55.39
गदाप्रहाराभिहतो हिमवानपि पर्वतः ।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥ ५.५५.३९ ॥
即便是喜马拉雅山,被我的钵头一击,也会瞬间裂成十万块碎片。
5.55.40
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥ ५.५५.४० ॥
他也清楚这一点,婆苏提婆与阿周那也清楚:论钵头之战,无人能与难敌相比,此事确凿无疑。
5.55.41
तत्ते वृकोदरमयं भयं व्येतु महाहवे ।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥ ५.५५.४१ ॥
因此,愿你对狼腹的畏惧在这场大战中消散。我自会将其驱除;大王啊,不要心神沮丧。
5.55.42
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥ ५.५५.४२ ॥
婆罗多的雄牛啊,待他被我杀死之后,许多形貌相似的卓越车战勇士将迅速冲向阿周那。
5.55.43
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥ ५.५५.४३ ॥
毗湿摩、德罗纳、克里帕、德罗纳之子、迦尔纳、布利什拉瓦斯,以及普拉格约提沙之主沙利耶,和信度王胜车。
5.55.44
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥ ५.५५.४४ ॥
他们每一人单独都能杀死般度五子,婆罗多啊;若他们聚集一处,便能在片刻之间将这些人送往阎摩之居。
5.55.45
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् ।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥ ५.५५.४५ ॥
整支王军,为何不能独自战胜一个帕尔塔·德南闍耶?找不到任何理由。
5.55.46
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः ।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥ ५.५५.४६ ॥
被毗湿摩的箭雨遮蔽上百次,无力抵挡,又遭德罗纳、德罗纳之子与克里帕所击,帕尔塔将前往阎摩之境。
5.55.47
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत ।
ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः ॥ ५.५५.४७ ॥
婆罗多啊,祖父毗湿摩,即恒河之子、珊塔努之子,生来如同梵仙,即便诸神也难以抵挡。
5.55.48
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन ।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥ ५.५५.४८ ॥
国王啊,没有人能杀死毗湿摩;因为欢喜的父亲亲自宣告:除非你自己愿意,你不会死去。
5.55.49
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत ।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित् ॥ ५.५५.४९ ॥
婆罗堕阁仙人之子德罗纳生于德罗尼之中。大王啊,德罗纳之子德罗尼(马嘶)生出,他精通至上的神箭。
5.55.50
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥ ५.५५.५० ॥
这位克里帕是诸师之首,也是大仙人乔达摩之后,光荣地生于芦苇丛中。依我之见,他是不可被杀的。
5.55.51
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ।
अश्वत्थाम्नो महारात स च शूरः स्थितो मम ॥ ५.५५.५१ ॥
这三人并非出自胎生:父亲、母亲与舅舅;大王啊,马嘶亦然。那位英雄站在我这一边。
5.55.52
सर्व एते महाराज देवकल्पा महारथाः ।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥ ५.५५.५२ ॥
大王啊,他们都是如天神般的大车战士;婆罗多的雄牛啊,在战场上他们甚至能使因陀罗也感到痛苦。
5.55.53
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम् ।
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ॥ ५.५५.५३ ॥
即便一个一个地对阵,阿周那也无力抵挡其中任何一人;但这些人中的虎豹若联合起来,必定杀死达难闍耶。
5.55.54
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥ ५.५५.५४ ॥
我认为迦尔纳与毗湿摩、德罗纳、克里帕相等;婆罗多的后裔啊,罗摩也允许了他,说:“你与我相等。”
5.55.55
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ॥ ५.५५.५५ ॥
迦尔纳天生的那对明亮吉祥的耳环闪耀着光芒。这位敌人的焚烧者为了舍story(舍until)而被因陀罗(摩亨德拉)所求。
5.55.56
अमोघया महाराज शक्त्या परमभीमया ।
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः ॥ ५.५५.५६ ॥
大王,被那支不失之极为可怕的长矛所缠住,财富征服者(阿周那)怎能存活?
5.55.57
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ।
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः । ॥ ५.५५.५७ ॥
大王,我的胜利必定到来,仿佛果实已在手中;敌人的彻底失败在大地上已显而易见。
5.55.58
अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत ।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥ ५.५५.५८ ॥
婆罗多的后裔啊,这位毗湿摩一人一日便能杀死十万的十倍;与他同等的大弓手德罗纳、德罗尼(阿湿婆塔玛)和克里帕也同样如此。
5.55.59
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप ।
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ॥ ५.५५.५९ ॥
敌人的焚烧者啊,三誓军的众多部队杀害刹帝利;猴旗的主人(阿周那)可能杀死他们,或杀死我们。
5.55.60
तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः ।
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम् ॥ ५.५५.६० ॥
那些决心杀死善射者(阿周那)的国王认为他们已经足够;大王啊,您为何突然为他们而忧虑?
5.55.61
भीमसेने च निहते कोऽन्यो युध्येत भारत ।
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥ ५.५५.६१ ॥
婆罗多啊,若怖军被杀,敌方还有谁会参战?焚敌者啊,你若知道,就告诉我。
5.55.62
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ॥ ५.५५.६२ ॥
你的五位兄弟、猛光与萨提亚奇,以及敌方的七位战士——这些被认为是他们军队的精华与力量,国王啊。
5.55.63
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ॥ ५.५५.६३ ॥
但我方杰出的战士有:毗湿摩、德罗纳、克里帕等人,德罗纳之子,毗迦尔塔那,迦尔纳,索摩达塔,以及跋利迦。
5.55.64
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः ।
दुःशासनो दुर्मखश्च दुःसहश्च विशांपते ॥ ५.५५.६४ ॥
普拉格约提沙的统治者沙利耶,阿槃提的两位国王,胜车,难降,恶面,难忍,人主啊。
5.55.65
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ॥ ५.५५.६५ ॥
室鲁多衣、支多犀那、补噜弥多罗、毗频沙提、沙罗、补利室罗婆,以及你的儿子毗迦尔纳。
5.55.66
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥ ५.५५.६६ ॥
国王啊,我方已集结十一支阿克绍诃尼军,而敌方仅有七支,比我方少。那我为何会战败呢?
5.55.67
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥ ५.५५.६७ ॥
brihaspati说,比敌军少三倍的军队适合作战。王啊,我的这支军队比他们多三倍。
5.55.68
गुणहीनं परेषां च बहु पश्यामि भारत ।
गुणोदयं बहुगुणमात्मनश्च विशांपते ॥ ५.५५.६८ ॥
婆罗多啊,我看到敌方许多人缺乏德行;民主啊,我看到我方德行兴起、德行众多。
5.55.69
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥ ५.५५.६९ ॥
婆罗多啊,你已经充分了解这一切:我的军队是最强的,般度之子的军队则不足;你不应陷入迷惑。
5.55.70
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत ।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥ ५.५५.७० ॥
婆罗多啊,说完这些,征服敌城者又问桑闪耶,想要了解已经到来的适当时机。