Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.56.1

अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय ।
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥ ५.५६.१ ॥

僧阇耶啊,俊杰持有七支军团并有诸王相助,好战的昆提之子坚战还想要什么?

5.56.2

अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥ ५.५६.२ ॥

大王啊,好战的坚战极为欢喜;怖军与阿周那二人,以及双生的无种与偕天,都毫不畏惧。

5.56.3

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः ।
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥ ५.५६.३ ॥

昆提之子(阿周那)渴望知晓作战之策,便驾上那辆照亮四方的神车。

5.56.4

तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा ।
समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत।
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ॥ ५.५६.४ ॥

我们见他披甲如闪电照耀的云,他四面凝神,欣然说道:‘僧阇耶啊,看这预兆,我们必将获胜。’

5.56.5

बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥ ५.५६.५ ॥

正如怖军……不,正如阿周那(比跋特苏)对我所言,我也如此理解。

5.56.6

प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् ।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥ ५.५६.६ ॥

你称颂并欢迎那些在赌博中未曾败北的普利塔之子。请告诉我:阿周那车上的马匹如何,旗帜又如何?

5.56.7

भौमनः सह शक्रेण बहुचित्रं विशांपते ।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो ॥ ५.५६.७ ॥

跋摩与因陀罗一同,啊人主,制作了种种奇异的形相;特瓦湿特与达陀常常塑造它们,啊大能者。

5.56.8

ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया ।
महाधनानि दिव्यानि महान्ति च लघूनि च ॥ ५.५६.८ ॥

在那面旗帜上,他们以神通之力制作了形相,珍贵而神圣,有大有小。

5.56.9

भीमसेनानुरोधायक हनूमान्मारुतात्मजः ।
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ॥ ५.५६.९ ॥

出于对毗摩先那的敬重,风神之子哈努曼将在那面旗帜上安放他自己的形象。

5.56.10

सर्वा दिशो योजनमात्रमन्तरं ।
सतिर्यगूर्ध्वं च रुरोध वै ध्वजः।
न संसञ्जेत्तरुभिः संवृतोऽपि ।
तथा हि माया विहिता भौमनेन ॥ ५.५६.१० ॥

那面旗帜充满所有方向,一由旬之地,横向与向上皆然;即使被树木环绕,它也不挂在树上,因为跋摩造出了这样的幻术。

5.56.11

यथाऽऽकाशे शक्रधनुः प्रकाशते ।
न चैकवर्णं न च वेद्मि किं नु तत्।
तथा ध्वजो विहितो भौमनेन ।
बह्वाकारं दृश्यते रूपमस्य ॥ ५.५६.११ ॥

如同彩虹在天空闪耀,并非单一颜色,我不知那是什么;同样,跋摩所造的这面旗帜呈现出多种形状,其形相繁多。

5.56.12

यथाऽग्निधूमो दिवमेति रुद्ध्वा ।
वर्णान्बिभ्रत्तैजसांश्चित्ररूपान्।
तथा ध्वजो विहितो भौमनेन ।
न चेद्भारो भविता नोत रोधः ॥ ५.५६.१२ ॥

如同火之烟雾充塞天空、直上高处,承载着多种形状的灿烂色彩;跋摩所造的这面旗帜也是如此。若它没有重量,也就不会成为阻碍。

5.56.13

हतंहतं दत्तवरं पुरस्तात् ॥ ५.५६.१३ ॥

先前受赐恩惠者,一个接一个在前方被杀。

5.56.14

तथा राज्ञो दन्तवर्णा बृहन्तो ।
रथे युक्ता भान्ति तद्वीर्यतुल्याः।
ऋक्षप्रख्या भीमसेनस्य वाहा ।
रथे वायोस्तुल्यवेग बभूवुः ॥ ५.५६.१४ ॥

同样,国王那如象牙色的大马套在车上,光彩与其勇力相等;毗摩娑那的如熊般的马在车上,速度与风相同。

5.56.15

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा ।
भ्रात्रा दत्ताः प्रीयता फाल्गुनेन।
भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा ।
मुदा युक्ताः सहदेवं वहन्ति ॥ ५.५६.१५ ॥

四肢有斑、脊背如鹧鸪般斑斓的骏马,是兄长所赠,由欢喜的法尔贡那(阿周那)所赐,并以英雄兄长自己的马为殊胜,欣然套上,载着偕提婆。

5.56.16

माद्रीपुत्रं नकुलं त्वाजमीढं ।
महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो ।
वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् । ॥ ५.५६.१६ ॥

因陀罗所赐的马,乃马中之最,与风相等,强劲迅疾,载着摩德利之子那古罗和阿阇弥荼之后(坚战),如同载着击杀弗栗多的因陀罗一般。

5.56.17

तुल्याश्चैभिर्वयसा विक्रमेण ।
महाजवाश्रित्ररूपाः सदश्वाः ।
सौभद्रादीन्द्रौपदेयान्कुमारान् ।
वहन्त्यश्वा देवदत्ता बृहन्तः ॥ ५.५६.१७ ॥

与之年龄与勇力相当,极其迅疾,形貌斑斓,是诸神所赐的良马,高大,载着妙贤(阿毗曼尤)等人,以及德罗波蒂的年轻王子们。