Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.58

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.58.1

क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥ ५.५८.१ ॥

般度之子具有刹帝利之威,自幼便是持梵行的学童。愚昧之人将与他作战,而我只能悲叹。

5.58.2

दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम ।
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम ॥ ५.५८.२ ॥

难敌啊,从战争中回头吧,婆罗多之最。降伏敌人者啊,无论何种情况,人们都不称赞战争。

5.58.3

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ॥ ५.५८.३ ॥

对你和你的大臣而言,半个大地便足以生活。降伏敌人者啊,把应得的部分给予般度之子吧。

5.58.4

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः ॥ ५.५८.४ ॥

所有俱卢人都认为这符合法:你应当视与般度的高尚诸子言和为正途。

5.58.5

अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् ।
जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे ॥ ५.५८.५ ॥

孩子啊,仔细看看你自己的军队吧。你的毁灭已在此产生,而你因迷惑却不明白。

5.58.6

न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः ।
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥ ५.५८.६ ॥

我不愿打仗,巴赫利卡也不愿;毗湿摩、德罗纳、马嘶、桑耆耶也都不愿。

5.58.7

न सोमदत्तो न शलो न कृपो युद्धमिच्छति ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥ ५.५८.७ ॥

索摩达多、沙利亚和克利帕都不想打仗;萨特亚瓦塔、普鲁米特拉、贾亚和布利什拉瓦斯也是如此。

5.58.8

येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ।
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥ ५.५८.८ ॥

即便受敌人欺压,库鲁族人仰赖之而能立足的那些人,并不赞成战争。亲爱的孩子,愿这才合你的心意。

5.58.9

न त्वं करोषि कामेन कर्णः कारयिता तव ।
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥ ५.५८.९ ॥

你并非出于自己的意愿行事;迦尔纳才是让你行动的人,心怀恶念的难降和苏跋拉之子沙恭尼亦然。

5.58.10

नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये ।
न भीष्मे न काम्भोजे न कृपे न च बाह्लिके ॥ ५.५८.१० ॥

不是我;德罗纳、阿湿婆陀摩、桑闍耶、毗湿摩、憍闍、克利帕或跋利迦之中,也都没有。

5.58.11

सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः ।
अन्येषु वा तावकेषु भारं कुत्वा समाह्वयम् ॥ ५.५८.११ ॥

我将把重任托付给萨特亚瓦塔、普鲁米特拉、布利什拉瓦斯或你的其他人,并向他们挑战。

5.58.12

अहं च तात कर्णश्च रणयज्ञं वितत्य वै ।
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥ ५.५८.१२ ॥

亲爱的父亲,我与迦尔纳已摆开战争祭祀,以坚战为祭牲,已经受戒了,婆罗多族中的雄牛啊。

5.58.13

रथो वेदी स्रुवः खङ्गो गदा स्रुक् कवचोऽजिनम् ।
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥ ५.५८.१३ ॥

战车是祭坛,剑是勺(sruva),铁杵是祭勺(sruk),铠甲是鹿皮;我的车轭是四祭司的职务,箭是吉祥草,名声便是祭品。

5.58.14

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे ।
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ ॥ ५.५८.१४ ॥

国王啊,我们在战场上以自我为祭,祭祀毗婆娑之子(阎摩),取得胜利,诛灭敌人,满载荣耀,我们二人将再会。

5.58.15

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥ ५.५८.१५ ॥

我、亲爱的,还有迦尔纳和我的弟弟难近——我们三人将在战场上杀死般度族。

5.58.16

अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् ।
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमां ॥ ५.५८.१६ ॥

我若杀死般度族,便将统治此大地;或者,他们杀了我,般度之子便将享有这片大地。

5.58.17

त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव ।
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥ ५.५८.१७ ॥

国王啊,我已舍弃性命、王国和一切财富;阿曲多(不退者)啊,我绝不会与般度族共同生活。

5.58.18

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ ५.५८.१८ ॥

尊贵者啊,哪怕是锐利针尖所能刺穿的一小块土地,我们也绝不交给般度族。

5.58.19

सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया ।
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥ ५.५८.१९ ॥

孩子啊,我为他们所有人悲伤。我已抛弃了杜尔约达纳。我为所有缓缓跟随他走向毗婆沙多(阎摩)之境的人而悲伤。

5.58.20

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः ।
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥ ५.५८.२० ॥

犹如老虎扑向鹿群中的卢卢鹿,勇士中最优秀的般度五子在战场上聚集,将会一个接一个地杀死最优秀的战士。

5.58.21

प्रतीपमिव मे भाति युयुधानेन भारती ।
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना ॥ ५.५८.२१ ॥

在我看来颇为颠倒:尤尤丹那(萨提亚基)抓住了婆罗多家族的那位女子(德劳帕蒂)的散乱发髻,而那长臂者又将她抚拭了一番。

5.58.22

संपूर्मं पूरयन्भूयो धनं पार्थस्य माधवः ।
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ ५.५८.२२ ॥

摩陀婆(黑天)再次充实补满婆提之子(阿周那)的军队;而 Śaineya(萨提亚基)将立于战场,像播种一样播撒箭矢。

5.58.23

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति ।
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥ ५.५८.२३ ॥

在战斗者的军前将是毗摩森纳;众人都将投靠他,如同投靠一座无所畏惧的城墙。

5.58.24

यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् ।
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥ ५.५८.२४ ॥

当你看到被毗摩所击倒的大象——象牙折断,形如山岳,额头裂开,满身沾满鲜血——之时。

5.58.25

तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् ।
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥ ५.५८.२५ ॥

你在战场上看见他们如同崩裂的山岳,因毗摩的触碰而恐惧,便会想起我的话。

5.58.26

निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम् ।
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥ ५.५८.२६ ॥

你看见毗摩森那焚毁了战车、马匹与象兵组成的军队,如同火的蔓延,便会想起我的话。

5.58.27

महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः ।
गदया भीमसेनेन हताः शममुपैष्यथ ॥ ५.५८.२७ ॥

若你们不愿与般度子孙和好,巨大的恐惧将降临于你们;被毗摩森那的棍棒击倒,你们将获得平静。

5.58.28

महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् ।
बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः ॥ ५.५८.२८ ॥

当你看见毗摩将俱卢的军队砍倒击落,如同一片大森林被伐尽,那时你便会想起我的话。

5.58.29

एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन् ।
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥ ५.५८.२९ ॥

国王说完这些,又对那些地上的君主们再次开口,大王啊,并再次询问了桑闍耶。