摩诃婆罗多 · 章 5.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.6.1
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ॥ ५.६.१ ॥
在众生之中,有生命者为最优;在有生命者之中,以智慧为生者为最优。在有智慧者之中,人为最优;而在人之中,再生族最优。
5.6.2
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥ ५.६.२ ॥
在再生族之中,博学者最为优越;在博学者之中,意志坚定者最为优越。在意志坚定者之中,践行者最为优越;在践行者之中,梵语宣说者最为优越。
5.6.3
स भवान्कृबुद्धीनां प्रधान इति मे मतिः ।
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च।
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ॥ ५.६.३ ॥
依我之见,您确是那些心智不正者中的首领。您以出身、年岁与学识而杰出,在智慧上您与Śukra和Aṅgiras相当。
5.6.4
विदितं चापि ते सर्वं यथावृत्तः स कौरवः ।
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥ ५.६.४ ॥
您对一切都了然:那位俱卢如何行事,般度诸子以及昆提之子坚战如何行事,您都清楚。
5.6.5
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः ।
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥ ५.६.५ ॥
持国王知道般度诸子被他人欺骗。即便维杜罗恳请,他仍只顺从其子。
5.6.6
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् ।
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥ ५.६.६ ॥
沙古尼故意挑战昆提之子——他不懂掷骰之术,却坚守刹帝利之道、品行纯净;而沙古尼本人却精通掷骰。
5.6.7
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् ।
न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥ ५.६.७ ॥
他们如此欺骗了法王坚战,无论在何种情况下,都不会自愿把王国交给他。
5.6.8
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ।
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥ ५.६.८ ॥
您以合乎法的言辞对持国说话,必定能扭转他麾下战士的心意。
5.6.9
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् ।
भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति ॥ ५.६.९ ॥
毗杜罗也会实现你的这番话,并在毗湿摩、德罗纳、克里巴等人之间挑起分裂。
5.6.10
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च ।
पुनरेकत्र करणं तेषां कर्म भविष्यति ॥ ५.६.१० ॥
当大臣分裂、战士离心时,他们的任务将是重新把他们聚集到一处。
5.6.11
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः ।
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥ ५.६.११ ॥
与此同时,普利塔之子们心境愉悦、意志专一,将从事军务,并积聚财富。
5.6.12
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि ।
न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥ ५.६.१२ ॥
当你自己的人离心离德,而你自己也迟疑不前时,他们不会再像从前那样履行军务;这毫无疑问。
5.6.13
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते ।
संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥ ५.६.१३ ॥
此事的主要目的似乎在此:通过会面,持国会听从你合乎法的话。
5.6.14
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् ।
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन् ॥ ५.६.१४ ॥
你持守法度;对他们行事合乎法,在怜悯之人面前述说般度子孙的苦难。
5.6.15
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् ।
विभेत्स्यति मनांस्येषमिति मे नात्र संशयः ॥ ५.६.१५ ॥
若向长辈述说先人所行的家族法,你必能触动他们的心,对此我毫无疑问。
5.6.16
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ।
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥ ५.६.१६ ॥
你不必害怕他们,因为你是婆罗门,通晓吠陀,适合担任使者之职,尤其年事已高。
5.6.17
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च ।
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥ ५.६.१७ ॥
请在布湿耶星宿、吉时和胜利星宿之下速往俱卢族,以成就贡蒂之子的事业。
5.6.18
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना ।
पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् ॥ ५.६.१८ ॥
大士德鲁波陀如此嘱咐之后,品行端正的家族祭司便前往名为那伽萨呼瓦雅的城市。
5.6.19
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः ।
पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान् ॥ ५.६.१९ ॥
这位通晓政治学(nīti-śāstra)义理的博学者,被弟子们簇拥着,为了般度之子的利益前往俱卢族那里。