マハーバーラタ · 章 5.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.62.1
तथा तु पृच्छन्तमतीव पार्थं ।
वैचित्रवीर्यं तमचिन्तयित्वा।
उवाच कर्णो धृतराष्ट्रपुत्रं ।
प्रहर्षयन्संसदि कौरवाणाम् ॥ ५.६२.१ ॥
パールタ(アルジュナ)が長く問い詰めている間、ヴァイチトラヴィーリヤ(ドリタラーシュトラ)を顧みず、カルナはクル族の集会でドリタラーシュトラの息子を喜ばせながら語った。
5.62.2
मिथ्या प्रतिज्ञाय मया यदस्त्रं ।
रामात्कृतं ब्रह्ममयं पुरस्तात्।
विज्ञाय तेनास्मि तदैवमुक्त-
स्ते नान्तकाले प्रतिभास्यतीति ॥ ५.६२.२ ॥
私は以前、偽りの誓いを立ててラーマからその聖なるブラフマンより成る武器を得た。それを知った彼は、その場で私に言った。「死の時には、それはお前の心に浮かばないだろう。」
5.62.3
महापराधे ह्यपि यन्न तेन ।
महर्षिणाऽहं गुरुणा च शप्तः ।
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ।
ससागरामप्यवनिं महर्षिः ॥ ५.६२.३ ॥
大きな過ちがあったにもかかわらず、あの大仙人、私の師は私を呪わなかった。鋭い輝きを持つその大仙は、海を含む大地さえも焼き尽くす力がある。
5.62.4
प्रसादितं ह्यस्य मया मनोऽभू-
च्छुश्रूषया स्वेन च पौरुषेण
तदस्ति चास्त्रं मम सावशेषं ।
तस्मात्समर्थोऽस्मि ममैष भारः ॥ ५.६२.४ ॥
私は奉仕と自らの努力によって、彼の心を喜ばせた。あの武器は今もなお幾分か私の中に残っている。ゆえに私は力がある。この重荷は私のものだ。
5.62.5
निमेषमात्रात्तमृषेः प्रसाद-
मवाप्य पाञ्चालकरूशमत्स्यान्।
निहत्य पार्थान्सह पुत्रपौत्रै-
र्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥ ५.६२.५ ॥
一瞬のうちに聖仙の恩寵を得て、パーンチャーラ、カルーシャ、マツヤを殺し、息子や孫とともにプリター(クンティー)の子らを殺して、武器によって勝ち取られた世界に私は至るだろう。
5.62.6
पितामहस्तिष्ठतु ते समीपे ।
द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।
ऋषिप्रसादेन बलेन गत्वा ।
पार्थान्हनिष्यामि ममैष भारः ॥ ५.६२.६ ॥
祖父はあなたのそばに留まれ。ドローナと王たちの中の第一人者たちも。聖仙の恩寵と力によって私は赴き、プリター の息子たちを殺そう。この重荷は私のものだ。
5.62.7
एवं ब्रुवन्तं तमुवाच भीष्मः ।
किं कत्थसे कालपरीतबुद्धे।
न कर्ण जानासि यथा प्रधाने ।
हते हताः स्युर्धृतराष्ट्रपुत्राः ॥ ५.६२.७ ॥
そう語る彼に、ビーシュマは言った。「時に心を奪われた者よ、なぜ自慢するのか。カルナよ、主将が倒れれば、ドリタラーシュトラの子らも倒れることを知らないのか。」
5.62.8
यत्खाण्डवं दाहयता कृतं हि ।
कृष्णद्वितीयेन धनञ्जयेन।
श्रुत्वैव तत्कर्म नियन्तुमात्मा ।
युक्तस्त्वया वै सहबान्धवेन ॥ ५.६२.८ ॥
クリシュナを第二として カーンダヴァを焼いたダナンジャヤのその行いを聞いただけで、お前は親族とともに自らを抑えねばならなかったのだ。
5.62.9
यां चापि शक्तिं त्रिदशाधिपस्ते ।
ददौ महात्मा भगवान्महेन्द्रः।
भस्मीकृतां तां समरे विशीर्णां ।
चक्राहतां द्रक्ष्यसि केशवेन ॥ ५.६२.९ ॥
神々の主、大いなる魂の尊きマヘーンドラが汝に与えた、あのシャクティもまた、戦いで灰となり、砕け、円盤に打たれたものとして、ケーシャヴァによって汝は見るだろう。
5.62.10
यस्ते शरः सर्पमुखो विभाति ।
सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्।
स पाण्डुपुत्राभिहतः शरौघैः ।
सह त्वया यास्यति कर्ण नाशम् ॥ ५.६२.१० ॥
お前の蛇の頭を持つ矢、いつも最上の花環で大切に供えられて輝くそれも、パーンドゥの息子の矢の雨に打たれ、カルナよ、お前とともに滅びに赴くだろう。
5.62.11
बाणस्य भौमस्य च कर्ण हन्ता ।
किरीटिनं रक्षति वासुदेवः ।
यस्त्वादृशानां च वरीयसां च ।
हन्ता रिपूणां तुमुले प्रगाढे ॥ ५.६२.११ ॥
カルナよ、バウマの矢を射落とした者こそヴァースデーヴァである。彼はキリーティ(アルジュナ)を守る。そなたのような勇士や、激しい混戦の中で敵の最も優れた者たちを討つのも彼なのだ。
5.62.12
असंशयं वृष्णिपतिर्यथोक्त-
स्तथा च भूयांश्च ततो महात्मा।
अहं यदुक्तः परुषं तु किंचि-
त्पितामहस्तस्य फलं शृणोतु ॥ ५.६२.१२ ॥
ヴリシュニ族の主が言われたとおり、疑いなく、かの偉大な方はさらにそれ以上を言われた。私が口にした荒々しい言葉の結果を、祖父に聞いていただこう。
5.62.13
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये ।
पितामहो द्रक्ष्यति मां सभायाम्।
त्वयि प्रशान्ते तु मम प्रभावं ।
द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥ ५.६२.१३ ॥
私は戦いで決して武器を置かない。祖父は集会で私を見るだろう。そなたが鎮まった後、地上の王たちはみな私の力を見るだろう。
5.62.14
इत्येवमुक्त्वा स महाधनुष्मान् ।
हित्वा सभां स्वं भवनं जगाम ।
भीष्मस्तु दुर्योधनमेव राजन् ।
मध्ये कुरूणां प्रहसन्नुवाच ॥ ५.६२.१४ ॥
そう言って、その大弓の勇者は集会を去り、自分の館へ帰った。さて王よ、ビーシュマは クル族の只中で笑いながら、ドゥルヨーダナその人に語りかけた。
5.62.15
सत्यप्रतिज्ञः किल सूतपुत्र-
स्तथा कस भारं विषहेत कस्मात्।
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा ।
लोकक्षयं पश्यत भीमसेनात् ॥ ५.६२.१५ ॥
誓いに忠実な御者の子は、確かにそうである。しかし、なぜ、どうやってその重荷に耐えられようか。見よ、対陣の陣を組み、頭を割るとき、ビーマセーナによる世界の滅亡を。
5.62.16
आवन्त्यकालिङ्गजयद्रथेषु ।
चेदिध्वजे तिष्ठति बाह्लिके च।
अहं हनिष्यामि सदा परेषां ।
सहस्रशश्चायुतशश्च योधान् ॥ ५.६२.१६ ॥
アーヴァンティヤ、カリンガ、ジャヤドラタ、チェーディの旗手、そしてそこに立つバーリカたちの中で、私は常に敵の戦士を千単位、万単位で打ち倒すであろう。
5.62.17
यदैव रामे भगवत्यनिन्द्ये ।
ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम्।
तदैव धर्मश्च तषश्च नष्टं ।
वैकर्तनस्याधमपूरुषस्य ॥ ५.६२.१७ ॥
彼が婆羅門と偽って、非難なき尊き羅摩からその武器を得たまさにその時、卑しき者、ヴィカルタナの子の法と苦行は失われたのである。
5.62.18
तथोक्तवाक्ये नृपतीन्द्र भीष्मे ।
निक्षिप्य शस्त्राणि गते च कर्णे।
वैचित्रवीर्यस्य सुतोऽल्पबुद्धि-
र्दुर्योधनः शान्तनवं बभाषे ॥ ५.६२.१८ ॥
王たちの主よ、ビーシュマがそう語り、カルナが武器を置いて去ってしまうと、ヴィチトラヴィーリヤの愚かな子ドゥルヨーダナはシャーンタヌの子に語りかけた。